ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 250, कुल 272 में से
संदर्भ में पढ़ें२२२ ललितासहस्रनाम ।
अर्चयेन्नामसाहस्रैस्तस्य मुक्तिः करे स्थिता ॥ २९१ ॥
महानवमीत्यपि संज्ञान्तरम् । तदुक्तं नृसिंहप्रासादे 'आश्वयुक्शुक्लपक्षे तु याष्टमी मूलसं-
युता । पूर्वयाषाढया सार्धमृक्षद्वययुतापि वा । सा महानवमी नाम त्रैलोक्येऽपि सुदुर्ल-
भे'ति । भविष्योत्तरेपि 'कन्यागते सवितरि शुक्लपक्षेऽष्टमीयुता । मूलनक्षत्रसंयुक्ता सा
महानवमी स्मृते'ति । विश्वरूपाचार्यैरपि 'आश्वयुक्शुक्लपक्षे तु याष्टमी मूलसंयुता ।
यदि स्याद्रविविद्धापि सा महानवमी स्मृते'ति । अत्राष्टमीमूलाभ्यां संयुता या तिथिः
सा महानवमीति व्याख्या नवम्येव महानवमीत्यर्थ इति केचित् । तदुक्तं भविष्योत्त-
रादिवचनविरोधादनादेयम् । सप्तमीवेधबोधकरविविद्धापदस्य रविवासरयुक्तेत्यर्थवर्णना-
पत्तेश्च । अनयोश्च परस्परविद्धत्वमपि प्रशस्तम् । तदुक्तं विष्णुधर्मोत्तरे 'अष्टम्या नव