मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 177, कुल 856 में से
संदर्भ में पढ़ें१४२ मानहारे [अध्यायः १८]
स्थपतिर्वरवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः । 396
सुमुहूर्ते सुलग्ने च जयशब्दादिमङ्गलैः ॥ १९७ ॥
ब्राह्मणैश्च यथाशक्त्या(क्ति) वाचयेत्स्वस्तिवाचनम् ।
स्तूपिकिलं समुद्धृत्य स्थपतिः स्थापकैः सह ॥ १९८ ॥
एतद्वैवोपरि स्थाप्य मूलमन्त्रं समुच्चरन् । 400
स्तूपिकीलस्य परितः स्थापयेच्चतुरिष्टकम् ॥ १९९ ॥
पूर्वादि(दौ) च शकारादीन्न्यावर्त्त(नीशानान्तं) क्रमान्न्यसेत् ।
प्राक् मूलकुम्भमुद्धृत्य चालयद्भिः(यन्) प्रदक्षिणम् ॥ २०० ॥
स्थपतिः स्तूपिमूर्द्धाग्रे तज्जलेनाभिषेचयेत् । 404
इन्द्रादिकुम्भतोयेन पूजयेच्चतुरिष्टकान् ॥ २०१ ॥
शुद्धतोयेन संपूर्य गन्धपुष्पैः समर्चयेत् ।
पूर्ववत्समलङ्कृत्य नैवेद्यादि(दीन्) निवेदयेत् ॥ २०२ ॥
षोडशोपचारांश्च कुर्याद्गन्धाक्षतैः सह । 408
स्तूपिहर्म्ये मूर्ध्नि[न]स्तु हंसपादः स्थितो भवेत् ॥ २०३ ॥
नमस्ते कर्तृराज्यादि ग्रामं रक्षतु सर्वदा ।
सुधागुलोदकं(कैः) चापि इ(चे)ष्टकैर्बहुभिस्ततः ॥ २०४ ॥
स्तूपिकिलं दृढीकृत्य पश्चात्प्रागुक्तवत्कुरु । 412
ब्रह्माविष्णुमहेश्वरस्य(राणां) स्तूपिप्रतिष्ठां कुरु ॥ २०५ ॥
कुर्वन्तद्यजमानगृहे नृपालये भुक्ति मुक्तिमावहेत् ।
यस्मादकुर्वन्नारद(नारी)नरनृपतयोः कर्ता(र्तु)श्च पीड़ा भवेत् ॥ २०६ ॥
तस्मात्सर्वसुखप्रदं नृपगृहे कुर्यात्स(च्च) देवालये । 416
विप्रवाहनयुतं च सद्गुरुं शिल्पिनान्दि(कादि)गजवाजनस्(जिनं) तथा ॥ २०७ ॥
नृत्तगीत(तं) सह सर्वघोषयैः सेवितानि स्वगृहं प्रवेशयेत् ॥ २०८ ॥
इति मानहारे वास्तुशास्त्रे विमानविधानं नाम अष्टादशोऽध्यायः ।