सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

' and 'प्रतीतेः':
धि-का-रा-भा-वा-प्र-ती-तेः -> wait, is it 'भा' then 'व'?
Look at "कुतुकिनोऽधिकाराभावप्रतीत्या":
कुतुकिनोऽधिकाराभावप्रतीत्या - wait, look at 'भाव': भा then व.
In the next word:
अकुतुकिनोऽधिकाराभावाप्रतीतेः -> look at the letter between 'भा' and 'प्र':
Is it 'वा' or 'व'? It's 'व'! Just 'व'!
Wait, look at the top: is there an aa-matra? No, it's just 'व'!
Wait, so is it "अकुतुकिनोऽधिकाराभावप्रतीतेः"?
Wait, why would it be अभाव?
If कुतुकी doesn't have अधिकार (कुतुकिनोऽधिकाराभाव), then अकुतुकी DOES have अधिकार, so अकुतुकिनोऽधिकारप्रतीतेः!
Let's look at the letters:
Does it say: "अकुतुकिनोऽधिकारप्रतीतेः" or "अकुतुकिनोऽधिकाराभावप्रतीतेः"?
Look closely at:
अ कु तु कि नो ऽ धि का रा [?] प्र ती तेः
Wait! Between 'रा' and 'प्रतीतेः':
There is: 'भा' and 'व'?
Wait, look at that character!

सौभाग्यभास्करव्याख्या । २१३
राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः ॥ २६३ ॥
त्रिरात्रं यः पठेदेतच्छ्रीदेवीध्यानतत्परः ।
स राजा पारवश्येन तुरंगं वा मतङ्गजम् ॥ २६४ ॥
आरुह्य याति निकटं दासवतप्रणिपत्य च ।
तस्मै राज्यं च कोशं च दद्यादेव वशंगतः ॥ २६५ ॥
निमित्तेन दुःसाध्यतायामेतद्विधिसार्थक्यात् । अस्तिहि हनुगुण्ठपीठमाहात्म्ये इति-
हासः—नारायणाख्यस्य मुनेः चन्द्रवदनाख्या भार्या शक्रात्मजेन सेतुराजेनापहृता मु-
निना देवीमाराध्यैव पुनरानीतेति । अथवा परकायाकर्षणस्य धर्माविरोधेनैव फलान्तरं
कल्प्यम् । अस्तु वा संभोगार्थमेवाकर्षणम् । तथापि तस्य भावनायां भाव्यत्वेनैवा-
न्वयान्न विधेयत्वम् । तदुक्तं तन्त्रवार्तिके ‘फलांशे भावनायाश्च प्रत्ययो न विधायकः ।
वक्ष्यते जैमिनिश्चात्र तस्य नित्यार्थलक्षणे’ति । विहितलाभावाच्च न परकीयाभिलाषस्य
धर्मत्वम् । तत्करणीभूते प्रकृतिप्रयोगे तु श्येनयाग इव धर्मत्वम् । यानि तु ‘सर्वा-
सामैव योषाणां कौलिकः प्रथमः पति’रित्यादीनि श्यामारहस्यकारैर्लिखितानि वच-
नानि तदर्थनिष्कर्षरीत्या तु धर्मत्वं गुरुमुखादेवावगन्तव्यम् ॥ अत्र त्रिवर्गे मध्यमस्य
कामानन्तरमुपस्थितत्वात्तत्फलेकेषु भूरिषु प्रयोगेषु राजाकर्षणमाह सार्धद्वयेन—राजेति ।
चेदित्यनेनाकर्षणकामनायां सत्यां तदुद्देशेन प्रयोगकरण एवेदं फलं सिध्यति । उत्तरत्र
वक्ष्यमाणानि तु षट्कर्माणि तत्तदुद्देशेन प्रयोगकरणेऽप्यानुषङ्गिकाणि सत्यकामस्यापि
सिध्यन्तीति सूचितम् । राज्ञ आवसथो गृहं खासनस्थलाद्यस्यां दिशि वर्तते तदभिमुख
इत्यर्थः । सामान्यविधानात्प्रागुदङ्मुखतयोः प्राप्तयोरयमपवादः ॥ २६३ ॥ त्रिरात्र-
मित्यत्यन्तसंयोगे द्वितीया । त्रिरात्रपदं चाहोरात्रपरम् । त्रिरात्रमाशौचमित्यादौ तथा
दर्शनात् । तेन नित्यकर्मापि संकोच्य लौकिकमप्यावश्यकमात्रमेव कृत्वाऽनवरतमिदं
चतुर्विंशतिप्रहरपर्यन्तं पठेद्रिति सिध्यति । अतएवावृत्तिसंख्याया नियमः । श्रीदेवी-
ध्याने राजानं पाशेन बध्वाङ्कुशेनाकर्षन्त्याः पूर्वोपस्थिताया देव्या ध्याने तत्पर
आसक्तः । नचैवं पूर्वप्रयोगेण गतार्थता । तत्रैका यामचतुष्टयात्मिका रात्रिरेव कालः
प्राङ्मुखोदङ्मुखतयोर्नियमश्च वैकल्पिकः । अत्र तु त्रयोऽहोरात्राः कालः राजगृहदि-
ङ्मुखत्वनियमश्चेति विशेषता । वस्तुतस्तु कालत एवानयोर्वैलक्षण्यम् । आकृष्यमाण-
दिङ्मुखत्वस्याकर्षणमात्रे आवश्यकतायास्तन्त्रान्तरसिद्धत्वात् । तथाच वामकेश्वरतन्त्रे
‘तदाशाभिमुखो भूत्वा त्रिपुरीकृतविग्रहः । बध्वा तु क्षोभिणीमुद्रां विद्यामष्टशतं जपे’-
दित्यारभ्य ‘भ्रमन्तीं भावयेन्नारीं योजनानां शतैरपि’ इत्यन्तम् । नित्यातन्त्रेऽपि कुरु-
कुल्लापटले ‘विद्यां त्रयोदशार्णां तु तद्दिग्वक्त्रस्त्रिभिर्दिनैः । स्त्रियमाकर्षये’दित्यादि । ज्ञाना-
र्णवेपि ‘तदाशाभिमुखो भूत्वा स्वयं देवीस्वरूपक’ इत्यादि । एवं दक्षिणामूर्तिसंहि-
तादिकमुदाहार्यम् । यो येन मनसोद्दिष्टः स एव राजेत्यर्थः । चोरवदेकाकी नायातीति

रहस्यनामसाहस्रं यः कीर्तयति नित्यशः ।
तन्मुखालोकमात्रेण मुह्येल्लोकत्रयं मुने ॥ २६६ ॥
यस्त्विदं नामसाहस्रं सकृत्पठति भक्तिमान् ।
तस्य ये शत्रवस्तेषां निहन्ता शरभेश्वरः ॥ २६७ ॥
यो वाभिचारं कुरुते नामसाहस्रपाठके ।
निवर्त्य तत्क्रियां हन्यात्तं वै प्रत्यङ्गिरा स्वयम् ॥ २६८ ॥
ये क्रूरदृष्ट्या वीक्ष्यन्ते नामसाहस्रपाठकम् ।
तानन्धान्कुरुते क्षिप्रं स्वयं मार्तण्डभैरवः ॥ २६९ ॥
धनं यो हरते चोरैर्नामसाहस्रजापिनः ।
यत्र कुत्र स्थितं वापि क्षेत्रपालो निहन्ति तम् ॥ २७० ॥
द्योतनाय तुरङ्गं वेत्यादि । तस्मै प्रयोक्त्रे वशंगतः तदाज्ञापरवशः सन् ॥ २६४ ॥ २६५ ॥
अथाकर्षणेन वशीकरणादिषट्कर्मणामुपस्थितत्वात्तत्प्रयोगाना

द्य?
No, it's a single letter with ु! It's नु!
Wait, could it be नृत्यान्तरानुगुण्याय? Yes, नृत्यान्तरानुगुण्याय!

