ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 249, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । २२१
न तयोर्विद्यते भेदो भेदकृत्पापकृद्भवेत् ॥ २९० ॥
महानवम्यां यो भक्तः श्रीदेवीं चक्रमध्यगाम् ।
ललितैकवेद्यफलकत्वे पुनःपुनरावृत्तार्चनस्य ललितैकरूपत्वं फलं न्यायलब्धमेवाह—
स एवेति । परस्परप्रतियोगिकतादात्म्यबोधनायोद्देश्यविधेयभाववैपरीत्येनाप्याह—
तद्रूपेति । वास्तविकभेदे सत्यप्युपमेयोपमालंकारेणाप्येषोक्तिः सुसमर्थेति भ्रमं
निरस्यति—न तयोरिति । देवीभक्तयोरित्यर्थः । भेदः वास्तविक इति शेषः । नात्र
तृतीयसदृशव्यवच्छेदोऽपि तु तादात्म्यमेवेति भावः । वास्तव एव भेदोऽस्त्वित्याग्रहणं
दण्डयति—भेदकृदिति । देवीभक्तौ परस्परप्रतियोगिकसत्यभेदवन्तौ । मर्त्यामर्त्यत्व-
पूज्यपूजकभावादिरूपविरुद्धधर्माधिकरणत्वादित्यादिभेदसाधकानुमानप्रयोक्तेत्यर्थः । अद्वै-
तप्रतिपादकशास्त्रविरोधेन प्राण्यङ्गत्वहेतुकाशुचित्वानुमानप्रयोक्तृवदुपहसनीयतामाह—
पापकृदिति । हेत्वाभासप्रयोगकृतत्वाच्छास्त्रविरुद्धत्वाच्च पापिष्ठ इत्यर्थः । मरणभ्रमो-
ऽपि 'न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्त'इति श्रुत्यैव निरस्त इति भावः
॥ २९० ॥ अथेतोऽपि सुलभं चतुर्विधमुक्तिफलं प्रयोगमाह—महानवम्यामिति ।
यावज्जीवार्थकं प्रतिमासपदं रात्रिपदं चानुवर्तनीयम् । नवरात्रस्य चरमदिवसद्वयं महा-
नवमीत्युच्यते। तच्च शिवशक्तिसामरस्यरूपम् । तत्र सर्वजातीयानां देवीपूजनेऽधिकारः ।
तथाहि—नवरात्रं द्विविधं शारदं वासन्तं चेति । 'शरत्काले महापूजा क्रियते या च
वार्षिकी' इति मार्कण्डेयपुराणस्थवचने वार्षिकीति पदस्य वर्षस्य वत्सरस्यादौ भवेति
सांप्रदायिकैर्व्याख्यानात् , चकारादुभयोः समुच्चयस्य स्वरसतोऽवगमात् , चातुर्मास्याख्य-
वर्षर्तौ भवेति व्याख्यायाः शरदश्च वर्षर्तुत्वापादिकायाः क्लिष्टत्वात् , प्रतिवर्षं क्रियमाणेति
व्याख्यायामपि विशेषणवैयर्थ्यात् , 'वासन्ते नवरात्रेऽपि पूजयेद्रक्तदन्तिका'मिति
रुद्रयामले स्पष्टं नवरात्रद्वैविध्यकथनाच्च । देवीभागवते तृतीयस्कन्धे कामबीजोपासकं
सुदर्शनं प्रति देवीवाक्यम् 'शरत्काले महापूजा कर्तव्या मम सर्वदा । नवरात्रोत्सवं
राजन्विधिवत्परिकल्पय । चैत्रे चाश्वयुजे मासि त्वया कार्यो महोत्सवः । नवरात्रे
महाराज मम प्रीतिविधायक' इत्यादि । सौभाग्यरत्नाकरे त्वाषाढपौषयोरपि नवरात्र-
मुक्तम् । तत्र शारदनवरात्रस्याष्टमीनवम्यौ महापूर्वे । तदुक्तं कालिकापुराणे 'आश्वि-
नस्य तु शुक्लस्य या भवेदष्टमी तिथिः । महाष्टमीति सा प्रोक्ता देव्याः प्रीतिकरी परा ।
ततोऽनु नवमी या स्यात्सा महानवमी स्मृता । सा तिथिः सर्वलोकानां पूजनीया शिव-
प्रिये'ति । धौम्योऽपि 'आश्विने मासि शुक्ले तु या स्यान्मूलेन चाष्टमी । सा महत्यष्टमी
ज्ञेया तत्र देवी कृतालया' । ब्रह्माण्डपुराणेऽपि 'कन्यासमाश्रिते भानौ या स्यान्मूलेन
चाष्टमी । सा महत्यष्टमी ज्ञेया न मुग्धानवमीयुता' । मूलयोगोक्तिस्तु संभवाभिप्राया । तेन
पूर्वाषाढायुतापि महाष्टम्येव 'मूलऋक्षसमायुक्ता पूजनीया प्रयत्नतः। मूलाभावेऽपि कर्तव्या
यदि स्यात्तोयसंयुते'ति वचनात् । तोयं पूर्वाषाढा । अस्या एव नक्षत्रद्वयान्यतरयोगे