ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
सौभाग्यभास्करव्याख्या । १८५
बन्धं वधं रोधं पुत्रनाशं धनक्षय'मित्यादिना यत्परम्परामुपन्यस्य 'आपत्सु निखिलासु
त्वं रक्षस्येव न संशय' इत्यन्तम् । वाराहेऽपि ब्रह्मादिकृतदेवीस्तोत्रान्ते 'शरणं त्वां
प्रपद्यन्ते ये देवि परमेश्वरि । न तेषामापदः काश्चिज्जायन्ते कापि संकट'इत्यादि ।
अभियुक्ता अप्याहुः 'आपदि किं करणीयं स्मरणीयं चरणयुगलमम्बायाः । तत्स्मरणं किं
कुरुते ब्रह्मादीनपि च किंकरीकुरुते'इति ॥ अथ परिभाषायां सप्तत्रिंशन्नामानि
विभजते ॥ खेचरता द्विर्भवेदा देहे चैका भवेद्देवी । भगणे चतुर्गुणा
भूर्भवभालशतेन गोमेदा ॥ ३१ ॥ अत्रोत्तरार्ध इव पूर्वार्धे नकारस्याकथनादेकप-
दोपादानाच्च दशसंख्याधिक्ये सिद्धे तत्र प्रथमोपस्थितत्वादेकादशाक्षरं नामेति सिद्ध्यति
॥ ३१ ॥ दुःखरूतचाञ्चल्याभावात्स्वस्था खस्मिन्नेव स्थिता वा । 'स भगवः कस्मिन्प्र-
तिष्ठित इति स्वे महिम्रीति होवाचे'ति श्रुतेः । खरित्यव्ययं स्वर्गवाचि । तत्र तिष्ठत्यध्यक्षतयेति
वा । शोभना अस्था स्थितिर्भावो गतिर्यया सा वा । प्रभावादेवोपाधिसंपर्क-
मन्तरेणैव मधुरा सर्वाभिलषणीया । 'मधुरं रसवत्स्वादुप्रियेषु मधुरोऽन्यवत् । मधुरा
शतपुष्पायां मधूलीनागरीभिदो'रिति विश्वः । अतएव स्व आत्मीयो भावोऽवस्थानं
यस्यां सा च सा मथुरापुरी चेति वा । मीनाक्षीनिवासशालिहालास्यक्षेत्र [ रूपेति ]
निवासेति यावत् । यद्वा स्वस्यात्मनो भायां प्रतिभायां येऽवमाः प्रथमगणनीयाः ।
आत्मज्ञोत्तमा इति यावत् । तेषां धुरेव धुरा । धूरिति हलन्ताद्भागुरिमतेन टाप् ।
रथस्य धूर्यथा सर्वोत्तममङ्गं तद्वदियमात्मज्ञानवतां निर्वाहिकेत्यर्थः । नचावमपदस्य
निकृष्टपरत्वमेवेति भ्रमितव्यम् । अवमोत्तमपदयोः प्रथमचरमपरत्वेन प्रयोगदर्शनात् ।
'अग्निरग्रे प्रथमो देवतानां संयातानामुत्तमो विष्णुरासी' दित्याग्नावैष्णवेष्टियाज्यानुवा-
क्यामन्त्रस्य सर्वदेवताप्रथमचरमभूतयोरग्निविष्ण्वोर्ग्रहणे प्रत्याहारन्यायेन मध्यस्थानाम-
खिलदेवतानां ग्रहणं दीक्षणीयेष्टौ सिद्ध्यतीति प्रतिपादनपरस्य व्याख्यारूपे 'अग्निर्वै
देवानामवमो विष्णुः परम'इति बह्वृचब्राह्मणे प्रथमपदस्यावमपदेन व्याख्यानदर्शनेन
तयोः पर्यायत्वसिद्धेः । खभामात्रप्रज्ञानं ये वमन्ति सृजन्ति साधयन्ति तेषु धूरुत्तमेति
वा । तेन 'न निर्धारण' इति षष्ठीसमासनिषेधस्य न विरोधः । पुरुषोत्तम इत्यत्रेव
सप्तमीसमासस्वीकारात् । शोभना अभावाः स्वभावाः । अभावेषु शोभनत्वविशेषणात्त-
त्प्रतियोगिनां भावानामाशोभनत्वमुक्तं भवति । तेन रागद्वेषवैषम्यनैर्घृण्यादिप्रायोगिकै-
रभावैर्मधुरेति वा । स्वेषु आत्मीयेषु भक्तेषु भावेन अवस्थानेन मधुरा वा । स्वेषां
भावेन भक्त्या मधु सत्फलं रातीति वा । 'चरन्वै मधु विन्दती'ति श्रुतौ तथैव मधुप-
दस्य व्याख्यानदर्शनात् । एवमभिप्रायावतारयोरपि भावपदार्था यथासंभवं योजनीयाः ।
धीरा पण्डिता । धैर्यवती वा । धियमद्वैतबुद्धिं राति ददातीति वा । 'ईश्वरानुग्रहादेव
पुंसामद्वैतवासने'ति स्मृतेः । धीप्रदा इरा दशमीतिथिर्र्यस्यां वा । धीरैः पण्डितैः
समर्तिता । 'तं धीरासः कवय उन्नयन्ती'ति श्रुतेः । अतएव कल्याणचरणैः स्वीयं
धैर्यं प्रकटीकृतम् । 'पातय वा पाताले स्थापय वा निखिललोकसाम्राज्ये । मातस्तव
१८४ ललितासहस्रनाम ।
चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया ।
सदोदिता सदा तुष्टा तरुणादित्यपाटला ॥ २२१ ॥
दक्षिणादक्षिणाराध्या दरस्मेरमुखाम्बुजा ।
पदयुगलं नाहं मुञ्चामि नैव मुञ्चामी'ति । धीसंज्ञं ज्ञानाभिन्नं रसमानन्दमुद्दिश्यार्चिता
वा ॥ ३२० ॥ चैतन्यं चिद्रूपं 'आत्मचैतन्यमात्मे'ति शिवसूत्रात् तदेवार्घ्यं पूजायोग्यं
जलादि तेन सम्यगाराध्या । निराधाराराध्यायाः पूजायाश्चिद्भेदभावनारूपत्वात् 'ज्ञान-
मर्ध्य'मिति भावनोपनिषच्छ्रुतेः । उक्तंच स्कान्दे 'स्वानुभूत्या स्वयं साक्षात्स्वात्मभूतां