  • णगुणनिकापूर्वावलोकनपाठनादिकमनपेक्ष्यैव सर्वा अपि विद्या अविस्मृतास्तिष्ठन्ति ।
  • अध्ययनं त्वपेक्षितमेव । विद्याप्राप्तौ गुरोरेवासाधारणकारणत्वादिति भावः ॥ २७४ ॥
    Wait, in line 29: "अध्ययनं त्वपेक्षितमेव ।"
    Look at the image: अध्ययनं त्वपेक्षितमेव?
    Wait, look at line 29, the second word:
    अध्ययनं then त्वपेक्षितमेव?
    Look at the characters:
    अ ध्य य नं then त्व?
    Wait, the letter is ल?
    Look at line 29: अध्ययनं लपेक्षितमेव or त्वपेक्षितमेव?
    Wait! It looks like त्वपेक्षितमेव: त् + व = त्व.
    Wait, does it have a loop? No, look at त्व: in यस्त्वेकवारं (line 9):
    Look at `स्त

यः पठेन्नामसाहस्रं जन्ममध्ये सकृन्नरः ।
तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वकिल्बिषैः ॥ २७६ ॥
यो वेत्ति नामसाहस्रं तस्मै देयं द्विजन्मने ।
अन्नं वस्त्रं धनं धान्यं नान्येभ्यस्तु कदाचन ॥ २७७ ॥
श्रीमन्त्रराजं यो वेत्ति श्रीचक्रं यः समर्चति ।
यः कीर्तयति नामानि तं सत्पात्रं विदुर्बुधाः ॥ २७८ ॥
त्रिरावृत्तेः । अतन्द्रितो निद्राप्रमीलादिरहितः । इदं च सर्वत्राप्यावश्यकमप्यस्मिन्प्रयो-
गेऽप्यावश्यकमिति द्योतनायोक्तं, तेन च निशीथेऽयं प्रयोग इत्यपि सूचितम् । तस्य
तत्कर्तृकात्तत्कर्मकाद्वा अत्र मात्रपदाभावेन संकल्पे स्त्रीणां वशीकरणार्थमित्युल्लेखः
कार्य इति ध्वन्यते ॥ २७५ ॥ एवमर्थकामानुक्त्वा धर्मप्रदान्प्रयोगान्बहुभिः प्रकारै-
र्वक्तुमुपक्रममाणः प्रथमप्रयत्नसाध्यं धर्ममाह—य इति । जन्ममध्य इत्यनेन याव-
ज्जीवषण्मासैकमासैकपक्षाणां पक्षाणामपवादः । एकवारमित्यस्यैवानुवृत्त्या सिद्धावपि
मण्डूकप्लुत्या त्रिवारपदानुवृत्तिशङ्का मा प्रसाङ्क्षीदिति सकृदित्यनेन प्रतिप्रसवः । तद्दृष्टि-
गोचराः तत्कर्तृकचाक्षुषप्रत्यक्षविषयाः सर्वे प्राणिन इति शेषः ॥ २७६ ॥ अथ दान-
क्रियासंप्रदानकारकनिष्ठपात्रताशरीरघटकत्वेन धर्मप्रदलमाह चतुर्भिः—य इति ।
देयमित्यत्र ललितोपासकेनेति शेषः । श्रीदेवीप्रीतिमिच्छतेत्युत्तरग्रन्थानुसारत् । तेना-
नुपासकेनान्येभ्योऽपि देयं संप्रदानत्वाविशेषादिति सिध्यति । 'प्रवृत्ते शाम्भवीचक्रे
सर्वे वर्णा द्विजातय'इति कुलार्णववचनेन ब्राह्मणधर्मातिदेशो न श्रुतिस्मृतिप्राप्तसं-
प्रदानत्वविषयः, अपितु यागसमयेऽस्पृश्यतादिधर्ममात्रपर इत्याशयेनाह—द्विजन्मन
इति । ब्राह्मणायेत्यर्थः । अन्नमित्यादिदेयमात्रोपलक्षणम् । अन्येभ्यः सहस्रनामख-
नादरशीलेभ्य उपासकाभासब्राह्मणेभ्यः कदाचन श्रुतिस्मृतिविहितार्त्विज्यश्राद्धादिका-
लेऽपि न दद्यादित्यर्थः । तत्राप्युपास्तिपरा एवावश्यका इत्याशयः ॥ २७७ ॥ मन्त्र-
राजं श्रीविद्याम् । अत्र त्रयाणां समुच्चये सत्पात्रतां, अन्यतमाभावे तारतम्यं, त्रया-
णामप्यभावे पात्रत्वाभावश्चेति न्यायत एव सिद्ध्यति । तदयं निष्कर्षः—संप्रदानता-
वच्छेदकानामेषां त्रयाणां विशेषणानां मध्ये एकैकविशेषणकास्त्रयो द्विविशेषणका
अपि त्रयस्त्रिविशेषणक एकस्त्रयाभाववानन्य इत्यष्टविधा ब्राह्मणाः प्रस्ताररीत्या भासन्ते
यद्यपि तथापि चक्रराजार्चकत्वस्य मन्त्रराजवेत्तृत्वव्याप्यत्वेन तन्मन्त्रविशेषणको न संभा-
व्यते । अतएव च मन्त्रेतरविशेषणद्वयमात्रकोऽपि खपुष्पमेव । तेन षाड्विध्यमेव
ब्राह्मणानाम् । तेषु त्रिगुणक, उत्तमः, द्विगुणकौ मध्यमौ । तयोरपि मध्ये मन्त्रवेत्तृत्व-
चक्रार्चकत्वरूपगुणद्वयशालीनमपेक्ष्य मन्त्रवेत्तृत्वनामकीर्तनरूपगुणद्वयशाली श्रेष्ठः, एक-
गुणकौ कनिष्ठौ । तयोरपि मध्ये मन्त्रवेदनमात्रगुणको वरीयान् । नामकीर्तनमात्र-
गुणकः कनिष्ठतरः । मन्त्रराहित्ये नामकीर्तनेऽधिकाराभावेनानधिकारिनिष्ठस्य गुणस्यापि
शूद्राधीतवेदवाक्यन्यायेनाप्रयोजकत्वात् । अभावत्रयवांस्तु नैव पात्रमिति विवेकः

"?
Wait, what if it's "ललिताचक्रार्चन"?
Wait, look at:
Is it "ललिताचर्चना"? No.
Let's look at the letters:
Letter 1: च
Letter 2: ै
Letter 3: र्च
Letter 4: ना
Wait, could it be "ललिताचैर्चनाम"?
Wait, what if it is "ललिताचर्चनाम" with broken type?
Wait, let's search Google / Sanskrit texts for the exact phrase:
"तच्च ललिताच"
In Saubhagyabhaskara:
"विद्याविषये विद्वत्त्वं नाम याथातथ्येनोपास्तिशालित्वम् । तच्च ललिताचर्चनानामकीर्तनसाहित्ये..." or "ललितार्चननामकीर्तनसाहित्ये"?
Wait, in Sanskrit:
Lalita worship = ललितार्चन (Lalitārcana).
Why would it be "ललिताच..."?
Wait! Could it be "ललिताया अर्चन"? No, compound is ललितार्चन.
Wait, what if it's "ललिताचक्रार्चन"?
Wait! Is it "ललिताचक्रार्चन"?
Look at the text in line 20-21:
"विद्यावत्त्वेऽपि चक्रार्चननामकीर्तनयोरधिकारसत्त्वेऽप्यकरणाद्विद्यमानाप्य

२१८ ललितासहस्रनाम ।
देवता ललितातुल्या यथा नास्ति घटोद्भव ॥ २८१ ॥
रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ।
लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ॥ २८२ ॥
समर्चयेत्सदा भक्त्या तस्य तुष्यति सुन्दरी ।
बहुनात्र किमुक्तेन शृणु त्वं कुम्भसंभव ॥ २८३ ॥
नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु विद्यते ।
तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ॥ २८४ ॥
न्तरविरहद्वारात्युत्तमत्वं ध्वनयंस्तेषां सत्पात्रतावच्छेदकतायां कथन्ताशङ्कामपाकरोति
सार्धेन । अत्र यथातथेत्यनयोर्वैपरीत्येनाप्यन्वयो द्रष्टव्यः ॥ २८१ ॥ इदानीमनुपासक-
स्याप्येतत्स्तोत्रं धर्मप्रदमित्याह । यस्तु यः कश्चिदपि उपासकोऽनुपासको वेत्यर्थः । अनुपा-
सकस्य नामकीर्तनेऽधिकाराभावेऽपि तत्पुस्तकार्चनेऽधिकारस्य निराबाधत्वात् ॥ २८२ ॥
सदा यावज्जीवं तस्य अनुपासकस्यापि किमुतोपासकस्येति भावः । यद्यप्यनेनैव न्यायेन
पुस्तकार्चनेनापि तुष्यति किमुत कीर्तनेनेति कैमुतिकन्यायेन कीर्तन एव तात्पर्यम् ।
तस्मात्कीर्तयेदित्युत्तरोपसंहारो युज्यत इति सुवचं, तथापि 'स्वाध्यायोऽध्येतव्य'इति
वचनेऽध्ययनपदस्य गुरुमुखोच्चारणानूच्चारणे शक्तत्वेऽपि तत्करणकार्थज्ञानभाव्यकभावना-
विधानपरत्ववदिहापि नामानि कीर्तयेदिति विधेरप्यर्थज्ञानपर्यन्तता निर्विवादा । तेन
'अप्येकं नाम यो वेत्ति धात्वर्थनिगमादिभिः । सोऽपि श्रीललितालोके कल्पकोटीर्वसेन्नर'
इति देवीपुराणे, 'अनधीतमविज्ञातं निगदेनैव पद्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति
कर्हिचि'दिति स्मृत्यन्तरेषु च वचनान्यर्थज्ञानाज्ञानयोः प्रशंसानिन्दापराणि संगच्छन्ते ।
अर्थज्ञानान्तसामर्थ्याभावे तु निगदमात्रपरापि सा भावना भवितुमर्हति । 'आख्याता-
नामर्थं ब्रुवतां शक्तिः सहकारिणी'ति न्यायात् । अतएव 'योऽर्थज्ञ इत्सकलं भद्रमश्नुते
नाकमिति ज्ञानविधूतपाप्मे'ति श्रुतावर्थज्ञानप्राप्यफले सकललविशेषणेन शब्दज्ञानमात्रेण
किंचिद्विकलं फलमस्तीति ज्ञापितम् । ततश्च तुल्यन्यायेन शब्दपाठेऽप्यसमर्थस्य पुस्तक-
संग्रहमात्रमपि न्यायलभ्यम् । उच्चारणस्य जन्मान्तरे अर्थज्ञानप्रदत्ववत्पुस्तकसंग्रहस्या-
प्युच्चारणप्रदत्वं जन्मान्तरे संभवतीति सुवचम् । अतएव तन्त्रराजादिष्वसंप्रदायेनाङ्ग-
हीनापि कृतोपासना जन्मान्तरे साङ्गसंप्रदायशुद्ध्यै कल्पत इत्युक्तम् । तेन पुस्तकार्चन-
मात्रमपि धर्म एव । सचानुपासकस्याप्यनिषिद्धत्वाज्जन्मान्तरे उपासनाप्राप्त्यर्थं कर्तव्य
एव । उपासकस्य तु नामपाठेऽप्यसमर्थस्य नाम पठेदिति विधेर्यावच्छक्तिपरिपालनाया-
वश्यकतम एव । नच 'कुलपुस्तकानि गोपये'दिति कल्पसूत्रोक्तविधिविरोधादनुपासकस्य
कथं पुस्तकार्चनेऽधिकार इति वाच्यम् । तस्यार्थज्ञानविदूषकदुर्जनपरत्वेन भाविकोपास-
नेच्छुसज्जनपरत्वाभावात् । तथासत्यदृष्टार्थतापत्तेरित्यन्यदेतत् । उपासकानां तु नामपाठ-
शक्तानां पुस्तकार्चनमात्रं नावश्यकमिति तु निराबाधमेव । अयं च न्याय एतदर्थज्ञानो-

