मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 162, कुल 856 में से
संदर्भ में पढ़ें१८] विमानलक्षणम् १२७
विमानलक्षणम्
विमानलक्षणं चैव संक्षेपादुच्यतेऽधुना ।
तैत्तिलानां द्विजातीनां वर्णानां वासयोग्यकम् ॥ १ ॥
एकभूमिविमानादिरविभूम्यवसानकम् ।
भक्तिसंख्या(ख्यां) तदाकारं स्थू(स्तू)पिकाद्यैश(दि) च लक्षणम् ॥ २ ॥ ४
लुप्तमानक्रमं सर्वं स्तूपिकास्थापनं क्रमात् ।
खानयेद्भूतलं श्रेष्ठं पुरुषाञ्जलिमात्रकम् ॥ ३ ॥
जलान्तं वा शिलान्तं वा पूरयेद्वालुकैर्जलैः ।
हस्तिपादाकृति(ति) दारुस्तम्भेन[च] प्रहारयेत् ॥ ४ ॥ ८
एवं दृढकरं(कृतं) चोर्ध्वं यथाशास्त्रं (हर्म्यं) तु कारयेत् ।
एकभूमिविमाने तु चोक्तवत्करसंग्रहम् ॥ ५ ॥
एकभक्त्या द्विभक्त्या वा त्रिचतुष्पञ्चभागिकम् ।
षड्भागं षड्विधं प्रोक्तं क्षुद्रमेकतलं भवेत् ॥ ६ ॥ १२
पञ्चषट्सप्तभागं स्यान्मध्यममेकतलं भवेत् ।
षट्सप्ताष्टविभागं स्यात् श्रेष्ठमेकतलं भवेत् ॥ ७ ॥
पञ्चषट्सप्तभक्त्या च क्षुद्रं च द्वितलं भवेत् ।
षट्सप्ताष्टभक्त्या च मध्यमं द्वितलेन(लमेव) च ॥ ८ ॥ १६
सप्ताष्टनवभागं स्यादुत्तमं द्वितलं न्यसेत् ।
सप्ताष्टभक्तिकं कुर्यात्क्षुद्रं च त्रितलं भवेत् ॥ ९ ॥
नन्दपङ्क्त्यंश(शं) तेनैव मध्यमं त्रितलं भवेत् ।
एकपङ्क्त्यर्कभागेन चोत्तमं त्रितलं भवेत् ॥ १० ॥ २०
अष्टनन्ददशांशं स्यात्क्षुद्रमाने चतुस्तले ।
नन्दपङ्क्तिरुद्रभागं स्यान्मध्यमे च चतुस्तले ॥ ११ ॥
पङ्क्तिरे(ड्ये)कादशार्कं स्याद्भागं श्रेष्ठे चतुस्तले ।
नन्दपङ्क्त्येकादशार्कभागं सद्यविशालकम् ॥ १२ ॥ २४