मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पृष्ठ 166, कुल 856 में से
संदर्भ में पढ़ें१८] विमानलक्षणम् १३१
त्रिहस्तं भूपतीनां च सार्धत्रि[हस्तं] तु भूसुरा[णा]म् ।
तैल(ति)लानां चतुर्हस्तं स्तूपितुङ्गं प्रकल्पयेत् ॥ ५५ ॥
षोडशैकांशकं कृत्वा पालिकाकुड्मलं कृतम् (लान्तकम्) ।
सार्धांशं पालिकोच्यं स्यादर्धांशं वाजनं भवेत् ॥ ५६ ॥ 112
पद्मातुङ्गं त्रिभागं च कन्धरं चैकभागिकम् ।
अर्धेन कम्पपद्मं स्यात्कुम्भतुङ्गं द्वयांशकम् ॥ ५७ ॥
ऊर्ध्वे च सार्धभागेन दलं (दलिक) पद्मं प्रकल्पयेत् ।
तदूर्ध्वं च त्रिभागेन तद्दण्डोदयमीरितम् ॥ ५८ ॥ 116
अर्धांशं कम्पपद्मं स्याद्वाजनं चोप(चार्ध)भागिकम् ।
तदूर्ध्वे कम्पपद्मं च सार्धभागेन योजयेत् ॥ ५९ ॥
द्विभागं कुड्मलोत्तुङ्गं दण्डतुङ्गस्य मध्यमे ।
यथाऽलङ्कारयुक्तं चेत्पद्मकेसरमावृतम् ॥ ६० ॥ 120
अथवा स्तूपिकोत्तुङ्गं दण्डमानेन कारयेत् ।
पालिकोत्तुङ्ग(ङ्गं) दण्डेन पद्मातुङ्गं त्रिदण्डकम् ॥ ६१ ॥
कन्धरं चैकदण्डं स्यात्कुम्भोच्या(त्थ्यम)र्धद्विदण्डकम् ।
एकदण्डो(ण्डमू)र्ध्वपट्टं स्याद्द्विदण्डं कुड्मलोदयम् ॥ ६२ ॥ 124
शेषं तन्मध्यदण्डं स्यात्पूर्ववत्समलङ्कृतम् ।
शिर(रस्) तारे(रं) तु भूतांशं वह्ने्यंशं पालिकायतम् ॥ ६३ ॥
तद्विशाले तु भूतांशं सार्धवेदांश(शं) विस्तृतम् ।
अब्जतारे त्रिभागैकं(गं च) वह्निभागैकभागिकम् ॥ ६४ ॥ 128
पद्मास्योपरि कार्यं स्यात्तन्त्रिधा कुम्भविस्तृतम् ।
कुम्भतारं नवांशैकं(शं च) भाग(गं) दण्डविशालकम् ॥ ६५ ॥
दण्डतारं त्रिधा पाक्ति तत्र(था) भागैक(कं) कुड्मलम् ।
महारूजा(ब्जम)ष्टदलं कुर्याच्छ्लेषं युक्त्या प्रयोजयेत् ॥ ६६ ॥ 132
तद्दयो(दूर्ध्वं) विहृतं चाधस्तदर्धा(र्धमा)धारपट्टिका ।
तदर्धं च तथा पट्टं स्यात्तदूर्ध्वं पद्मं तस्याध(धः) ॥ ६७ ॥
शेषं तु कुड्मलं कुर्याद्विस्तारं युक्तितो न्यसेत् ।
शिला(लां) वा चेष्टकं दारु लोहं चैव प्रकल्पयेत् ॥ ६८ ॥ 136