सौभाग्यभास्करव्याख्या । २१९
एभिर्नामसहस्रैस्तु श्रीचक्रं योऽर्चयेत्सकृत् ।
पद्मैर्वा तुलसीपुष्पैः कह्लारैर्वा कदम्बकैः ॥ २८५ ॥
चम्पकैर्जातिकुसुमैर्मल्लिकाकरवीरकैः ।
उत्पलैर्बिल्वपत्रैर्वा कुन्दकेसरपाटलैः ॥ २८६ ॥
अन्यैः सुगन्धिकुसुमैः केतकीमाधवीमुखैः ।
तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ॥ २८७ ॥
पायभूतभाष्याध्ययनेऽपि तुल्य इत्याशयेन ग्रन्थान्तेऽस्माभिर्वक्ष्यते । 'अम्ब त्वत्पदयोः
समर्पितमिदं भाष्यं त्वया कारितं लन्नामार्थविकासकं तव मुदे भूयादथ त्वां भजन् । यो
नैनत्परिशीलयेन्न च पठेद्यः पुस्तकस्यापि वा संग्रहं न करोति तस्य ललितोपास्तिर्वृथा
जायता'मिति । एवमनुपासकानामपि रक्षकम्, उपासकान्त्रक्षेद्दिति किमु वक्तव्यमित्याशयेन
मध्य एव निगमयति सार्धेन ॥ २८३ ॥ २८४ ॥ अथात्युत्कृष्टधर्मप्रदं पूर्वोक्तराशिश्र-
द्धादिक्रमेण बुद्ध्याप्यपरिच्छेद्यफलं योगमाह चतुर्भिः—एभिरिति । नामसाहस्रैरिति
बहुवचनं नाम्नां प्रत्येकं करणत्वद्योतनाय । लक्षपूजादौ पुनःपुनरावृत्तिद्योतनार्थं च ।
नामानि प्रातिपदिकानि सहस्रं येषु श्रीमात्रेनम इत्यादिललिताम्बिकायैनम इत्यन्तेषु
चतुर्थीनमोन्तमन्त्रेषु तैर्नामसाहस्रैरिति वा । संप्रदायाच्च पुष्पप्रक्षेपावृत्तिः । तेन 'चतुरु-
ल्ख्यणुभिर्वक्रं' 'चतुर्भिरभ्रिमादत्त' इत्यादाविव समुच्चयो माभूत् । अत्र पद्मकह्लारोत्प-
लानां परस्परवैलक्षण्यमवान्तरजातिभेदेनोह्यम् । तुलस्याः पुष्पैः फुल्लमञ्जरीभिः नतु
तत्पत्रैः । सुन्दरीविषये तुलसीनिषेधस्यैतद्दलादेव पत्रपरत्वौचित्यात् । अतएव स्पष्टमुक्तं
नीलातन्त्रे 'नानोपहारबलिभिर्नानापुष्पैर्मनोरमैः । अपामार्गदलैर्भृङ्गैरतुलसीदलवर्जितैः ।
पूजनीया सदा भक्त्या नृणां शीघ्रफलाप्तय'इति । यत्तु तत्रैव 'देवीपूजा सदा शस्ता
जलजैः स्थलजैरपि । विहितैश्च निषिद्धैर्वा भक्तियुक्तेन चेतसे'ति । तत्र निषिद्धस्वीकारो
भक्त्यावश्यकत्वद्योतनाय । 'पुष्पाणामप्यलाभे तु तत्पत्रैरर्चयेच्छिवा'मिति कालीपुराण-
वचनं नित्यकर्मपरम् । काम्ये कर्मणि प्रतिनिध्यभावस्य षष्ठाधिकरणसिद्धत्वात् ।
सुन्दरीविषये तुलसीनिषेधस्यैतद्दलादेव पत्रपरत्वौचित्यात्पत्रान्तरपरं च । पद्मादिषु तु
सुसदृशत्वात् पूरणायकह्लारादीनां ग्रहणं युज्यते । विष्णुना नेत्रकमलस्य तत्पूरणार्थमु-
पादानस्य लिङ्गपुराणे कथनाल्लिङ्गात् । कदम्बकैः अविशेषाद्विविधैरपि ॥ २८५ ॥ जाति-
कुसुमैरित्यत्र 'ङ्यापोः संज्ञाछन्दसोर्बहुलं'मिति ह्रस्वः । जाती मालती । मल्लिका विच-
किलं । करवीरं हयमारः । कुन्दं माघ्यं । केसरं काश्मीरं । पाटलं श्वेतरक्तं तिलपुष्पस-
दृशम् ॥ २८६ ॥ सुगन्धिपदमहिफेनाहिदुर्गन्धुकुसुमानामेव निरासाय । निर्गन्धानांमपि
जपादीनां रक्तानां देवीप्रियत्वात् । 'गन्धस्येदुत्पूतिसुसुरभिभ्य'इति समासान्तम् ।
माधवी वासन्ती । मुखपदेन पुंनागबकुलादीनां ग्रहणम् । एतेषामप्यवान्तरतारतम्यमा-
दित्यपुराणकालिकापुराणयोर्द्रष्टव्यम् । फेत्कारिणीतन्त्रे तु विशेषः 'पुष्पं वा यदि वा पत्रं

