ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 251, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । २२३
यस्तु नामसहस्रेण शुक्रवारे समर्पयेत् ।
चक्रराजे महादेवीं तस्य पुण्यफलं शृणु ॥ २९२ ॥
पूजयित्वाश्विने मासि विशोको जायते नर'इति भविष्योत्तरवचनेनैकप्रयोगतासूचनात् ।
'अष्टमी नवमीयुग्मे'इति पूर्वोक्तवचनाच्च । अतएव नवरात्रात्कर्मान्तरमिदमिति सि-
द्धान्तः । अस्यां च पूजायां सर्वजातीयानामधिकारः । तदुक्तमेतत्कर्मोपक्रम एव भवि-
ष्योत्तरे 'पूजनीया जनैर्देवी स्थानेस्थाने पुरेपुरे । गृहेगृहे शक्तिपरैर्ग्रामेग्रामे वनेवने ।
स्नातैः प्रमुदितैर्हृष्टैर्ब्राह्मणैः क्षत्रियैर्विशैः । शूद्रैर्भक्तियुतैर्म्लेंच्छैरन्यैश्च भुवि मानवैः ।
स्त्रीभिश्च कुरुशार्दूल तद्विधानमिदं शृण्वि' त्यादि । शक्तिपरैश्चण्डीपरायणैः । म्लेंच्छैः
शवरकिरातपुलिन्दादिभिः । अन्यैरनुलोमप्रतिलोमजैः । परंतु स्वकुलाचारमनुरुध्यैव
पूजयेत् । तदुक्तं व्रतखण्डे 'यस्य यस्य हि या देवी कुलमार्गेण संस्थिता । तेन तेन च
सा पूज्या बलिगन्धानुलेपनैः । नैवेद्यैर्विविधैश्चैव पूजयेत्कुलमातर'मिति । नन्वेवं निर्णी-
तायामपि महानवम्यां तस्य शब्दस्य कालपरत्वेन प्रकृतविधौ कस्य कालस्य महानवमी-
पदेनोपादानम् । उक्तरीत्याष्टमी नवम्योर्महानवमीत्वात् । यदापि दर्शपूर्णमासनवरात्रा-
दिपदवत्कर्मपरोऽयं महानवमीशब्दस्तदाष्टमी नवमीपूजाद्वयस्यैककर्मत्वेऽपि तस्य
वासन्तशारदभेदेन द्वैविध्यात्प्रकृते कस्य कर्मण उपादानम् । नचोभयोरप्युपादानम् ।
एकधाधिकरणे वैधपदस्यानियतानेकार्थपरताया निरस्तत्वादिति चेत् । अत्र ब्रूमः—
महानवमीशब्दस्य कर्मपरत्वे एकस्यैवाग्निहोत्रस्य सायंप्रातर्भेदेनावृत्तिवद्वसन्तशारदभेदेनावृ-
त्तिमात्राङ्गीकारेणानेकार्थत्वाभावात् । कालपरत्वे तु चत्वारोऽपि काला इह विधौ
गृह्यन्ते । एकधाधिकरणे ह्यनियतानेकार्थकस्यैव निरासो न पुनर्नियतानेकार्थकस्येत्यदो-
षात् कथमन्यथैकस्य मन्त्रस्यानेकार्थेषु विनियोगः । नच विधिगतस्यैव पदस्यानेकार्थता
न युक्तेति परिभाषास्ति । 'न कलञ्जं भक्षये'दिति विधिवाक्येऽपि कलञ्जपदस्य बहुधा
व्याख्यानदर्शनात् । आन्ध्रपरत्वेन भङ्गापरत्वेन कण्ठशोधकौषधपरत्वेन चेति ।
तस्माद्यावज्जीवमेतेषु चतुर्ष्वपि दिवसेषु चक्रमध्ये बिन्दुस्थानं गच्छतीति तादृशीं श्रीदेवीं
त्रिपुरसुन्दरीं यः कश्चन भक्तः स्वस्वकुलानुसारेणार्धरात्रे सहस्रनामभिः पूजयति तस्य
चतुर्विधापि मुक्तिः कर एव स्थिता । अतिसुलभेत्यर्थः । तत्रैकदिनेऽर्चकस्य सालोक्य-
मात्रं, दिनद्वये चेत्सारूप्यमपि, दिनत्रये चेत्सामीप्यमपि, चतुर्ष्वपि दिवसेषु चेत्सायुज्य-
मिति तारतम्यं तु न्यायत एव लभ्यत इति विविच्य नोक्तम् । अथवा अष्टमी नवमी-
तिथियुग्मे क्रियमाणकर्मण एकत्वेऽपि नवरात्रचातुर्विध्येन मुक्तिचातुर्विध्यं योज्यमिति
दिक् ॥ २९१ ॥ एवं पार्थक्येन भोगमात्रफलकान्मोक्षमात्रफलकांश्च प्रयोगानुक्त्वा
भोगकैवल्योभयफलं प्रयोगमाह—यस्तुनामेति त्रिभिः। नाम्नां सहस्रेणेत्येकं पदम्।
नामेति प्रसिद्ध्यर्थकमव्ययं वा । सहस्रपदमेव प्रकरणात्नामसहस्रपरमित्यपि सुवचम् ।
१ क्षत्रियैर्नृपैः । वैश्यैः शूद्रैर्भक्तियुतैर्म्लेंच्छैरन्यैश्च मानवैः इति पाठान्तरम् ।