महेश्वरीम् । पूजयेदादरेणैव पूजा सा पुरुषार्थदे'ति । अथवा चैतन्यस्यात्मनोऽर्घ्येण
ज्ञानेन स्वानुभूत्येत्यर्थः । 'अर्घ्यः पूजाविधौ मूल्येऽप्यर्घ्यो विद्याद्रुमूलयो'रिति विश्वः ।
अर्घ्ये साधुरित्यर्थे यत्प्रत्ययः । चातुर्वर्ण्यादेराकृतिगणत्वाद्वा स्वार्थे ष्यञ् । आर्ध्यमित्येव
छेदः । चैतन्यवाचकोऽर्घ्यो विद्यास्त्रीदेवत्यो मनुरिति वा । तेन भुवनेश्वरीमन्त्रेण
समाराध्या । 'स्त्रीदेवतास्तु विद्याः स्युर्मन्त्राः पुंदेवता मता'इति वचनात् । सूतसंहि-
तायां 'जपित्वा दशसाहस्रं मन्त्रं चैतन्यवाचकम् । महापातकसंघैश्च मुच्यते पातका-
न्तरै'रिति श्लोके चैतन्यवाचकमन्त्रपदस्य भुवनेश्वरीमन्त्रपरत्वेन व्याख्यातत्वाच्च ।
अथवा चेतनैव चैतन्यं संविद्रूपो रसः । 'चेतना संविदि प्रोक्ता वाच्यवत्प्राणिनि
स्मृते'ति विश्वः । स एवार्घ्यः पूजाद्रव्यं विशेषार्घ्यपात्रे परिपूरणेन संस्कारैः पूजायोग्य-
तामापादित इति यावत् । तेन सम्यक्तर्पणादिनाराध्या । 'संविदासवयोर्मध्ये संविदेव
गरीयसी'ति रुद्रयामलात् । तान्त्रिकैः कुण्डगोलोद्भवपदेन व्यवह्रियमाणः पाञ्चमिको रसो
वा चैतन्यं प्राणिसंभवत्वात् । चैतन्यं चिदेव कुसुमं महाफलप्रसूतित्वात् । 'जडानां
चैतन्यस्तवकमकरन्दस्रुतिझरी' त्यादौ कुसुमत्वेन रूपकस्य कविसंप्रदायसिद्धत्वात् ।
तत्प्रियं यस्याः । उपलक्षणमेतत्पुष्पाष्टकस्य । 'अहिंसा प्रथमं पुष्पमिन्द्रियाणां च
निग्रहः । क्षान्तिः पुष्पं दयापुष्पं ज्ञानपुष्पं परं मतम् । तपःपुष्पं सत्यपुष्पं भावपुष्प-
मथाष्टम'मित्यभियुक्तोक्तेः संविदादिपक्षद्वयमिहाप्यतिदेष्टव्यम् । तयोश्च कुसुमसद्भावाच्चै-
तन्यस्य कुसुममित्येव पक्षद्वयेऽपि विग्रहः । सदा नित्यं उदिता उदयवती स्वप्रकाशत्वात् ।
सत्सु सज्जनेषु आसमन्तादतिशयेनोदिता वा । एवमेव सदातुष्टेत्यस्य द्वावर्थौ । तरुणो
मध्याह्नकालिक आदित्यः सूर्यस्तद्वत्पाटला श्वेतरक्ता । नच गौरी श्यामेत्यादिभिर्विरोध
उद्भाव्यः । मूर्तिभेदेन ध्यानभेदेन वा व्यवस्थोपपत्तेः । श्रूयते च 'तद्यथा महारजनं
वासो यथा पाण्ड्वाविकं यथेन्द्रगोप' इति । स्मर्यते च 'शान्ता धवलवर्णाभा मोक्षधर्म-
प्रकल्पने । श्रीवश्ये राजवश्ये च जनवश्ये च पाटला । पीता धनस्य संपत्तौ कृष्णा
मारणकर्मणि । बभ्रुविद्वेषणे प्रोक्ता शृङ्गारे पाटलाकृतिः । सर्ववर्णा सर्वलाभे ध्येया
ज्योतिर्मयी पर'मिति ॥ २२१ ॥ दक्षिणया दक्षिणैः कुशलैराराध्या । दक्षिणैः पण्डितै-
रदक्षिणैर्मूर्खैश्चेति वा । दक्षिणामार्गोपासकेन वाममार्गोपासकेन चेति वा । यद्वा केवल-
सौभाग्यभास्करव्याख्या । १८७
कौलिनीकेवलाऽनर्घ्यकैवल्यफलदायिनी ॥ २२२ ॥
कर्म जिज्ञासवो दक्षिणा इत्युच्यन्ते । 'विद्यया तदारोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विन'इति श्रुतौ तथा व्याख्यानदर्शनात् अदक्षिणा
ब्रह्मविदः ताभ्यामाराध्या । 'चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो
जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभे'ति वचनात् । दरमीषद्यथा तथा स्मेरं स्मितवन्मुखा-
म्बुजं यस्याः । मुखमम्बुजं यस्मिंस्तन्मुखाम्बुजं ग्रीवावृत्तं दरवत् शङ्खवत्स्मेरं शोभमानं
मुखाम्बुजं यस्या इति वा । कम्बुकण्ठीति यावत् । दरे भयकालेऽपि स्मेरमेव मुखाम्बुजं
यस्या इति वा । कल्पान्तादिनैमित्तिककालेऽप्यन्येषामेव भयेन मुखवैवर्ण्यात् । अम्बायास्तु
सर्वदा स्मेरमेव मुखमिति यावत् । दरे भक्तानामादरणविषये स्मेरं प्रसन्नमिति वा ।
अत्रेदं बोध्यम्—एतच्छ्लोकोत्तरार्धे चत्वारि नामानि प्रतीयन्ते । तत्र तृतीयातिरिक्तानि
पुनरुक्तानि त्रीणि भवन्ति । 'कुलाङ्गना कुलान्तःस्था कौलिनी कुलयोगिनी । क्लींकारी
केवला गुह्या कैवल्यपददायिनी'त्यत्र त्रयाणां विवृतत्वात् । तत्परिजिहीर्षया च
छलाक्षरसूत्रकारैः कौलिनीकुलयोगिनीत्येकपदत्वं स्वीकृत्य प्रकृते च कौलिनीत्येकम-