२२० ललितासहस्रनाम ।
सा वेत्ति ललितादेवी स्वचक्रार्चनजं फलम् ।
अन्ये कथं विजानीयुर्ब्रह्माद्याः खल्पमेधसः ॥ २८८ ॥
प्रतिमासं पौर्णमास्यामेभिर्नामसहस्रकैः ।
रात्रौ यश्चक्रराजस्थामर्चयेत्परदेवताम् ॥ २८९ ॥
स एव ललितारूपस्तद्रूपा ललिता स्वयम् ।
फलं नेष्टमधोमुखम् । दुःखदं तत्समाख्यातं यथोत्पन्नं तथार्पयेत् । अधोमुखार्पणं नेष्टं
पुष्पाञ्जलिविधिं विना । लक्षपूजादिषु पुनः पुष्पमेकैकमर्पयेत् । समुदायेन चेत्पूजा
लक्षपुष्पार्पणं न तदि'ति । अत्र हिः द्वन्द्ववत्तदपवादकैकशेषोपि साहित्यार्थकः । 'एकाद-
शप्रयाजान्यजती'त्यत्र संहितेष्वेवैकादशत्वस्य निवेशो न प्रातिस्विकमिति सिद्धान्तात् ।
ततश्च सुगन्धिकुसुमैरित्येकशेषवशान्मल्लिकाकरवीरयोः केतकीमाध्व्यादीनां च द्वन्द्ववशाच्च
समुच्चयेन करणत्वं मा प्रसाङ्क्षीदिति तदपवादाय पूर्वश्लोकयोर्वाकारः । सोऽपि च प्रतिपु-
ष्पमन्वयितव्य इति ध्वनयितुं द्विर्द्विः प्रयुक्तः । तथाच निरपेक्षकरणताबोधकतृतीया-
विभक्तयोऽपि व्रीहियवन्यायेनानुगृहीता भवन्ति । महेश्वरः पञ्चप्रेतेषु चतुर्थः तस्याप्य-
सर्वज्ञत्वादुक्तमसमर्थ्यं पूर्वोक्तराशिशङ्खादिगुणनोपायेन मनुष्याणां ज्ञातुं वक्तुं च साम-
र्ध्याभावः कैमुतिकन्यायेन सिद्ध इति फलस्यानवधिकत्वध्वनिः ॥ २८७ ॥ अतएव
सर्वज्ञैकपरिच्छेद्यमित्याह—सेति । ब्रह्मादीनामज्ञातृत्वे परिकरालंकारेण हेतुगर्भं
विशेषणम् । खल्पमेधस इति खल्पा मेधा धारणात्मिका बुद्धिर्येषां ते । 'नित्यमसिच्
प्रजामेधयो'रिति समासान्तः । ननु राशिशङ्खवेद्यफलं कठिनतरं प्रयोगमपेक्ष्यास्य
पुष्पार्पणप्रयोगस्य सुलभत्वेन ततोऽप्यनवधिकफलकत्वे कठिनतरप्रयोगे कस्यापि प्रवृत्त्ययो-
गादनुष्ठानलक्षणमप्रामाण्यं प्रसज्येतेति चेत् भ्रान्तोऽसि । कठिनतरप्रयोगस्यानिशानित्या-
दिपदघटितविधिबोध्यत्वेनाकरणे प्रत्यवायबोधनेन नित्यत्वात् । नित्याकरणे आयुष्यकरा-
दिपुष्पार्पणादिकाम्यप्रयोगेष्वधिकाराभावस्योक्तत्वात् । नित्यस्यापि वचनबलात्काम्यत्वं
त्वग्निहोत्रादिन्यायेन न विरुद्धमिति न प्रवृत्तिपराहतता । अथ प्रयोगविधौ विशेषः ।
चक्रार्चनारम्भ एवापरिमितपुण्यप्राप्त्यर्थममुककुसुमैर्देवीं पूजयिष्यामीति संकल्प्य प्रसन्न-
पूजोत्तरं पूर्वभागं पठित्वा न्यासत्रयं कृत्वा प्रणवमुच्चार्य द्विताराद्यैर्नमोन्तैश्चतुर्थ्यन्तना-
ममन्त्रैः 'ह्रीं श्रीं श्रीमात्रे नमः' इत्यादिरूपैरेकैकं पुष्पमेकैक मन्त्रान्ते यथोत्पन्नं तथा बिन्दौ
विनिक्षिप्य विजातीयपुष्पामिश्रणेन सजातीयैरेव संख्यां पूरयित्वा तदन्ते प्रणवमुच्चार्य
न्यासत्रयं कृत्वा फलश्रुतिं पठित्वा पूजाशेषं समापयेदिति ॥ २८८ ॥ इत्थमियता
प्रबन्धेन त्रिवर्गप्रदत्वमुक्त्वा क्रमप्राप्तं चतुर्थपुरुषार्थप्रदायकत्वमनेकधा दिदर्शयिषुः
प्रथमं कैवल्याख्यपञ्चममुक्तिप्रदं प्रयोगमाह द्वाभ्याम्—प्रतीति । प्रतिपौर्णमासीति
विहाय प्रतिमासमित्युक्त्या यावज्जीवमित्यर्थबोधाय । तस्यापि प्रयोजनमुत्तरत्र यावज्जीवा-
र्थकप्रतिमासपदानुवृत्तिः । एभिः पूर्वोक्तान्यतमैः कुसुमैः ॥ २८९ ॥ सकृदर्चनस्य

सौभाग्यभास्करव्याख्या । २२१
न तयोर्विद्यते भेदो भेदकृत्पापकृद्भवेत् ॥ २९० ॥
महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ।
ललितैकवेद्यफलकत्वे पुनःपुनरावृत्तार्चनस्य ललितैकरूपत्वं फलं न्यायलब्धमेवाह—
स एवेति । परस्परप्रतियोगिकतादात्म्यबोधनायोद्देश्यविधेयभाववैपरीत्येनाप्याह—
तद्रूपेति । वास्तविकभेदे सत्यप्युपमेयोपमालंकारेणाप्येषोक्तिः सुसमर्थेति भ्रमं
निरस्यति—न तयोरिति । देवीभक्तयोरित्यर्थः । भेदः वास्तविक इति शेषः । नात्र
तृतीयसदृशव्यवच्छेदोऽपि तु तादात्म्यमेवेति भावः । वास्तव एव भेदोऽस्त्वित्याग्रहणं
दण्डयति—भेदकृदिति । देवीभक्तौ परस्परप्रतियोगिकसत्यभेदवन्तौ । मर्त्यामर्त्यत्व-
पूज्यपूजकभावादिरूपविरुद्धधर्माधिकरणत्वादित्यादिभेदसाधकानुमानप्रयोक्तेत्यर्थः । अद्वै-
तप्रतिपादकशास्त्रविरोधेन प्राण्यङ्गत्वहेतुकाशुचित्वानुमानप्रयोक्तृवदुपहसनीयतामाह—
पापकृदिति । हेत्वाभासप्रयोगकृतत्वाच्छास्त्रविरुद्धत्वाच्च पापिष्ठ इत्यर्थः । मरणभ्रमो-
ऽपि 'न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्त'इति श्रुत्यैव निरस्त इति भावः
॥ २९० ॥ अथेतोऽपि सुलभं चतुर्विधमुक्तिफलं प्रयोगमाह—महानवम्यामिति ।
यावज्जीवार्थकं प्रतिमासपदं रात्रिपदं चानुवर्तनीयम् । नवरात्रस्य चरमदिवसद्वयं महा-
नवमीत्युच्यते। तच्च शिवशक्तिसामरस्यरूपम् । तत्र सर्वजातीयानां देवीपूजनेऽधिकारः ।
तथाहि—नवरात्रं द्विविधं शारदं वासन्तं चेति । 'शरत्काले महापूजा क्रियते या च
वार्षिकी' इति मार्कण्डेयपुराणस्थवचने वार्षिकीति पदस्य वर्षस्य वत्सरस्यादौ भवेति
सांप्रदायिकैर्व्याख्यानात् , चकारादुभयोः समुच्चयस्य स्वरसतोऽवगमात् , चातुर्मास्याख्य-
वर्षर्तौ भवेति व्याख्यायाः शरदश्च वर्षर्तुत्वापादिकायाः क्लिष्टत्वात् , प्रतिवर्षं क्रियमाणेति
व्याख्यायामपि विशेषणवैयर्थ्यात् , 'वासन्ते नवरात्रेऽपि पूजयेद्रक्तदन्तिका'मिति
रुद्रयामले स्पष्टं नवरात्रद्वैविध्यकथनाच्च । देवीभागवते तृतीयस्कन्धे कामबीजोपासकं
सुदर्शनं प्रति देवीवाक्यम् 'शरत्काले महापूजा कर्तव्या मम सर्वदा । नवरात्रोत्सवं
राजन्विधिवत्परिकल्पय । चैत्रे चाश्वयुजे मासि त्वया कार्यो महोत्सवः । नवरात्रे
महाराज मम प्रीतिविधायक' इत्यादि । सौभाग्यरत्नाकरे त्वाषाढपौषयोरपि नवरात्र-
मुक्तम् । तत्र शारदनवरात्रस्याष्टमीनवम्यौ महापूर्वे । तदुक्तं कालिकापुराणे 'आश्वि-
नस्य तु शुक्लस्य या भवेदष्टमी तिथिः । महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरी परा ।
ततोऽनु नवमी या स्यात्सा महानवमी स्मृता । सा तिथिः सर्वलोकानां पूजनीया शिव-
प्रिये'ति । धौम्योऽपि 'आश्विने मासि शुक्ले तु या स्यान्मूलेन चाष्टमी । सा महत्यष्टमी
ज्ञेया तत्र देवी कृतालया' । ब्रह्माण्डपुराणेऽपि 'कन्यासमाश्रिते भानौ या स्यान्मूलेन
चाष्टमी । सा महत्यष्टमी ज्ञेया न मुग्धानवमीयुता' । मूलयोगोक्तिस्तु संभवाभिप्राया । तेन
पूर्वाषाढायुतापि महाष्टम्येव 'मूलऋक्षसमायुक्ता पूजनीया प्रयत्नतः। मूलाभावेऽपि कर्तव्या
यदि स्यात्तोयसंयुते'ति वचनात् । तोयं पूर्वाषाढा । अस्या एव नक्षत्रद्वयान्यतरयोगे

२२२ ललितासहस्रनाम ।

अर्चयेन्नामसाहस्रैस्तस्य मुक्तिः करे स्थिता ॥ २९१ ॥

महानवमीत्यपि संज्ञान्तरम् । तदुक्तं नृसिंहप्रासादे 'आश्वयुक्शुक्लपक्षे तु याष्टमी मूलसं-
युता । पूर्वयाषाढया सार्धमृक्षद्वययुतापि वा । सा महानवमी नाम त्रैलोक्येऽपि सुदुर्ल-
भे'ति । भविष्योत्तरेपि 'कन्यागते सवितरि शुक्लपक्षेऽष्टमीयुता । मूलनक्षत्रसंयुक्ता सा
महानवमी स्मृते'ति । विश्वरूपाचार्यैरपि 'आश्वयुक्शुक्लपक्षे तु याष्टमी मूलसंयुता ।
यदि स्याद्रविविद्धापि सा महानवमी स्मृते'ति । अत्राष्टमीमूलाभ्यां संयुता या तिथिः
सा महानवमीति व्याख्या नवम्येव महानवमीत्यर्थ इति केचित् । तदुक्तं भविष्योत्त-
रादिवचनविरोधादनादेयम् । सप्तमीवेधबोधकरविविद्धापदस्य रविवासरयुक्तेत्यर्थवर्णना-
पत्तेश्च । अनयोश्च परस्परविद्धत्वमपि प्रशस्तम् । तदुक्तं विष्णुधर्मोत्तरे 'अष्टम्या नव

