ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 253, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । २२५
फलाधिक्यमपि । विद्याविदुषां ब्राह्मणानां सहस्रस्याशीराशेरीदृशमेव हि फलं योग्यं
भवति । नचैवं सत्यनेकैर्भकैर्यौगपद्येनेदृशप्रयोगानुष्ठाने सर्वेषामेकस्मिन्काल एव जगद्व्या-
पारे स्वातन्त्र्यस्यावश्यकतया परस्परवैमत्याज्जगद्विलोपापत्ति'रिति तदधिकरणोक्तो दोषः
प्रसज्यत इति भेतव्यम् । सृज्यमानप्राणिकर्मानुसारेणैव भगवतः प्रवृत्तिरिति तैरेवाङ्गी-
कारात् । अन्यथा वैषम्यनैर्घृण्यापत्तेरपरिहार्यत्वात् । तथाच ब्रह्मसूत्रम् 'वैषम्यनैर्घृण्ये न
सापेक्षत्वात्तथाहि दर्शयति'ति । ततश्च कर्मानुसारेण जायमाना प्रवृत्तिर्बहूनां समन-
स्कानामप्येकरूपैव संभवेदिति न वैमत्यम् । नच परस्परेच्छानुसारेण व्याप्रीयमाणानां
स्वातन्त्र्यभङ्गः । स्वेच्छानुसारी प्रवृत्तिमत्त्वरूपस्वातन्त्र्यस्य सर्वेष्वविघातात् । अतएव