वशिष्टमेकमिति नामद्वयमङ्गीकृतम् । यदुक्तं ल्यू दूबॢल्रीङ्किकोतपती । ल्यायूटाइक्षु-
रीङ्किकोरीय्फी इति त्रयोदशाक्षरैः छाया । अष्टाक्षराणि त्रीणि नामानीत्यादिरीत्यैक-
विंशतिर्नामानि 'सदाशिवकुटुम्बिनी'त्यारभ्य 'मानवती'त्यन्तानि तत्र कथ्यन्ते । तत्र
किको इत्यक्षरद्वयेन त्र्यक्षरमेकं त्रयोदशाक्षरमेकमिति द्वे नामनी । कवर्गोयाद्यक्षरके
इत्यर्थकेन प्रकृतं नामद्वयं वर्ण्यत इति स्थितिः । अत्र हि छलार्णसूत्राणां दृष्टोपपत्ति-
मूलकतायाः पूर्वमेवोक्तत्वात्षड्भिर्नामभिर्नामत्रयकरणमपेक्ष्य नामचतुष्टयपरत्वेन पदच्छे-
दवर्णनस्य युक्ततां मन्वानैर्मूलकारैरस्मद्गुरुचरणैरिह षडक्षरमेकं नामावशिष्टमपरमिति द्वे
नामनी स्वीकृत्य 'कौलिनी कुलयोगिनी'त्यत्रापि द्वे नामनी स्वीकृते । पौनरुक्त्यपरिहा-
रस्तस्मिन्पक्षेऽपि तुल्य एव । नचैवं नामाधिक्यम् । 'प्रसवित्री प्रचण्डाज्ञा प्रतिष्ठा
प्रकटाकृति'रित्यत्र छलाक्षरसूत्रकारैः प्रकटाकृतिरित्यनयोर्नामद्वयस्वीकारेऽपि गुरुचरणै-
रेकनामत्वस्वीकारेण तदभावादिति । तस्मादिह कौलिनीकेवलेत्येकं नाम । नचैतत्पक्षे
समासानुपपत्तिः । समानाधिकरणसमासे 'पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समाना-
धिकरणेने'ति नियमात्केवलपदस्य पूर्वनिपातापत्तिः । बहुव्रीहौ तु कौलिनीपदस्य
पुंवद्भावापत्तिरिति वाच्यम् । परंज्योतिरित्यादाविव भिन्नपदयोरप्येकनामत्वसंभवात् ।
कौलधर्मवती केवलाख्यज्ञानवती चेत्यर्थः । ईश्वरज्ञानं केवलपदवाच्यम् । जैनतन्त्रे तथा
प्रयोगस्य बहुशो दर्शनात् । सकलधर्मैर्विमुक्ता वा केवला । सुखदुःखविमुक्ता वा ।
'तद्विमुक्तस्तु केवली'ति शिवसूत्रे केवलीति संज्ञाया दर्शनात् । 'सुखासुखयोर्बहिर्मनन'-
मिति पूर्वसूत्रोपात्तसुखदुःखयोस्तत्पदेन परामर्शात् । प्रकृते च मत्वर्थीयस्येनिप्रत्ययस्या-
भावेऽपि तादृशस्याच्प्रत्ययस्य सुवचत्वात् । एककृत्स्ननिर्णीताख्या अपि त्रयोऽर्था इह
वर्णनीयाः । तथाच विश्वः 'केवलं ज्ञानभेदे स्यात्केवलश्चैककृत्स्नयोः । निर्णीते केवलं
१८८ ललितासहस्रनाम ।
स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा ।
मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ २२३ ॥
चोक्तं केवलः कुहने क्वचि'दिति । वस्तुतः केवलकौलधर्मवतीत्येवार्थः । विशेषणविशे-
ष्यभावादिना परस्परान्वयएव भिन्नपदयोरेकनामलनियमात् । अथवा दत्ताभार्य इत्यत्र
दानक्रियानिमित्तस्यापि दत्तपदस्य संज्ञालमङ्गीकृत्य 'संज्ञापूरण्योश्चे'ति पुंवद्भावनिषेध
आश्रीयते वैयाकरणैस्तद्वदिहापि कौलिनीपदस्यापि संज्ञात्वात् कौलिन्यः केवला
ज्ञानवत्यो ययेति बहुव्रीहिरपि संभवति । कौलिनीभिः केवला निर्णीतेति तृतीयासमासो
वा । 'तृतीया तत्कृतार्थेन गुणवचनेने'ति सूत्रे गुणोपसर्जनः । द्रव्यवचनपरत्वेन गुणव-
चनपदस्य व्याख्यानात् । गुणमुक्तवान् गुणवचनः । 'कृत्यल्युटो बहुल'मिति भूते
कर्तरि ल्युडिति निर्णयस्यापि गुणत्वेन तत्कर्मवाचिनः केवलपदस्यापि गुणवचनत्वम् ।
अनर्घ्यममूल्यमपरिच्छिन्नं यत्कैवल्याख्यं पदं पञ्चममुक्तिरूपं तद्दातुं शीलमस्याः ।
अनर्घ्येति दीर्घान्तपाठे आसमन्ताद्ग्राह्यं यत्कैवल्यमिति वा । न विद्यते कैवल्यं यस्मात्त-
दकैवल्यमीदृशं यत्पदमिति वा व्याख्येयम् ॥ २२२ ॥ स्तोत्रं लौकिको गुणानुवादः
षड्विधः 'नमस्कारस्तथाशीश्च सिद्धान्तोक्तिः पराक्रमः । विभूतिः प्रार्थना चेति षड्विधं
स्तोत्रलक्षण'मित्यभियुक्तोक्तः । त्रिजगद्वन्द्या स्वस्तिमती मिथ्याजगदधिष्ठाना 'भण्डासुरेन्द्र-
निर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी । इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी । साम्राज्यदायिनी'
त्यादिनामरूपः प्रगीतमन्त्रसाध्यकगुणिनिष्ठगुणाभिधानं वैदिकं स्तोत्रं वा प्रियं यस्याः ।
स्तोत्र्यश्च ता आपश्च स्तोत्र्यस्ताः प्रिया यस्या वा । स्तोत्रीशब्दस्य पुंवद्भावः । देवा