सौभाग्यभास्करव्याख्या । २२३
यस्तु नामसहस्रेण शुक्रवारे समर्पयेत् ।
चक्रराजे महादेवीं तस्य पुण्यफलं शृणु ॥ २९२ ॥
पूजयित्वाश्विने मासि विशोको जायते नर'इति भविष्योत्तरवचनेनैकप्रयोगतासूचनात् ।
'अष्टमी नवमीयुग्मे'इति पूर्वोक्तवचनाच्च । अतएव नवरात्रात्कर्मान्तरमिदमिति सि-
द्धान्तः । अस्यां च पूजायां सर्वजातीयानामधिकारः । तदुक्तमेतत्कर्मोपक्रम एव भवि-
ष्योत्तरे 'पूजनीया जनैर्देवी स्थानेस्थाने पुरेपुरे । गृहेगृहे शक्तिपरैर्ग्रामेग्रामे वनेवने ।
स्नातैः प्रमुदितैर्हृष्टैर्ब्राह्मणैः क्षत्रियैर्विशैः । शूद्रैर्भक्तियुतैर्म्लेंच्छैरन्यैश्च भुवि मानवैः ।
स्त्रीभिश्च कुरुशार्दूल तद्विधानमिदं शृण्वि' त्यादि । शक्तिपरैश्चण्डीपरायणैः । म्लेंच्छैः
शवरकिरातपुलिन्दादिभिः । अन्यैरनुलोमप्रतिलोमजैः । परंतु स्वकुलाचारमनुरुध्यैव
पूजयेत् । तदुक्तं व्रतखण्डे 'यस्य यस्य हि या देवी कुलमार्गेण संस्थिता । तेन तेन च
सा पूज्या बलिगन्धानुलेपनैः । नैवेद्यैर्विविधैश्चैव पूजयेत्कुलमातर'मिति । नन्वेवं निर्णी-
तायामपि महानवम्यां तस्य शब्दस्य कालपरत्वेन प्रकृतविधौ कस्य कालस्य महानवमी-
पदेनोपादानम् । उक्तरीत्याष्टमी नवम्योर्महानवमीत्वात् । यदापि दर्शपूर्णमासनवरात्रा-
दिपदवत्कर्मपरोऽयं महानवमीशब्दस्तदाष्टमी नवमीपूजाद्वयस्यैककर्मत्वेऽपि तस्य
वासन्तशारदभेदेन द्वैविध्यात्प्रकृते कस्य कर्मण उपादानम् । नचोभयोरप्युपादानम् ।
एकधाधिकरणे वैधपदस्यानियतानेकार्थपरताया निरस्तत्वादिति चेत् । अत्र ब्रूमः—
महानवमीशब्दस्य कर्मपरत्वे एकस्यैवाग्निहोत्रस्य सायंप्रातर्भेदेनावृत्तिवद्वसन्तशारदभेदेनावृ-
त्तिमात्राङ्गीकारेणानेकार्थत्वाभावात् । कालपरत्वे तु चत्वारोऽपि काला इह विधौ
गृह्यन्ते । एकधाधिकरणे ह्यनियतानेकार्थकस्यैव निरासो न पुनर्नियतानेकार्थकस्येत्यदो-
षात् कथमन्यथैकस्य मन्त्रस्यानेकार्थेषु विनियोगः । नच विधिगतस्यैव पदस्यानेकार्थता
न युक्तेति परिभाषास्ति । 'न कलञ्जं भक्षये'दिति विधिवाक्येऽपि कलञ्जपदस्य बहुधा
व्याख्यानदर्शनात् । आन्ध्रपरत्वेन भङ्गापरत्वेन कण्ठशोधकौषधपरत्वेन चेति ।
तस्माद्यावज्जीवमेतेषु चतुर्ष्वपि दिवसेषु चक्रमध्ये बिन्दुस्थानं गच्छतीति तादृशीं श्रीदेवीं
त्रिपुरसुन्दरीं यः कश्चन भक्तः स्वस्वकुलानुसारेणार्धरात्रे सहस्रनामभिः पूजयति तस्य
चतुर्विधापि मुक्तिः कर एव स्थिता । अतिसुलभेत्यर्थः । तत्रैकदिनेऽर्चकस्य सालोक्य-
मात्रं, दिनद्वये चेत्सारूप्यमपि, दिनत्रये चेत्सामीप्यमपि, चतुर्ष्वपि दिवसेषु चेत्सायुज्य-
मिति तारतम्यं तु न्यायत एव लभ्यत इति विविच्य नोक्तम् । अथवा अष्टमी नवमी-
तिथियुग्मे क्रियमाणकर्मण एकत्वेऽपि नवरात्रचातुर्विध्येन मुक्तिचातुर्विध्यं योज्यमिति
दिक् ॥ २९१ ॥ एवं पार्थक्येन भोगमात्रफलकान्मोक्षमात्रफलकांश्च प्रयोगानुक्त्वा
भोगकैवल्योभयफलं प्रयोगमाह—यस्तुनामेति त्रिभिः। नाम्नां सहस्रेणेत्येकं पदम्।
नामेति प्रसिद्ध्यर्थकमव्ययं वा । सहस्रपदमेव प्रकरणात्नामसहस्रपरमित्यपि सुवचम् ।
१ क्षत्रियैर्नृपैः । वैश्यैः शूद्रैर्भक्तियुतैर्म्लेंच्छैरन्यैश्च मानवैः इति पाठान्तरम् ।

बलमेव" (tad-balam eva)?
Wait! "जगद्व्यापारस्यैव रूढ्याभिधायकः । तद्बलमेव चेह विवक्षितम्" or "तत्तद्दलमेव"?
Look at the characters:
त-त्त-द्ब-ल-मे-व or त-त्त-द्द-ल-मे-व?
Wait, it is: त-त्त-द्ब-ल-मे-व -> wait, द्ब?
Wait, look at तत्तद्बलमेव: त, त्त, then द्ब? No, द् + द usually has a tail like द्द (e.g., तद्वेदेति in line 27 has द्दे).
In line 27: तद्वेदे'ति has द्वे.
In line 33, look at the letter after त्त: it is द्ब! A द with a ब attached below, or just ब?
Wait! Is it तत्तद्बलमेव?
Look at द्ब: द् on top, ब below.
Wait, or is it तद्बलमेव? No, there are three त sounds: त-त्त-द्-ब-ल-मे-व.
Wait, look at:

सौभाग्यभास्करव्याख्या । २२५
फलाधिक्यमपि । विद्याविदुषां ब्राह्मणानां सहस्रस्याशीराशेरीदृशमेव हि फलं योग्यं
भवति । नचैवं सत्यनेकैर्भकैर्यौगपद्येनेदृशप्रयोगानुष्ठाने सर्वेषामेकस्मिन्काल एव जगद्व्या-
पारे स्वातन्त्र्यस्यावश्यकतया परस्परवैमत्याज्जगद्विलोपापत्ति'रिति तदधिकरणोक्तो दोषः
प्रसज्यत इति भेतव्यम् । सृज्यमानप्राणिकर्मानुसारेणैव भगवतः प्रवृत्तिरिति तैरेवाङ्गी-
कारात् । अन्यथा वैषम्यनैर्घृण्यापत्तेरपरिहार्यत्वात् । तथाच ब्रह्मसूत्रम् 'वैषम्यनैर्घृण्ये न
सापेक्षत्वात्तथाहि दर्शयति'ति । ततश्च कर्मानुसारेण जायमाना प्रवृत्तिर्बहूनां समन-
स्कानामप्येकरूपैव संभवेदिति न वैमत्यम् । नच परस्परेच्छानुसारेण व्याप्रीयमाणानां
स्वातन्त्र्यभङ्गः । स्वेच्छानुसारी प्रवृत्तिमत्त्वरूपस्वातन्त्र्यस्य सर्वेष्वविघातात् । अतएव

