सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 168, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 168

१८] विमानलक्षणम् १३३
आनुपूर्व्यं कृशं तारं वनिता चेटका तथा ।
शिलाहर्म्ये शिलायुक्तं चेटकं चेटका तथा ॥ ८१ ॥ 164
पुंविमानान्न(ने च) पुरुषं वनिता[यां] वनितां क्षिपेत् ।
शिलासंग्रहकाले तु ज्ञापयेत्पुंस्त्रियं तथा ॥ ८२ ॥
एषा मूर्खेष्टिका प्रोक्ता लुपालक्षणमुच्यते ।
लुपालक्षणम्
स्तूपितुङ्गोदयं वाथ विमानं च (नस्य) वशो(शादु)दयम् ॥ ८३ ॥ 168
एतत्तु शिखरोत्तुङ्गं तदर्धं गलतुङ्गकम् ।
लुपारूपं शिखरं स्याद्ग्रीवान्तं तल्पवासनम् ॥ ८४ ॥
उत्तरादिमृणालांन्तं प्रस्तरस्यांचवद्गले(ङ्गम्) ।
तदूर्ध्वं दण्डकं कुर्याल्लुपमानमिहोच्यते ॥ ८५ ॥ 172
देवानां मानुषाणां च लुपमानं यथाक्रमम् ।
अम्बरं च व्ययं(वियज्)ज्योतिर्गगनं च विद्यायसि(यश्च) ॥ ८६ ॥
अनन्तं चान्तरीक्षं च पुष्कलं चाष्टधालुपाः ।
देवानां हर्म्यके कुर्यादुक्तमेवं पुरातनैः ॥ ८७ ॥ 176
मही ज्या काश्यपी क्षौणी चोर्वी गोत्रा वसुंधरा ।
वसुधा चाष्टधा प्रोक्ता कारयेन्मानुषालये ॥ ८८ ॥
सर्वेषां देवतायोग्यं नराणां चोक्तयोग्यकम् ।
सुराणामुक्तमानं यन्मर्त्यैस्तन्नेष्य(ष्यं) यत्नतः ॥ ८९ ॥ 180
शिखरोदयसत्तुल्यं विस्तारोन्नतम्बरम् ।
अष्टांशं चैकहीनं तु विस्तारोन्नतो(तं) वियत् ॥ ९० ॥
सप्तभागैकहीनं तु विस्तृतं ज्योतिर्मानतः ।
षट्(ह)भागैकहीनं तु विस्तारं गगनस्य(नं च) स्मृतम् ॥ ९१ ॥ 184
पञ्चभागैकहीनं तु विस्तारं तद्विहायसि ।
चतुर्भागैकहीनं तु चानन्ते तद्विशालकम् ॥ ९२ ॥
उत्तुङ्गं त्रित्रिभागैकहीनं तारा(रमा)न्तरिक्षकम् ।
तुङ्गे ऽशैकहीने स्याद्धा(व्या)सं पुष्कलमीरितम् ॥ ९३ ॥ 188