मनुष्याः पितरोऽसुराश्चाप्पदवाच्याः । 'तानि वा एतानि चत्वार्यम्भांसी'ति श्रुतेः ।
पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती'ति श्रुतावपामेव मनुष्यादिरूपतया परिणतत्वो-
क्तेश्च । 'आपो वा इदं सर्व'मित्यादिश्रुतेश्च । स्तुतिरस्यां कर्मतासंवन्धेनास्तीति स्तुति-
मती । स्तुत्या मतिश्च ईश यस्या इति वा । यत्स्तुत्या ज्ञानैश्वर्ये लभ्येते सेति यावत् ।
श्रुतिभिः सम्यक् स्तुतं परिचितं वा वैभवं विभुत्वं यस्याः । 'संस्तवः स्यात्परिचय'इति
कोशः । श्रुतिशब्दश्चतुःसंख्यापरो वा । 'युगाब्धयोऽर्थाः श्रुतयश्चतस्र'इति छन्दःसुधाक-
रात् । तेन चतुर्धा परिचितं वैभवं यस्या इति विग्रहः । 'शरीरपुरुषश्छन्दःपुरुषो
वेदपुरुषो महापुरुष'इति बह्वृचोपनिषदुक्तचतुर्व्यूहस्वरूपेत्यर्थः । कूर्मपुराणेऽपि 'चतस्रः
शक्तयो देव्याः स्वरूपत्वे व्यवस्थिताः । अधिष्ठानवशात्तस्याः शृणुध्वं मुनिपुंगवाः ।
शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः स्मृताः । चतुर्व्यूहस्ततो देवः प्रोच्यते
परमेश्वरः । अनया परमो देवः स्वात्मानन्दं समश्नुते । चतुर्ष्वपि च देवेषु चतुर्मूर्तिर्म-
हेश्वर'इति । मनोऽस्याः स्वतन्त्रतया तिष्ठति नतु पराधीनवृत्तिकत्वेनेति मनस्विनी ।
'अस्मायामेधास्रजो विनिः' । मनश्चित्तसमुन्नतिरादरर्णं वा प्रियापराधसूचिका चेष्टा वा
प्रमाणं वा प्रमितिर्वास्यामस्तीति मानवती । महेशस्य स्त्री महेशी । उक्तंच देवीपुराणे
सौभाग्यभास्करव्याख्या । १८९
विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परमोदा मनोमयी ॥ २२४ ॥
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
‘महादेवात्समुत्पन्ना महद्भिर्यत आदृता । महेशस्य वधूर्यस्मान्महेशी तेन सा स्मृते’ति ।
मङ्गलरूपा आकृतिर्यस्याः ॥ २२३ ॥ विश्वस्य जगतो विष्णोर्वा माता । ‘सोमः पवत’
इत्युपक्रम्य ‘जनितोत विष्णो’रिति श्रुतेः । जगद्धत्ते भूरूपेणेति जगद्धात्री । उपमाता वा
पालकत्वात् । ‘एष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाये’ति काण्वश्रुतेः ।
देवीपुराणेपि ‘यस्माद्धारयते लोकान्वृत्तिमेषां ददाति च । डुधाञ्धारणे धातुर्जगद्धात्री
मता बुधै’रिति । विशाले विस्तीर्णे अक्षिणी यस्याः । सा वाराणसीपीठाभिमानिनी ।
‘वाराणस्यां विशालाक्षी’ति पाद्मा
१६० ललितासहस्रनाम ।
पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ॥ २२५ ॥
पञ्चमी पञ्चभूतेशी पञ्चसंख्योपचारिणी ।
माणत्वा'दिति । वज्रिण इन्द्रस्य स्त्री शचीरूपा वा । वज्रधारिणी वा । वज्राख्येरत्नैर्भू-
षिता वा । 'महद्भयं वज्रमुद्यत'मिति श्रुतौ वज्रपदस्य ब्रह्मपरत्वात्परिच्छेदकत्वसंबन्धेन
तद्वती वा । वामकेश्वरतन्त्ररूपा वामकस्य तन्त्रस्य प्रतिपाद्या वा । वामा वाममार्ग-
तास्त एव पञ्चयज्ञविलोपकत्वात्कुत्सिता इति वामकाः । वमन्ति जगत्सृजन्तीति वा
वामका दक्षाश्चास्तेषामीश्वरी वा । पञ्चसंख्याका यज्ञाः पञ्चयज्ञाः । मध्यमपदलोपी
समासः । तेन न 'द्विगो'रिति ङीप् । ते प्रिया यस्याः । ते च 'स एष यज्ञः पञ्चवि-
धोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोम' इति श्रुतौ कथिताः, स्मृतिषु प्रसिद्धा
देवयज्ञब्रह्मयज्ञभूतयज्ञपितृयज्ञमनुष्ययज्ञा वा । पञ्चरात्रागमे 'अभिगमनमुपादानमिज्या-
स्वाध्याययोग' इत्युक्ता पञ्चविधा पूजा वा । कुलागमे 'केवलो यामलो मिश्रश्चक्रयुर्वी-
रसंकरः । इति पञ्चविधा पूजे'त्युक्ता वा । नित्यातन्त्रे 'हेतिभिर्मध्यमार्थं स्याद्द्वितीयं
नवयोनिभि'त्यारभ्य 'इति पञ्चप्रकारार्चा प्रोक्ता सर्वार्थसिद्धिदे'त्यन्तेनोक्ता वा ।
बृहत्तन्त्रकौमुद्यां तन्मूलके मन्त्रमहोदधौ च 'आतुरौसौतकीदौर्बोधीत्रासीसाधनाभा-
वनी'ति कथिता वा । 'अग्निहोत्रे हूयमाना दुग्धादिरूपा आपः सोमद्युपृथिवीपु-
रुषयोषिद्रूपकुण्डपञ्चके पुनःपुनर्हूयन्ते तदा ता एवापः शरीरभावं भजन्ती'त्युपनिषत्सु.