२२६ ललितासहस्रनाम ।
न तस्य दुर्लभं वस्तु त्रिषु लोकेषु विद्यते ॥ २९६ ॥
अधिकारः सुखसाधनं न वा । अन्त्ये सर्वलोकानां स्वर्गाद्यधिकारसाधनीभूतेषु कर्मसु
प्रवृत्त्यनापत्तिः । आद्ये जगद्व्यापारस्याप्यधिकारत्वाविशेषेण सुखसाक्षात्काररूपभोगमा-
त्रसाम्यादेव लिङ्गानिर्वरणमहमेवैश्वर्यमुपासकस्य सिद्ध्यतीति कथं तेन हेतुना तदभावः
साध्यत इति विचारयतराम् । नचैकोऽधिकारः कथं युगपद्बहूनामुपकाराय स्यादिति
वाच्यम् । सत्रयागे एकस्यैव प्रक्षेपस्य बहुयजमानोपकारकत्वस्य एकस्यैव ब्रह्मलोकस्य
युगपदनेकोपासकोपकारतायाश्च दर्शनात् । नचेयं षष्ठीमुक्तिरापद्येतेति वाच्यम् ।
इष्टत्वात् । युक्तं चैतत् । सालोक्यादिसायुज्यान्तमुक्तिषूत्तरोत्तरोत्कर्षवत्तदुत्तरभूमिकारू-
पत्वेन कैवल्यानन्तरपूर्वत्वेन चास्या न्यायसिद्धत्वात् । ननु पञ्चविधा मुक्तिरिति तान्त्रि-
कव्यवहारस्य का गतिरिति चेत् । सूतसंहितादिषु 'मुक्तिश्चतुर्विधा ज्ञेये'त्यादिव्यवहाराणां
भवन्मते या गतिः सैव कैवल्यसायुज्ययोः । अवान्तरभेदाविवक्षयेति चेत् सावग्रहानिर-
वग्रहयोरपि तदविवक्षयेति तुल्यम् । तस्मात्सिद्धमुपासकानां सृष्टिस्थितिलयकर्तृत्वम् ।
अतएव शैवतन्त्रे 'चित्तस्थितिवच्छरीरकरणबाह्येष्वि'ति सूत्रे वार्तिककारैरुक्तम् । 'एवं
स्यानन्दरूपस्य शक्तिः स्वातन्त्र्यलक्षणा । यथेष्टं भावनिर्माणकारणीभवति स्फुट'मिति ।
'स्थितिलयौ'इति सूत्रेऽप्येवम् । 'स्वशक्तिप्रचयो विश्व'मिति सूत्रेऽपि 'शक्तयोऽस्य
जगत्सर्वं शक्तिमांस्तु महेश्वरः । इत्यागमदिशा विश्वं स्वशक्तिप्रचयो यथा । शिवस्य
तत्समस्यापि तथास्य परयोगिन'इति । तत्सर्वमभिप्रेत्याह—न तस्येति । उपनिषदु-
क्तसर्वोत्तमोपासनाशीलस्यापि 'संकल्पादेवास्स पितरः समुत्तिष्ठन्ती' त्याद्युच्चावचफलभो-
गिनोऽप्येकं दुर्लभं वस्तु जगत्साम्राज्यं वेदान्तिनामाशास्यमवशिष्यत एव अस्य तु तदपि
सुलभमेवेत्यर्थः । अतएवातिरहस्यत्वादेतदितिकर्तव्यता नैतत्प्रकरणे निर्दिष्टा अपितु
त्रिशतभोजनप्रकरण एव धर्मान्कथयित्वा तेषामिह वाचनिकोऽतिदेशः कृतः । तदुक्तं
तत्प्रकरण एव ब्रह्माण्डपुराणे 'रहस्यनामसाहस्रभोजनेऽप्येवमेव हि । आदौ नित्याबलिं
कुर्यात्पश्चाद्ब्राह्मणभोजन'मिति । अस्यार्थः—पूर्वं नित्याबलित्रिशतभोजनाख्यकर्मणोर्यथा
पौर्वापर्यमुक्तं एवमेव नित्याबलिसहस्रभोजनयोरपीति । अत्रेदं विचार्यते—एवं हि
ब्रह्माण्डपुराणे स्मर्यते 'महाषोडशिकारूपान्विप्रानादौ तु भोजये'दिति षोडशब्राह्मण-
भोजनात्मकं कर्म विधाय 'अभ्यक्तान्मान्द्यतैलेन स्नातानुष्णेन वारिणे'त्यादिना च
तदितिकर्तव्यतां प्रतिपाद्य 'एवं नित्याबलिं कुर्यादादौ ब्राह्मणभोजन'मिति वचनेनास्य
कर्मणो नित्याबलिरिति संज्ञां प्रदर्श्य 'त्रिशतैर्नामभिः पश्चाद्ब्राह्मणान्क्रमशोऽर्चये'दिति
त्रिशतभोजनाख्यं कर्मान्तरं विधाय तत्पश्चात् 'तैलाभ्यङ्गादिकं दद्याद्विभवे सति भक्तितः'
इत्यादिना चोच्चावचान्यङ्गानि विधाय 'एवं यः कुरुते भक्त्या जन्ममध्ये सकृन्नरः ।
तस्यैव जन्म सफलं मुक्तिस्तस्य करे स्थिते'ति फलविधिपूर्वकमुपसंहृतम् । तत्र संशयः
किं नित्याबलित्रिशतभोजने समप्रधाने उत्तरत्रिशतभोजनस्य नित्याबलिरङ्गमिति । यदि

समप्राधान्यं तदा प्रकृतौ कालार्थसंयोगमात्रार्थकादादिपदादनङ्गस्य त्रिशतभोजनविकारे
सहस्रभोजने नित्याबलेरग्नीषोमीयविकारेष्वाग्नेययागस्येव नातिदेशः । अङ्गाङ्गिभावे तु
भवत्यतिदेश इति । तत्र पूर्वपक्षः-श्रुतिलिङ्गादेरङ्गताबोधकस्यादर्शनात्समप्राधान्यमेव
द्वयोर्वक्तव्यम् । नच 'एवं नित्याबलिं कुर्यादादौ ब्राह्मणभोजनम् । त्रिशतैर्नामभिः
पश्चा'दिति पौर्वापर्यविधानात्'वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेते'त्यत्रेवाङ्गाङ्गिभावसिद्धि-
रिति वाच्यम् । वाजपेयस्य फलवत्त्वेन प्राधान्यात्तत्प्रकरणे पठितस्य बृहस्पतिसवस्य
तदङ्गत्वसंभवेऽपि प्रकृते द्वयोरपि फलसंयोगाभावेन प्रकरणिनो निश्चयाभावेनाङ्गाङ्गिभावे
विनिगमनाविरहात् विश्वजिन्न्यायेन फलकल्पनस्योभयोरप्याकाङ्क्षाविशेषेण तुल्यतया
'दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेते'तिवत्कालार्थस्यैव संयोगस्य सिद्धेः । नच'एवं
यः कुरुते भक्त्ये'ति वाक्येन त्रिशतभोजनेन विधेरानन्तर्यात्फलवत्त्वे बोधिते नित्याबलेः
फलपदफलन्यायेन नामनहोमानामिवाङ्गसिद्धिरिति वाच्यम् । तत्र हि 'वैश्वदेवीं
सांग्रहिणीं निर्वपेद्रामकाम' इत्युत्पत्तिविधावेव फलश्रवणेन सांग्रहण्या आमनहोमाङ्गि-
त्वसिद्धावपि प्रकृते भिन्नवाक्योपात्तस्य फलस्याकाङ्क्षावशाद्वाक्यैकवाक्यतयान्वयस्य
वक्तव्यतयोभयोरप्याकाङ्क्षावशात्फलसंबन्धसिद्धेः । 'एवं यः कुरुत'इत्यत्रैवंपदेनोभयोरनु-
वादसंभवात् आनन्तर्यस्योभयाकाङ्क्षातो दुर्बलत्वात् वाचःक्रमवर्तित्वेनावर्जनीयत्वाच्च ।
अतएवोक्तं 'आनन्तर्यमचोदने'ति । किंच नित्याबलिप्रकरणे विहितानां गन्धतैलाभ्यङ्गा-
दिपायसफलादिनिवेदनान्तानामङ्गानामनुवादेन विभवपरत्वेन व्यवस्थाविधिस्त्रिशतभोज-
नप्रकरणे श्रूयमाणः परो वादसापेक्ष इति तन्निर्वाहायानयोः प्रकृतिविकृतिभावकल्पनया
नित्याबलिधर्माणां त्रिशतभोजनेऽतिदेशो वक्तव्यः । तेन प्राकृतानां कामेश्वर्यादिनाम्नां
वैकृतैः ककाररूपादिनामभिः शरन्यायेन बाधोऽपि संगच्छते । अङ्गस्य हि प्रधानं प्रति
प्रकृतित्वमसंभवि भावनायां हि भाव्यान्वयोत्तरं करणान्वयस्ततः कथंभावाकाङ्क्षायां
धर्मानामन्वय इति भाव्यान्वयात्पाश्चात्त्योऽङ्गत्वनिर्णयस्ततोपि पश्चादतिदेशः 'अङ्गं सदति-
दिश्यत'इति न्यायादिति स्थितिः । ततश्च त्रिशतभोजनकरणकभावनायां भाव्यकरणयो-
रन्वयोत्तरं तृतीयक्षणे कथंभावाकाङ्क्षाकाल एव नित्याबलेरङ्गत्वं वदता भाव्याकाङ्क्षा
वक्तव्या । तदुत्तरक्षणे परस्पराकाङ्क्षालक्षणेन प्रकरणेनोभयोरङ्गाङ्गिभावे सिद्धे त्रिशतभो-
जनभावनाया निराकाङ्क्षत्वात्ततोऽपि पश्चात्तनानां नित्याबल्यङ्गानां कथं प्रधानेऽतिदेश-
सिद्धिः । नहि प्रत्येकं स्वस्ववाक्येऽङ्गत्रयपरिपूर्णयोः पौर्णमासीवैमृधयोरिव वाक्यान्त-
रेणाङ्गाङ्गिभावबोधस्तादृशवाक्यादर्शनात् । प्रकरणादङ्गाङ्गिभावस्य तूक्तरीत्या संभवात् ।
नच त्रिशतभोजनविकृतौ सहस्रभोजनेऽतिदेशालिङ्गादेवाङ्गत्वसिद्धिरिति वाच्यम् ।
लिङ्गदर्शनमात्रनिर्णयस्यानिर्णायकत्वात् । सहस्रभोजन इतिसंख्या 'तत्रजयान्जुहुया'दिति-
वदङ्गत्वबोधकतयान्यत्र प्रधानस्यापि नित्याबलेस्तावन्मात्रं प्रत्येवाङ्गत्वमिति बोधनेनाप्य-
तिदेशवाक्योपपत्तेश्च । बृहस्पतिसवे तथा दर्शनात् । इयांस्तु विशेषः-तत्र प्रकरणान्त-
राद्भेदः । अत्रतु त्रिशतीप्रकरण एव दूरस्थानुवादेन द्वादशोपसत्त्ववन्नित्याबलेरङ्गत्ववि-

