ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 259, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । २३१
चतुराश्रमनिष्ठैश्च कीर्तनीयमिदं सदा ।
स्वधर्मसमनुष्ठानवैकल्यपरिपूर्तये ॥ ३०० ॥
कलौ पापैकबहुले धर्मानुष्ठानवर्जिते ।
नामानुकीर्तनं मुक्त्वा नृणां नान्यत्परायणम् ॥ ३०१ ॥
तद्वतेहकः । तदात्मैक्येन कर्माणि कुर्वन्मुक्तिमवाप्स्यसि । एतद्रहस्यमाख्यातं सर्वेषां
हितकाम्यये'ति । अथवा पूर्वश्लोकस्य ब्रह्मज्ञानप्रदत्वव्याख्यापक्षे तत्साधनवैराग्यप्रदल-
मनेन श्लोकेनोच्यते । भोगेभ्यो विषयाभिलाषेभ्यो मोक्षो मोचनं तद्वासनात्यागस्तं
प्रददातीत्यादिरर्थः । उक्तं चाष्टावक्रगीतायाम् 'मुक्तिमिच्छसि चेत्तात विषयान्विषव-
त्त्यजे'ति ॥ २९९ ॥ किं बहुना तन्त्रोक्तकर्मसु भराभावेन ये श्रौतस्मार्तकर्मस्वेवाती-
वाचरणादरणशीलास्तेषामप्येतदुपकारकमित्याह—चतुरिति । ब्रह्मचारिगृहस्थवानप्रस्थ-
यतयस्तत्तदवान्तरभेदाश्चतुराश्रमनिष्ठास्तैः स्वस्वधर्माणां सम्यग्यथाशास्त्रमनुष्ठाने क्रिय-
माणे यदवश्यंभावि वैकल्यं वैगुण्यं तस्य परिपूर्तये समाधानायेति तादर्थ्ये चतुर्थी ।
चतुराश्रमिणां यानि यानि कर्माणि श्रुतिस्मृतिविहितानि तानि तानि सर्वाणि सर्वा-
ङ्गोपसंहारसमर्थस्यैव फलप्रदानि । सर्वाङ्गोपसंहारश्च प्रायेणाधुनिकानामशक्यतमः ।
तदिदमस्माभिः प्रदर्शितं शिवस्तवे 'स्वामिन्नङ्गेषु सर्वेष्वपि सुविरचितेष्वेव कर्माणि
किंचित्तुच्छं यच्छन्ति नो चेन्निरयदुरवटे संशयं वासयन्ति । मन्त्रैर्यन्त्रार्थबोधान्गुरु-
कुलनियमान्देशकालाद्यर्थशोधाद्गाढं गूढं च तत्त्वात्कथमतिकठिनोपेयुषी शेमुषी नः'
इति । ततश्च दुःरवगाहाङ्गलोपस्यावश्यकतया तज्जनितपापनिरासद्वारा साङ्गुण्यसंपाद-
नायेदं सर्वेषामावश्यकमिति भावः । उक्तं च देवीभागवते तृतीयस्कन्धे देवान्प्रति
भगवत्या 'मन्नामोच्चारणात्सर्वे मखेषु सकलेषु च । सदा तृप्ताश्च संतुष्टा भविष्यध्वं सुराः
किले'ति । इत्थंच संयोगपृथक्त्वन्यायेनास्य क्रत्वर्थपुरुषार्थोभयरूपतासिद्धिः ॥ ३०० ॥
अथ परिभाषायां विंशतिश्लोकान्व्याचष्टे ॥ नामस्मरणावश्यकतोक्तिः सार्ध-
त्रयोदशश्लोकैः । उपसंहारः सार्धैः पञ्चभिरेकेन सूतोक्तिः ॥ ३९ ॥
अत्र चरमश्लोकस्यैकस्य सूतोक्तिरूपताकथनेन ततः पूर्वेषां हयग्रीवोक्तिरूपतैवेति
द्योतितम् 'दशभूः सार्धन्नृपाला' इति वक्तृनिर्णायकश्लोके चरमस्थाने हयग्रीवस्यैव कथ-
नात् तत्परत एतदवधिपर्यन्तमन्यस्य कस्यापि वक्तृत्वेन परिगणनाभावाच्च । तत्रैवा-
ध्यष्टमित्युक्तिस्तु पूर्वभागाभिप्रायेणेत्यविरोधः ॥ ३९ ॥ नन्वङ्गलोपप्रतिसमाधानाय
प्रायश्चित्तान्यपि तत्रतत्रैव विहितानीति तैरेव साङ्गुण्यसिद्धौ किमनेन सहस्रनामस्तोत्रेणे-
त्यत आह—कलाविति । पापैकबहुले चतुष्पादस्य धर्मस्य पादत्रये पापेन लुप्ते ।
मुक्त्वावेति विनार्थकमन्वयान्तरमखण्डं नतु क्त्वाप्रत्ययान्तम् । मोचनकर्तृकक्रियान्तरा-
भावेन तथात्वायोगात् । स्थितानामिति शेषपूरणेनायनक्रिययैव वा समाधेयम् । नामा-
१. तद्रहस्यकः इति पाठः ।