रंहत्याद्यधिकरणेषु च स्पष्टोऽयं विषयः । त एते पञ्चयज्ञा वा । 'पचि विस्तार' इति
धातोर्घञर्थे कविधानात्पञ्चो विस्तृतो यज्ञो विश्वसृजामयनादिर्वा । सर्वेषामेतेषामेक-
शेषः । ब्रह्मादयश्चत्वारः प्रेताः पादाः । सदाशिवाख्यः प्रेतः फलकमेतादृशं मञ्चं
पर्यङ्कमधिशेते । उक्तं च भैरवयामले बहुरूपाष्टकप्रस्तारे च 'शिवात्मके महामञ्चे
महेशानोपवर्हणे । भृतकाश्च चतुष्पादाः कशिपुश्च सदाशिवः । तत्र शेते महेशानी
महात्रिपुरसुन्दरी'ति । आचार्यभगवत्पादैरप्युक्तं 'गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः
शिवः स्वच्छच्छायाघटितकपटप्रच्छदपट' इति ॥ २२५ ॥ ब्रह्मादिषु पञ्चसु पञ्चमस्य
सदाशिवस्य स्त्री । सूतगीतायां तस्याप्यम्बासहायोक्तेः 'त्रिषु रुद्रो वरिष्ठः स्यात्तेषु
मायी परः शिवः । मायाविशिष्टात्सर्वज्ञात्सम्बः सत्यादिलक्षणः । सदाशिवो वरिष्ठः
स्यान्नात्र कार्या विचारणे'ति पञ्चमीशब्दो वाराह्यां निरूढो वा । सा च यद्यपि
ब्राह्मादिषु पञ्चमीति पञ्चरत्नदेवतासु चरमेति पञ्चकोशादिचरमदेवतास्विब यौगिक एव
स तस्यां भासते तथापि दक्षिणामूर्तिसंहितायां 'पूजयेत्पञ्चमीसुतम् । घटं स्पृष्ट्वा हृदि
ध्यात्वा पञ्चमीं परमेश्वरीम् । पञ्चमीं शकटं यन्त्रं त्रिषु लोकेषु दुर्लभम्' इत्यादौ
वाराह्यामेव बहुतरप्रयोगदर्शनाद्योगरूढोऽप्यवसेयः । मकारेषु पञ्चमस्थानन्दरूपत्वात्त-
द्रूपा वा । तथाच कल्पसूत्रम् 'आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितम् । तस्याभि-
व्यञ्जकाः पञ्च मकारास्तैरयार्चनं'गुप्स्येत्यादि (?) । अतएव पञ्चानां मानां मकाराणां
सौभाग्यभास्करव्याख्या । १९१
शाश्वती शाश्वतैश्वर्या शर्मदा शंभुमोहिनी ॥ २२६ ॥
धराधरसुता धन्या धर्मिणी धर्मवर्धिनी ।
समाहारः पञ्चमीति वा । तानि च त्रैपुरसूक्ते 'परिस्रुतं चषमायं फलं चे'त्यस्यामृचि प्रसि-
द्धानि । दानशुद्ध्यादयो गुरुमुखादवगन्तव्याः । 'पञ्चमाहुतावापः पुरुषवचसो भवन्ती'ति
श्रुतिप्रसिद्धा योषित् कुण्डे रेतो हविष आहुतिरुक्तयज्ञेषु पञ्चमी तद्रूपा वा । कैव-
ल्याख्या पञ्चमी मुक्तिस्तदभिन्ना वा । पञ्चसंख्यानां भूतानां पृथिव्यादीनामीशी । यद्वा
पञ्चधाभूता पञ्चप्रकारा जातेति वा । पञ्चमहाभूतात्मिका वा पञ्चरत्नात्मिका वा
वैजयन्तीमाला तदीशी । उक्तंच विष्णुपुराणे 'पञ्चरूपा तु या माला वैजयन्ती गदा-
भृतः । सा भूतहेतुसंघाता भूतमाला भवेद्विजे'ति । अत्र पञ्चरूपेति पदं मुक्तामणि-
क्यमरकतेन्द्रनीलवज्रसमानवर्णेति व्याचक्षते । विष्णुरहस्येऽपि 'पृथिव्यां नीलसंज्ञानमण्यो
मुक्ताफलानि च । तेजसः कौस्तुभो जातो वायोर्वैडूर्यसंज्ञकम् । पुष्करात्पुष्परागस्तु
वैजयन्त्या हरेरिमे'इति । पञ्चसंख्या गन्धपुष्पधूपदीपनैवेद्याख्या उपचारा अस्याः ॥
अथ परिभाषायामवशिष्टानि पञ्चाशन्नामानि विभजते ॥ गुणगणरविं
खगेशं चतुर्हरन्तं चतुर्ददामोदम् । गुणिहृदि विभजभवाहुरुवर्गं च
नवचरणं गदन्तमिति ॥ ३२ ॥ अत्र इतिशब्दः सहस्रसंख्यासमाप्तिपरः । तदि-
तराणि नामाक्षरसंख्यापराणि । पक्षे भवात् परशिवमारभ्यागुरुवर्गं नाथसमूहं स्वगुरु-
पर्यन्तं विशिष्य भजेत्यर्थः । गुणगणैः साक्षाद्रविक्स्रूपम् । खगानां देवानामपीशं
चतुर्विधक्लेशान् जरायुजादियोनिचतुष्टयजन्यान्हरन्तम् । चतुःसंख्या दृढामोदाध्यानसुखाः
पुरुषार्था यस्मात्तम् । गुणशीले हृदि इति अनेन प्रकारेण सहस्रनामादिरूपेण गदन्त-
मुपदिशन्तम् । नवचरणशब्दो नामारम्भे व्याख्यातः ॥ ३२ ॥ शश्वत् पौनःपुन्यं
तत्संबन्धिनी पुनःपुनरभ्यस्यमानेत्यर्थः । नित्या वा । 'शाश्वतस्तु ध्रुवो नित्य' इत्यमरः ।
'तेषां सिद्धिः शाश्वती नेतरेषा' मिति श्रुतेः शाश्वतं नित्यमैश्वर्यं यस्याः । यद्वा ईकार-
प्रश्लेषेणेशाः जगदीशाः पञ्चप्रेतास्तेष्वश्वताऽश्वत्वं वाहनत्वं येन तादृशमैश्वर्यं यस्याः ।
पञ्चप्रेतासनारूढेति फलितार्थः । शर्म सुखं दत्ते शं भावयति भवते वा शंभुः ।
म्भितदृादिलाद्धःप्रत्ययः । तस्य मोहिनीति वा । शंभुं मोहयतीति वा शंभुमोहिनी
॥ २२६ ॥ धरा पृथ्वीस्वरूपा सर्वस्य जगतो धारणाद्वा । लकारस्वरूपा वा । 'लकारः
पृथिवीदेवी सशैलवनकानना । पञ्चाशतपीठसंपन्ना सर्वतीर्थमयी परे'त्यादि ज्ञानार्णवे ।