धानात् 'संनिधौ त्वविभागा'दिति न्यायेन न भेद इति । तस्मान्नित्याबलित्रिशतभोजनयोः
समप्राधान्यमेवेति । सिद्धान्तस्तु—फलविधिवाक्यस्य नित्याबलिवाक्येन सहान्वयस्तू-
भयाकाङ्क्षामात्राद्वक्तव्यः । त्रिशतभोजनवाक्येन तु सहानन्तर्येणोभयाकाङ्क्षया चेति
झडिति तेनैव सहान्वये नित्याबलेः फलवदफलन्यायेन प्रधानोपकारकत्वेनैव भाव्याका-
ङ्क्षानिवृत्तौ न फलवाक्येनान्वय इति प्रकरणिनिश्चयो निराबाधः । एवं च नामत्रिशती-
प्रकरणे कामेश्वर्यादिनामान्तराणां प्रयोगकथनस्यासमञ्जसतापि निरस्ता भवति । न च
नित्याबलेस्त्रिशतभोजनंप्रति प्रकृतित्वमप्यावश्यकम् । 'तैलाभ्यङ्गादिकं दद्याद्विभवे सति
भक्तिन्न' इति वाक्ये तैलाभ्यङ्गादेरेव त्रिशतभोजनाङ्गत्वेन विधेयत्वात् । 'अभ्यक्तान्ग-
न्धतैलेने'त्यादिवाक्यानां त्ववान्तरप्रकरणान्नित्याबल्याङ्गत्वेनैव विधायकतया तदनुवादेन
विभवपरत्वेन व्यवस्थामात्रविधायकत्वाङ्गीकारे त्रिशतब्राह्मणानां तैलाभ्यङ्गादेरनापत्तेः
प्रापकाभावात् व्यवस्थायाः पुरोवादानुसारेण नित्याबलावेव सिद्धेः । न च चोदकतः
प्राप्तिः प्रकृतिविकृतिभावस्याधुनाप्यसिद्धेः । एतद्वलादेव साधने त्वन्योन्याश्रयः । न चैवं
विभववाक्येऽभ्यङ्गविधिरस्तदनुवादेन व्यवस्थाविधिश्चेति वाक्यभेदः । 'आख्यातानामर्थं
ब्रुवतां शक्तिः सहकारिणी'ति न्यायेन विभवे सत्येव तत्सामर्थ्यस्य न्यायलभ्यतया
तदंशेऽनुवादात् । काम्येऽपि यथाशक्त्युपबन्धस्य तान्त्रिकैः फलतारतम्यविधया
स्वीकारात् । प्रकृतिविकृतिभावस्वीकारेऽपि वा न प्राकरणिकमङ्गत्वं ब्रूमः । येनोक्त-
रीत्या विरोध आपद्येत । अपि त्वादिपश्चाद्वाक्येनैवाङ्गत्वं वैमृधपूर्णमासयोरिव विधीयते
इत्यदोषः । तस्मान्नित्याबलित्रिशतभोजनं प्रत्यङ्गमेवेति । नचैवमतिदेशवाक्य एवमेवे-
त्यनेनैव सर्वाङ्गातिदेशे सिद्धे पुनः 'आदौ नित्याबलिं कुर्या'दिति वाक्यवैयर्थ्यम् ।
एवं पदस्य संनिहिततैलाभ्यङ्गादिसंनिपत्योपकारकाङ्क्षामात्रपरत्वश्रमनिरासाय तद्विवरणा-
र्थत्वादिति दिक् ॥ अत्रायं प्रयोगविधिः । प्राणानायम्य देशकालौ संकीर्त्य श्रीमहा-
त्रिपुरसुन्दरीप्रीत्यर्थममुकसंख्याकैर्दिवसै रहस्यसहस्रनामभिः सहस्रब्राह्मणान्पूजयन्भो-
जयिष्ये तत्पूर्वाङ्गत्वेन नित्याबलिं च करिष्य इति संकल्प्य पुण्याहं वाचयित्वा
षोडशब्राह्मणान्निमन्त्रयेत् । तेष्वागतेषु पादान्प्रक्षाल्य गन्धतैलेनाभ्यज्योष्णोदकैः
स्नापयित्वासनेषूपवेश्य तिलकेषु धृतेषु १द्विताराभिर्नमोन्तैः कामेश्वर्यन्तैः कामेश्वर्यादित्री-
पुरसुन्दर्यन्तैश्चतुर्थ्यन्तैर्नामभिर्जातेषु षोडशमन्त्रेष्वेकैकेन मन्त्रेणैकैकस्मिन्ब्राह्मणे एकैकां
तिथिनित्यामावाह्य षोडशोपचारैः पदार्थानुसमयरीत्या पूजयेत् । यथा प्रथमब्राह्मणे
ह्रीं श्रीं कामेश्वर्यै नमः कामेश्वरीं प्रतिपत्तिथिनित्यामावाहयामि स्थापयामि पूजयामि
तर्पयामि नम इत्यक्षतान् शिरसि निक्षिप्य द्वितीयब्राह्मणे ह्रीं श्रीं भगमालिन्यै नमः
भगमालिनीं द्वितीयातिथिनित्यामावाहयामि स्थापयामि पूजयामि तर्पयामिनम इत्यक्षता-
न्निक्षिप्य तृतीयादिषोडशान्तेष्वेवमेव नित्यक्लिन्नां भेरुण्डां वह्निवासिनीं वज्रेश्वरीं शिवदूतीं
त्वरितां कुलसुन्दरीं नित्यां नीलपताकां विजयां सर्वमङ्गलां ज्वालामालिनीं चित्रां
१ द्वितीयादिभिः इति पाठः.

सौभाग्यभास्करव्याख्या । २२९
त्रिपुरासुन्दरीं च प्राक्संस्थमुदक्संस्थं वावाह्य पुनरनेनैव प्रवृत्तिक्रमेणासनपाद्यार्घ्याचम-
नस्नानानि कल्पयित्वा वसनाभरणे प्रत्यक्षे दत्त्वा संस्कृतैः सहेतुकैः संतर्प्य गन्धपुष्पधूप-
दीपान्दत्त्वा सूपापूपशर्कराज्यपायसफलादिभिर्विशेषान्नैर्र्भोजयित्वा ताम्बूलदक्षिणानम-
स्कारप्रार्थनाविसर्जनानि कुर्यात् । आसनादिसर्वोपचारेष्वप्यादौ द्वितारं तत्तत्तन्मन्त्रा-
स्तदन्ते तत्तन्नामानि चतुर्थ्यन्तोन्तानि तत आसनं समर्पयामि नम इत्याकारकाः
करणमन्त्रा ऊहनीयाः । अत्र तैलाभ्यङ्गादिकमावश्यकम् ॥ इति नित्याबलिः ॥
अथ द्वितीये तृतीयादौ वा दिवसेऽप्येवमेव सहस्रं ब्राह्मणान्भोजयेत् ॥ ह्रीं श्रीं श्री-
मात्रेनमः । ह्रीं श्रीं श्रीमहाराज्ञैनमः । इत्यादयो मन्त्राः । श्रीमातरमावाहयामी-
त्यादिरावाहने मन्त्रशेषः । आसनं समर्पयामिनम इत्यादय आसनादिषु यथालिङ्गं मन्त्र-
शेषाः । तैलाभ्यङ्गादिकं विभवशालिनामावश्यकं अन्येषां तु यथाशक्तीति विशेषः ।
पूजारम्भे पूर्वभागस्य समाप्तावुत्तरभागस्य च पाठादिकं पूर्ववदेव, परंतु पदार्थांनुसम-
योऽपि प्रतिशतं प्रतिपञ्चाशद्वा प्रकारान्तरेण वा । सौकर्याय तर्पणान्तान्पुष्पान्ता-
न्वोपचारान्प्रवृत्तिक्रमेण दत्त्वा धूपदीपान्महस्रेभ्यो दद्यादित्यपि युज्यते । अश्वप्रति-
ग्रहनिमित्तकवारुणचतुःकपालपुरोडाशबाहुल्ये तथा दर्शनात् । सहस्रसंख्याकानां ब्राह्म-
णानां युगपदलाभे तु लब्धमात्रानेव तान्वहुभिर्दिनैर्भोजयन्सङ्ख्यां पूरयेत् । संख्यायाः
पृथक्त्वनिवेशिलाविरोधस्य सहस्रभोजनखण्डव्याख्यानेऽस्माभिः समर्थितत्वात् तत्त-
माप्तिपर्यन्तं स्वयं नियमवान्भवेत् । यत्तु प्रकृतौ स्मर्यते 'शुक्लप्रतिपदारभ्य पौर्णमा-
स्यवधि क्रमात् । दिवसे दिवसे विप्रा भोज्या विंशतिसंख्यया । दशभिः पञ्चभिर्वापिं
त्रिभिरेकेन वा दिनैः । त्रिंशत्षष्टिः शतं विप्राः संभोज्यास्त्रिशतं क्रमादि'ति । तन्न
ब्राह्मणानां त्रिशत्या युगपल्लाभेऽपि प्रत्यहं विंशतिसंख्यानामेव भोजनं मुख्यः कल्पः ।
पञ्चदश्यामैकैकाक्षरस्यैकैकतिथिनित्यास्वरूपत्वेनैकैकाक्षरघटितानां विंशतिविंशतिनाम्ना-
मपि तत्तद्देवताकत्वेन तत्तत्तिथावेव तत्तद्देवतापूजनस्य युक्तत्वात् । पञ्चदशदिनपर्यन्तं
स्वस्यावकाशाभावे सन्त्यन्येऽनुकल्पाः । एवं च सहस्रनामस्वक्षरक्रमाभावेन कतिपयेषां
तत्तत्तिथिनित्यादेवताकत्वे मानाभावेन प्राकृतमुख्यकल्पे प्रयोजकस्य तिथ्यक्षरदैवतैक्यस्य
विकृतावभावात्तत्प्रयुक्तस्य पञ्चदशभिरेव दिनैः कर्मसमाप्तिरूपस्य नियमस्यातिदेशो न
भवति । अतएव सौर्ये चरी कपालप्रयोजकपुरोडाशस्याभावान्न कपालानामतिदेशः ।
तस्मादिह सतिसंभवे प्रयोगविधेर्विलम्वासहिष्णुतयैकस्मिन्नेवाह्नि सहस्रभोजनं मुख्यः
कल्पः । अनुकल्पेषु प्रकृतौ दशभिः पञ्चभिरित्यनेनैव सिद्धे त्रिंशत्षष्टिरिति पुनर्वचनस्य
न्यूनाधिकसंख्यापरिसंख्यार्थकत्वात्प्रत्यहं समसंख्या एव ब्राह्मणा भोजयितव्या इत्यं-
शस्य विधित्सितत्वावगमैनार्थिकत्वाभावादतिदेशे सिद्धे त्रिदिनपक्षस्य साद्यस्कसारस्वत-
सत्रयोरिविचयनस्येवासंभवाद्वाधः । शतब्राह्मणानामप्यलाभे तु यथासंभवं विंशतिदिना-
दिपक्षाः प्रकृतावमुक्ता अपि न्यायत एवोक्तनियमाविरोधेन लभ्यन्त इति यथायथं
पूर्वोत्तरतन्त्रपारदृश्वभिरूहनीयम् । अत्र बौधायनसूत्रोक्तसहस्रभोजनेतिकर्तव्यता समु-
चीयत इति तु तद्व्याख्यायामेव निर्णीतमस्माभिः ॥ २९६ ॥ एवं पञ्चत्रिंशता श्लोकैः
२०

