मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 164, कुल 856 में से
संदर्भ में पढ़ें१८] विमानलक्षणम् १२६
द्वाविंशतिं च भागं च त्रयोविंशतिभागिकम् ।
क्षुद्रं नवतलं ह्येवं कुर्याद्भागं विमानके ॥ २७ ॥
एकविंशतिभागं च तद्द्वाविंशविभागिकम् ।
त्रयोविंशतिभागं स्याच्चतुर्विंशतिभागिकम् ॥ २८ ॥ 56
मध्यमं(ध्यं) नवतलं कुर्यान्मध्यमे तद्विशालके ।
द्वाविंशतिं(तिश) च भागं स्यात्त्रयोविंशतिभागिकम् ॥ २६ ॥
चतुर्विंशतिकं च(वापि) पञ्चविंशतिकांशकम् ।
श्रेष्ठं नवतलं प्रोक्तं कुर्यात्तु शिल्प(रूप)वित्तमः ॥ ३० ॥ 60
त्रयोविंशतिभागं स्याच्चतुर्विंशतिभागिकम् ।
पञ्चविंशतिभागं च षड्विंशतिभागिकम् ॥ ३१ ॥
क्षुद्रं दशतलं कुर्याद्भागं सम(मध्य)विशालके ।
चतुर्विंशतिकं चैव पञ्चविंशतिकं तथा ॥ ३२ ॥ 64
षड्विंशतिश्च भागं च सप्तविंशतिभागिकम् ।
मध्यमं(ध्यं) दशतलं कुर्याद्विमानस्य विशालकम्(के) ॥ ३३ ॥
पञ्चविंशतिभागं स्यात्षड्विंशतिभागिकम् ।
सप्तविंशतिभागं स्यादष्टाविंशतिभागिकम् ॥ ३४ ॥ 68
श्रेष्ठं पङ्कितलं कुर्याद्भागं हर्म्यविशालके ।
षड्विंशतिश्च भागं स्यात्सप्तविंशतिभागिकम् ॥ ३५ ॥
अष्टाविंशतिभागं स्यान्नवविंशतिभागिकम् ।
क्षुद्रमेकादशतलं भागमानविशालके ॥ ३६ ॥ 72
सप्तविंशतिभागं च अ(तु वा)ष्टाविंशतिभागिकम् ।
नवविंशतिकं चैव त्रिंशाद्भागविशालकम् ॥ ३७ ॥
एकादशतलं प्रोक्तं मध्यमं तद्विमानके ।
अष्टाविंशतिभागं स्यान्नवविंशतिभागिकम् ॥ ३८ ॥ 76
तच्चत्रिंशतिकं चैव चैकत्रिंशांशकं तथा ।
एकादशतलं श्रेष्ठं हर्म्यमूलविशालके ॥ ३६ ॥
नवविंशतिभागं स्यात्त्रिंशदंशविशालके(कम्) ।
एकत्रिंशाद्विभागं स्याद्द्वात्रिंशां(शदं)शकं भवेत् ॥ ४० ॥ 80
16