धरस्य हिमवत्पर्वतस्य सुता । धन्या कृतार्था धनाय हिता वा । धनं लक्ष्मी वा ।
'धनगर्णं लब्धे'ति यत्प्रत्ययः । 'मङ्गलापिङ्गलाधन्ये'ति ज्योतिःशास्त्रप्रसिद्धयोगिनीविशे-
षरूपा वा । यद्वा चरमकालीनाश्चिन्ता आर्त रौद्रधन्यशुक्लभेदेन चतस्रो भविष्योत्तरपुराणे
कथिता यथा 'राज्योपभोगशयनासनसाधनेषु स्त्रीगन्धमाल्यमणिवस्त्रविभूषणेषु । इच्छा-
भिलाषमतिमात्रमुदेति मोहाच्च्यानं तदार्तमिति संप्रवदन्ति तज्ज्ञाः । संच्छेद नैर्दहनताड-
१९२ ललितासहस्रनाम ।
लोकातीता गुणातीता सर्वातीता शमाश्रिता ॥ २२७ ॥
बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी ।
नपीडनैश्च गात्रप्रहारदमनैर्विनिकृन्तनैश्च । यस्येह राग उपयाति न चानुकम्पा ध्यानं तु
रौद्रमिति तस्य वदन्ति सन्तः । सूत्रार्थमार्गणमहाव्रतभावनानि निर्बन्धमोक्षगमनाग-
तिहेतुचिन्ता । पञ्चेन्द्रियाद्युपशमश्च दया च भूते ध्यानं तु धन्यमिति तत्प्रवदन्ति
सन्तः । यस्येन्द्रियाणि विषयैर्न विचार्चितानि संकल्पनाशनविकल्पविकासयोगैः ।
तत्त्वैकनिष्ठधृतियोगभृतान्तरात्मा ध्यानं तु शुक्लमिति तत्प्रवदन्ति सिद्धाः' इति । एतेषां
फलभेदोऽपि भविष्योत्तर एव 'आर्ते तिर्यगधोगतिश्च नियता ध्याने च रौद्रे सदा धन्या
देवगतिः शुभं फलमथो शुक्रे च जन्मक्षयः' । तस्माज्जन्मरुजापहे हिततरे संसारनिर्वाहके
ध्याने श्वेततरे रजःप्रमथने कुर्यात्प्रयत्नं बुध' इति । तत्र धन्याख्यध्यानरूपेति । धर्मशी-
लत्वाद्धर्मिणी । आनन्दानुभवनिलयत्वादिधर्माणां विशेष्यभूता वा । धर्मं वर्धयतीति
धर्मवर्धिनी । तदुक्तं वामनपुराणे 'जितेन्द्रियत्वं शौचं च माङ्गल्यं भक्तिरेव च ।
शंकरे भास्करे देव्यां धर्मोऽयं मानुषः स्मृतः । ध्यातः साम्ब इमान्धर्मान्नृणांर्द्धिं नयति
देहिना'मिति 'वृधु छेदने' इति धातोर्ब्रह्माधिष्ठानकं धर्ममात्रं दृश्यजातं छेदयतीति वा ।
लोकानिन्द्रलोकादिविष्णुलोकान्तानतीतातिक्रम्य महाकैलासाख्ये परशिवपुरे स्थिता ।
परशिवपुरस्य सर्वलोकातीतत्वं शिवधर्मोत्तरे अर्वाचीनाँल्लोकान्वर्णयित्वा 'ज्ञेयं विष्णुपदा-
दूर्ध्वं दिव्यं शिवपुरं महत्' इत्यारभ्य 'इत्येतदपरं तुभ्यं प्रोक्तं शिवपुरं महत् । देहिनां कर्म-
निष्ठानां पुनरावर्तनं स्मृत' मित्यन्तेन कर्मठप्राप्यं शिवपुरं वर्णयित्वा 'ऊर्ध्वं शिवपुराज्ज्ञेयं
स्थानत्रयमनुत्तमम् । नित्यं परमशुद्धं च स्कन्दोमाशंकरात्मक' मित्यारभ्य 'ये संप्राप्ताः
परस्थानं ध्यानयोगरता नराः । न तेषां पुनरावृत्तिर्घोरे संसारसागरे । सर्वज्ञाः सर्वगाः
शुद्धाः परिपूर्णा महेश्वराः । शिवतुल्यबलोपेताः परं शिवपुरं गता' इत्यन्तम् । लोकाज्जी-
वान्वाऽतीता । अतएव गुणानतीता सर्वमतीता वा सर्वान् शब्दानतीता वा ।
उक्तंच ज्ञानार्णवे 'शब्दातीतं परं ब्रह्म गणनारहितं सदा । आत्मस्वरूपं जानीही'ति ।
शमः प्रपञ्चोपशम एवात्मा स्वरूपं यस्याः । 'प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्त'इति
नृसिंहतापनीये । शं सुखमात्मा यस्या इति वा ॥ २२७ ॥ बन्धूको बन्धुजीवको
वङ्गदेशप्रसिद्धो महावृक्षस्तस्य कुसुमं पुष्पं तस्येव प्रख्या कान्तिर्यस्याः । अत्यारक्ततमा
कान्तिर्यस्या वा । बाला कुमारी । 'त्वं कुमार उत वा कुमारी'ति श्रुतेः । त्रिपुरासिद्धा-
न्तेऽपि 'बालालीलाविशिष्टत्वाद्वालेति कथिता प्रिये' इति । लीला प्रापञ्चिकी क्रीडैव
विनोदो यस्याः । पद्मराजस्य भार्या लीलाख्या योगवासिष्ठे प्रसिद्धा तां विशिष्य
सत्कर्मसु नोदयतीति वा । लीलादेव्या तपसा सरस्वती तोषिता सा तुष्टा तस्यै ज्ञानं
तद्भर्तृजीवनं च प्रादादिति कथायां विस्तरेण वर्णनात् । देवीपुराणे नामनिर्वचनाध्याये
'लक्ष्मीलालनतो लीले'ति निर्वचनदर्शनाल्लिलेत्येतावन्मात्रस्य भिन्ननामत्वं स्वीकृत्य
चतुर्थ शतक: नाम ७५१ से १०००, फलश्रुति एवं सौभाग्यभास्कर उपसंहार
- ग + ल + ी) = ङ्गली (ṅgalī)
संज्ञा (saṃjñā) ।
YES! "सुमङ्गलीसंज्ञा ।"
Because:
"शोभनं मङ्गलमस्या इति सुमङ्गलीसंज्ञा ।"
"संज्ञात्वादेव 'केवलमामके'त्यादिना ङीप् । 'सुमङ्गली संज्ञाया'मिति गौराद्यन्तर्गणसूत्रेण ङीष् वा ।"
YES! Pāṇini sutra: "सुमङ्गली संज्ञायाम्" gives ङीष्!
So it must be "सुमङ्गलीसंज्ञा ।"! Fantastic catch!
