मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 167, कुल 856 में से
संदर्भ में पढ़ें१३२ मानमारे [अध्यायः
शुद्धं मिश्रं च संकीर्णं विमानं त्रिविधं भवेत् ।
एकद्रव्यं तु शुद्धं स्याद्द्विद्रव्यं मिश्रहर्म्यकम् ॥ ६६॥
त्रिद्रव्यं हर्म्य(र्म्यं) संकीर्णं शिलांचे(ले)ष्टकदारुण(णा)म् ।
एकद्रव्येण युक्तं च कुर्याच्छिल्पि(ल्प)वित्तमः ॥ ७० ॥ 140
स्तूपीकीलम्
स्तूपीकीलायतं तारं लक्षणं वक्ष्यतेऽधुना ।
ऊर्ध्वभूम्या यथापादं तस्यायाम(मं) समं तु वा ॥ ७१ ॥
गलोच्चाध्यर्धतुङ्गं वा स्तूपीकीलायतं तथा ।
तद्विष्कम्भसम(मं) व्यासं स्तूपीकीलस्य मूलके ॥ ७२ ॥ 144
अथवाङ्गुलमानेन कीलमूलविशालकम् ।
त्रिचतुस्त्रिंशाङ्गुलं लोहे दारुकीलं तु(वा) पूर्ववत् ॥ ७३ ॥
कीलायामं त्रिभागैकं मूले वेदाश्रमीरितम् ।
मध्ये चाष्टाश्रसंयुक्तं चाग्र(ग्रे) वृत्ताकृतिस्तथा ॥ ७४ ॥ 148
एकाङ्गुलाग्रविस्तारं मूलाग्रान्तं चयं(थ)क्रमात् ।
अथवा शिखराकारं कीलं मध्याकृतिस्तथा ॥ ७५ ॥
स्तूपीकीलविधृता(स्तुतिः) त्रिगुणा स्यात्
बहिश्चरणाद्यैर्युक्तम् । 152
कीलाधारविस्तृतार्थ(र्धं) तद्धनं
तत्कीलमूलमथ तत्र योज्यम् ॥ ७६ ॥
ताम्रजं चायसं दारु [जं] लभेत कीलं प्रकल्पयेत् ।
खदिरं खादिरं चैव तिन्तिणी खारमेव च ॥ ७७ ॥ 156
उक्तदारु संगृह्य स्थपतिः स्थापकैः सह ।
तत्काले ज्ञापयेद्विद्वान् स्तूपीकीलस्य वक्रकम् ॥ ७८ ॥
ऋज्वङ्गं च न भिन्नानि (शं च) तच्छाणत्तक्षकैण तु ।
स्तूपीकीलमिदं प्रोक्तं तदूर्ध्वष्टकलक्षणम् ॥ ७६ ॥ 160
मानं प्रागुक्तवत्कुर्यात्तुंबी चेष्टकां विदुः ।
मूलाग्रं च समतारं तु चेष्टका(कं) पुरुष(षं) स्मृतम् ॥ ८० ॥