ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 246, कुल 272 में से
संदर्भ में पढ़ें२१८ ललितासहस्रनाम ।
देवता ललितातुल्या यथा नास्ति घटोद्भव ॥ २८१ ॥
रहस्यनामसाहस्रतुल्या नास्ति तथा स्तुतिः ।
लिखित्वा पुस्तके यस्तु नामसाहस्रमुत्तमम् ॥ २८२ ॥
समर्चयेत्सदा भक्त्या तस्य तुष्यति सुन्दरी ।
बहुनात्र किमुक्तेन शृणु त्वं कुम्भसंभव ॥ २८३ ॥
नानेन सदृशं स्तोत्रं सर्वतन्त्रेषु विद्यते ।
तस्मादुपासको नित्यं कीर्तयेदिदमादरात् ॥ २८४ ॥
न्तरविरहद्वारात्युत्तमत्वं ध्वनयंस्तेषां सत्पात्रतावच्छेदकतायां कथन्ताशङ्कामपाकरोति
सार्धेन । अत्र यथातथेत्यनयोर्वैपरीत्येनाप्यन्वयो द्रष्टव्यः ॥ २८१ ॥ इदानीमनुपासक-
स्याप्येतत्स्तोत्रं धर्मप्रदमित्याह । यस्तु यः कश्चिदपि उपासकोऽनुपासको वेत्यर्थः । अनुपा-
सकस्य नामकीर्तनेऽधिकाराभावेऽपि तत्पुस्तकार्चनेऽधिकारस्य निराबाधत्वात् ॥ २८२ ॥
सदा यावज्जीवं तस्य अनुपासकस्यापि किमुतोपासकस्येति भावः । यद्यप्यनेनैव न्यायेन
पुस्तकार्चनेनापि तुष्यति किमुत कीर्तनेनेति कैमुतिकन्यायेन कीर्तन एव तात्पर्यम् ।
तस्मात्कीर्तयेदित्युत्तरोपसंहारो युज्यत इति सुवचं, तथापि 'स्वाध्यायोऽध्येतव्य'इति
वचनेऽध्ययनपदस्य गुरुमुखोच्चारणानूच्चारणे शक्तत्वेऽपि तत्करणकार्थज्ञानभाव्यकभावना-
विधानपरत्ववदिहापि नामानि कीर्तयेदिति विधेरप्यर्थज्ञानपर्यन्तता निर्विवादा । तेन
'अप्येकं नाम यो वेत्ति धात्वर्थनिगमादिभिः । सोऽपि श्रीललितालोके कल्पकोटीर्वसेन्नर'
इति देवीपुराणे, 'अनधीतमविज्ञातं निगदेनैव पद्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति
कर्हिचि'दिति स्मृत्यन्तरेषु च वचनान्यर्थज्ञानाज्ञानयोः प्रशंसानिन्दापराणि संगच्छन्ते ।
अर्थज्ञानान्तसामर्थ्याभावे तु निगदमात्रपरापि सा भावना भवितुमर्हति । 'आख्याता-
नामर्थं ब्रुवतां शक्तिः सहकारिणी'ति न्यायात् । अतएव 'योऽर्थज्ञ इत्सकलं भद्रमश्नुते
नाकमिति ज्ञानविधूतपाप्मे'ति श्रुतावर्थज्ञानप्राप्यफले सकललविशेषणेन शब्दज्ञानमात्रेण
किंचिद्विकलं फलमस्तीति ज्ञापितम् । ततश्च तुल्यन्यायेन शब्दपाठेऽप्यसमर्थस्य पुस्तक-
संग्रहमात्रमपि न्यायलभ्यम् । उच्चारणस्य जन्मान्तरे अर्थज्ञानप्रदत्ववत्पुस्तकसंग्रहस्या-
प्युच्चारणप्रदत्वं जन्मान्तरे संभवतीति सुवचम् । अतएव तन्त्रराजादिष्वसंप्रदायेनाङ्ग-
हीनापि कृतोपासना जन्मान्तरे साङ्गसंप्रदायशुद्ध्यै कल्पत इत्युक्तम् । तेन पुस्तकार्चन-
मात्रमपि धर्म एव । सचानुपासकस्याप्यनिषिद्धत्वाज्जन्मान्तरे उपासनाप्राप्त्यर्थं कर्तव्य
एव । उपासकस्य तु नामपाठेऽप्यसमर्थस्य नाम पठेदिति विधेर्यावच्छक्तिपरिपालनाया-
वश्यकतम एव । नच 'कुलपुस्तकानि गोपये'दिति कल्पसूत्रोक्तविधिविरोधादनुपासकस्य
कथं पुस्तकार्चनेऽधिकार इति वाच्यम् । तस्यार्थज्ञानविदूषकदुर्जनपरत्वेन भाविकोपास-
नेच्छुसज्जनपरत्वाभावात् । तथासत्यदृष्टार्थतापत्तेरित्यन्यदेतत् । उपासकानां तु नामपाठ-
शक्तानां पुस्तकार्चनमात्रं नावश्यकमिति तु निराबाधमेव । अयं च न्याय एतदर्थज्ञानो-