Let's check line 8:
संज्ञात्वादेव 'केवलमामके'त्यादिना ङीप् । 'सुमङ्गली संज्ञाया'मिति गौराद्यन्तर्गणसूत्रेण
Line 9:
ङीष् वा । शोभनं मङ्गलं ब्रह्मैवेति वा । तदुक्तं विष्णुपुराणे 'अशुभानि निराचष्टे तनोति
Line 10:
शुभसंततिम् । श्रुतिमात्रेण यत्पुंसां ब्रह्म तन्मङ्गलं विदु'रिति । अत्रिस्मृतौ तु 'प्रशस्ता-
Line 11:
चरणं नित्यमप्रशस्तविवर्जनम् । एतद्धि मङ्गलं प्रोक्तमृषिभिर्ब्रह्मवादि
१९४ ललितासहस्रनाम ।
अनघाद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ॥ २३१ ॥
अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ।
अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ॥ २३२ ॥
वा । त्रयो गुणा यस्यां सा त्रिगुणा । सत्वरजस्तमसामाश्रयत्वेन सांख्यसंमता प्रकृति-
रिति यावत् । तदुक्तं वायुपुराणे ‘योगेश्वरी शरीराणि करोति विकरोति च । नानाकृति-
क्रियारूपनामवृत्तिः स्वलीलया । त्रिधा यद्वर्तते लोके तस्मात्सा त्रिगुणोच्यत’ इति ।
विष्णुपुराणेऽपि ‘सर्वभूतेषु सर्वात्मन्या शक्तिरपरा तव । गुणाश्रया नमस्तस्यै शाश्वतायै
सुरेश्वरी’ति । देवीपुराणे तु त्रिविक्रमत्रिपथगात्रिगुणापदानां पर्यायता ध्वनिता । यदुक्तम्
‘पदैस्त्रिभिर्बलिर्बद्धः स्वर्गादित्रिपथान्गता । उत्पत्तिस्थितिनाशाैश्च सत्त्वाद्यैस्त्रिगुणोच्यत’
इति । अम्बा ईदृशस्य गुणत्रयस्यापि माता
सौभाग्यभास्करव्याख्या । १९५
आबालगोपविदिता सर्वानुल्लङ्घ्यशासना ।
श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ॥ २३३ ॥
श्रीशिवाशिवशक्त्यैक्यरूपिणी ललिताम्बिका ॥
भगवद्वचनात् ॥ २३२ ॥ बालानन्ध्रादिकान्गोपयतीति बालगोपः । बालश्चासौ गोपश्च
बालगोपः । बालगोपश्च बालगोपश्च बालगोपौ तावभिव्याप्य आबालगोपं तादृशेन
विदितं ज्ञानं यस्याः सा । अत्रैको बालगोपशब्दः सदाशिवपरः कृष्णावतारपरो वा ।
अन्यः पामरोपलक्षणम् । हरिहरादिपामरान्ता यां जानन्तीत्यर्थः । उक्तं च स्कान्दे
‘तमहं प्रत्ययव्याप्तात्सर्वै जानन्ति जन्तव’ इति । नन्वेवं सति ‘अतिपरिचयादवज्ञे’ति
न्यायात्सर्वेषामनादरणीया स्यादत आह । सर्वैर्ब्रह्मविष्णुशिवादिभिरप्युल्लङ्घितुमतिवर्तितुम-
योग्यमशक्यं च शासनं यस्याः । तदुक्तमाचार्यभगवत्पादैः ‘जगत्सूते धाता हरिरवति
रुद्रः क्षपयति तिरस्कुर्वन्नेतत्त्वमपि वपुरीशस्तिरयति । सदा पूर्णः सर्वं तदिदमनुगृह्णाति
च शिवस्तवाज्ञामलम्ब्य क्षणचलितयोर्भ्रूलतिकयो’रिति । श्रीचक्रराजं बिन्दुत्रिकोणादि-
रूपं निलयो वासस्थानं यस्याः । तदुक्तं ‘श्रीचक्रं शिवयोर्वपु’रिति । शरीरे यथा जीवस्याव-
स्थानं तथा श्रीचक्रे शिवयोरिति तदर्थः । त्रिपुरस्य परशिवस्य सुन्दरी भार्या । श्रीमती
च सा त्रिपुरसुन्दरी चेति तथा । अत्र त्रीणि पुराणि ब्रह्मविष्णुशिवशरीराणि यस्मिन्सः
त्रिपुरः परशिवः । तदुक्तं कालिकापुराणे ‘प्रधानेच्छावशाच्छंभोः शरीरमभवत्त्रिधा ।
तत्रोर्ध्वभागः संजातः पञ्चवक्त्रश्चतुर्भुजः । पद्मकेसरगौराङ्गः कायो ब्राह्मो महेश्वरे ।
तन्मध्यभागो नीलाङ्ग एकवक्त्रश्चतुर्भुजः । शङ्खचक्रगदापद्मपाणिः कायः स वैष्णवः ।
अभवत्तदधोभागे पञ्चवक्त्रश्चतुर्भुजः । स्फटिकाभ्रमयः शुक्लः स कायश्चान्द्रशेखरः । एवं
त्रिभिः पुरैर्योगात्त्रिपुरः परमः शिव’ इति ॥२३३॥ ( श्रीशिवेत्यादिरर्धश्लोक एवायम् )
श्रीयुक्ता शिवा श्रीशिवा । शिवशक्त्योरैक्यं सामरस्यमेव रूपमस्याः । उक्तं च वायुसंहिता-
याम् ‘शिवेच्छया परा शक्तिः शिवतत्त्वैकतां गता । ततः परिस्फुरत्यादौ सर्गे तैलं तिला-
दिवे’ति । अत्र सामरस्यं समरसता परमं साम्यमत्यन्ताभेद एव । तथाचोक्तं सौरसंहि-
तायाम् ‘ब्रह्मणोऽभिन्नशक्तिस्तु ब्रह्मैव खलु नापरा । तथासति वृथा प्रोक्तं शक्तिरित्य-
विवेकिभिः । शक्तिशक्तिमतोर्विद्वन्भेदाभेदस्तु दुर्घट’इति । वासिष्ठरामायणेऽपि ‘यथैकं
पवनस्पन्दमेकमौष्ण्यानलौ यथा । चिन्मात्रं स्पन्दशक्तिश्च तथैवैकात्म सर्वदे’ति । शिव-
चक्राणां शक्तिचक्राणां चैक्यं रूपमस्या वा । तदुक्तं ब्रह्माण्डपुराणे ‘त्रिकोणे बैन्दवं