२३० .ललितासहस्रनाम ।
निष्कामः कीर्तयेद्यस्तु नामसाहस्रमुत्तमम् ।
ब्रह्मज्ञानमवाप्नोति येन मुच्येत बन्धनात् ॥ २९७ ॥
धनार्थी धनमाप्नोति यशोर्थी प्राप्नुयाद्यशः ।
विद्यार्थी चाप्नुयाद्विद्यां नामसाहस्रकीर्तनात् ॥ २९८ ॥
नानेन सदृशं स्तोत्रं भोगमोक्षप्रदं मुने ।
कीर्तनीयमिदं तस्माद्भोगमोक्षार्थिभिर्नरैः ॥ २९९ ॥
पुरुषार्थप्रदायकत्वदर्शनेन रहस्यतमत्वविवेचने समाप्ते क्रमप्राप्तं 'इदं विशेषाच्छ्रीदेव्याः
स्तोत्रं प्रीतिविधायक' मित्युक्तमर्थं विवेचयति—निष्काम इति । निष्कामः विषय-
कामनारहितः । ब्रह्मज्ञानं जीवब्रह्मणोरभेदमभ्रमनिवर्तकं महावाक्यजन्यमात्ममात्रवि-
षयकं निर्विकल्पाख्यं चरमवृत्तिरूपमनुभवात्मकं ज्ञानं, येन प्राप्तेन ज्ञानेन बन्धनादना-
[L12

सौभाग्यभास्करव्याख्या । २३१
चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ।
स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये ॥ ३०० ॥
कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ।
नामानुकीर्तनं मुक्त्वा नृणां नान्यत्परायणम् ॥ ३०१ ॥
तद्वतेहकः । तदात्मैक्येन कर्माणि कुर्वन्मुक्तिमवाप्स्यसि । एतद्रहस्यमाख्यातं सर्वेषां
हितकाम्यये'ति । अथवा पूर्वश्लोकस्य ब्रह्मज्ञानप्रदत्वव्याख्यापक्षे तत्साधनवैराग्यप्रदल-
मनेन श्लोकेनोच्यते । भोगेभ्यो विषयाभिलाषेभ्यो मोक्षो मोचनं तद्वासनात्यागस्तं
प्रददातीत्यादिरर्थः । उक्तं चाष्टावक्रगीतायाम् 'मुक्तिमिच्छसि चेत्तात विषयान्विषव-
त्त्यजे'ति ॥ २९९ ॥ किं बहुना तन्त्रोक्तकर्मसु भराभावेन ये श्रौतस्मार्तकर्मस्वेवाती-
वाचरणादरणशीलास्तेषामप्येतदुपकारकमित्याह—चतुरिति । ब्रह्मचारिगृहस्थवानप्रस्थ-
यतयस्तत्तदवान्तरभेदाश्चतुराश्रमनिष्ठास्तैः स्वस्वधर्माणां सम्यग्यथाशास्त्रमनुष्ठाने क्रिय-
माणे यदवश्यंभावि वैकल्यं वैगुण्यं तस्य परिपूर्तये समाधानायेति तादर्थ्ये चतुर्थी ।
चतुराश्रमिणां यानि यानि कर्माणि श्रुतिस्मृतिविहितानि तानि तानि सर्वाणि सर्वा-
ङ्गोपसंहारसमर्थस्यैव फलप्रदानि । सर्वाङ्गोपसंहारश्च प्रायेणाधुनिकानामशक्यतमः ।
तदिदमस्माभिः प्रदर्शितं शिवस्तवे 'स्वामिन्नङ्गेषु सर्वेष्वपि सुविरचितेष्वेव कर्माणि
किंचित्तुच्छं यच्छन्ति नो चेन्निरयदुरवटे संशयं वासयन्ति । मन्त्रैर्यन्त्रार्थबोधान्गुरु-
कुलनियमान्देशकालाद्यर्थशोधाद्गाढं गूढं च तत्त्वात्कथमतिकठिनोपेयुषी शेमुषी नः'
इति । ततश्च दुःरवगाहाङ्गलोपस्यावश्यकतया तज्जनितपापनिरासद्वारा साङ्गुण्यसंपाद-
नायेदं सर्वेषामावश्यकमिति भावः । उक्तं च देवीभागवते तृतीयस्कन्धे देवान्प्रति
भगवत्या 'मन्नामोच्चारणात्सर्वे मखेषु सकलेषु च । सदा तृप्ताश्च संतुष्टा भविष्यध्वं सुराः
किले'ति । इत्थंच संयोगपृथक्त्वन्यायेनास्य क्रत्वर्थपुरुषार्थोभयरूपतासिद्धिः ॥ ३०० ॥
अथ परिभाषायां विंशतिश्लोकान्व्याचष्टे ॥ नामस्मरणावश्यकतोक्तिः सार्ध-
त्रयोदशश्लोकैः । उपसंहारः सार्धैः पञ्चभिरेकेन सूतोक्तिः ॥ ३९ ॥
अत्र चरमश्लोकस्यैकस्य सूतोक्तिरूपताकथनेन ततः पूर्वेषां हयग्रीवोक्तिरूपतैवेति
द्योतितम् 'दशभूः सार्धन्नृपाला' इति वक्तृनिर्णायकश्लोके चरमस्थाने हयग्रीवस्यैव कथ-
नात् तत्परत एतदवधिपर्यन्तमन्यस्य कस्यापि वक्तृत्वेन परिगणनाभावाच्च । तत्रैवा-
ध्यष्टमित्युक्तिस्तु पूर्वभागाभिप्रायेणेत्यविरोधः ॥ ३९ ॥ नन्वङ्गलोपप्रतिसमाधानाय
प्रायश्चित्तान्यपि तत्रतत्रैव विहितानीति तैरेव साङ्गुण्यसिद्धौ किमनेन सहस्रनामस्तोत्रेणे-
त्यत आह—कलाविति । पापैकबहुले चतुष्पादस्य धर्मस्य पादत्रये पापेन लुप्ते ।
मुक्त्वावेति विनार्थकमन्वयान्तरमखण्डं नतु क्त्वाप्रत्ययान्तम् । मोचनकर्तृकक्रियान्तरा-
भावेन तथात्वायोगात् । स्थितानामिति शेषपूरणेनायनक्रिययैव वा समाधेयम् । नामा-
१. तद्रहस्यकः इति पाठः ।