श्लिष्टमष्टारेऽष्टदलाम्बुज’ मित्यारभ्य ‘शैवानां चैव शाक्तानां चक्राणां
१९६ ललितासहस्रनाम ।
परिभाषाशेषः—
श्रीमणिसह्रींविविधगुदरांदैश्र्च पुष्टनादाभ्याम् ।
मस्याः । ताश्चोक्ता विरूपाक्षपञ्चाशिकायाम् 'धूमावती तिरोधौ भास्वत्यवभासनेऽध्वनां
शक्तिः । क्षोभे स्पन्दा व्याप्तौ विब्वी ह्लादा तु पुष्टौ मे । धूमावती पृथिव्यां ह्लादाप्सु
शुचौ तु भास्वती प्रथते । वायौ स्पन्दा विब्वी नभसि व्याप्तं जगत्ताभि'रिति । एवमि-
यति प्रबन्धे प्राथमिकेन नामत्रयेण जगतः सृष्टिस्थितिलयकर्तृत्वेन देवतां लक्षयित्वा
तिरोधानानुग्रहयोरनन्तविषयत्वाच्चिदग्निकुण्डसंभूतेत्यारभ्यतावत्पर्यन्तं तयोरेव विषयं
प्रपञ्च्येदानीं पञ्चकृत्यकर्त्रीं देवतामसाधारणेन विशेष्यभूतेन नाम्ना निर्दिशति—ललिता-
म्बिकेति । ललतेऽसौ ललिता ललिता च साम्बिका च ललिताम्बिकेति विग्रहः ।
[L
सौभाग्यभास्करव्याख्या । १९७
नामसु शतकारम्भा न स्तोभो नापि शब्दपुनरुक्तिः ॥ ३३ ॥
मतिवरदाकान्तादावकारयोगेन रक्तवर्णादौ ।
आकारस्य क्वचन तु पदयोर्योगेन भेदयेन्नाम ॥ ३४ ॥
९, नादरूपिणी १०, एवं दश नामानि प्रथमादिशतकारम्भकाणि । अत्र श्रीमण्यादि-
शब्दानां श्रीकण्ठार्धशरीरिणी मणिपूराब्जनिलयेत्यादावतिप्रसक्तत्वेऽपि गणनासाचिव्ये-
नैव भ्रमो निरस्तव्यः । गणनोत्तरं हि शतकप्रत्यासन्ननामस्वेव हि संशयो भवति
क्वचित् । क्वचित्पदच्छेदसंशयप्रयुक्तोऽनविप्रकृष्टनामसु । अतएव हीं इति सबिन्दुकग्रहणं
हीमतीति तत्समीपवर्तिनामनिरासाय । दरामित्युक्तिः 'दरहासोज्ज्वलन्मुखी'त्यस्य
व्यावर्तनायेति ज्ञेयम् । यत्तु केचित् 'श्रीमाता मणिपूरान्तरुदिता सद्गतिप्रदा । हींकारी
विविधाकारा गुडान्नप्रीतमानसा । दरान्दोलितदीर्घाक्षी सावित्री रसशेवधिः । विज्ञान-
कलिका चेति पदान्येतान्यसंशयम् । शतकाद्यानि नामानीत्यवधार्याणि सूरिभि'रिति
ललितोपाख्यानस्थं वचनमिति लिखन्ति, तस्य प्रामाणिकत्वेऽप्युपायसंग्रहमात्रतात्पर्यक-
त्वेनोपायान्तरादूषकत्वेन तन्नेयम् । निरर्थकः शब्दः स्तोभः । सच सहस्रनामान्तरेषु
पादपूरणैकप्रयोजनको यथोपलभ्यते नात्र तथेत्यर्थः । नापि शब्देति । अर्थतस्तु यद्यपि
पुनरुक्तिः 'अम्बा माताथ जननी देवेशी सुरनायिके' त्यादौ दृश्यते तथापि नासौ
सहस्रनामसंख्याविघातिका । नामशब्दस्य प्रतिपादकमात्रे शक्तेस्तद्भेदमात्रेण पृथक्त्व-
निवेशिलस्वाभाव्यायाः संख्याया अनुपरोधात् ॥ ३३ ॥ ननु शाब्दतोऽपि पुनरुक्तिरुप-
लभ्यत एवेत्याशङ्क्य परिहरति 'तुष्टिः पुष्टिर्मतिर्धृति'रित्यनेन पौनरुक्त्यपरिहाराय
'स्वाहा स्वधाऽमतिर्मेधे' त्यत्राकारस्य योगेन प्रश्लेषेणामतिरिति पदच्छेदः कर्तव्यः ।
'सदसत्क्षरमक्षर'मित्यादौ विष्णुसहस्रनामसु 'मूर्तामूर्ते'ति प्रकृतनामस्वपि तस्य न्यायस्य
क्लृप्तत्वात् । नहि संनिकृष्टपदद्वय एव तथा नियम इत्यत्र प्रमाणमस्ति । पौनरुक्त्यपरि-
हाराकाङ्क्षाया अविशेषादिति भावः । एवं 'वरदा वामनयने'त्यनेन पौनरुक्त्याभावाय
'विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी'त्यत्रावरदेति छेदः । 'कलावती कलालापा
कान्ता कादम्बरीप्रिया । कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहे'त्यनयोरन्यतरस्मि-
न्कान्तापदेऽकारप्रश्लेषः । आदिपदेन नित्यतृप्तादेः परिग्रहः । 'नित्यतृप्ता भक्तनिधिः'
'मूर्तामूर्ता नित्यतृप्ते'त्यत्र तदावश्यकत्वात् । 'रक्तवर्णा मांसनिष्ठे'त्यनेन पौनरुक्त्यात्
'विशुद्धचक्रनिलयाऽरक्तवर्णा त्रिलोचने' त्यत्राप्यनेन न्यायेनाकारप्रश्लेषे प्राप्तेऽर्थानुगु-
ण्याय दीर्घाकारः प्रश्लेषणीय इत्याह—रक्तवर्णादावाकारस्येति । आदिना 'सुमुखी
नलिनी सुभ्रूः शोभना सुरनायिका । सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसे'त्यनयोः
शोभना आशोभनेति पदयोः परिग्रहः । ननु तथापि 'सुखाराध्या शुभकरी शोभना
सुलभा गति'रित्यत्र तृतीयवारं श्रुतस्य शोभनपदस्य का गतिरित्याशङ्क्याह—क्वच-
नेति । पदयोर्भिन्नत्वेन वर्णयितुं शक्ययोरपि व्यायोगेन समासव्यासान्यतररूपेण नाम
१९८ ललितसहस्रनाम ।
साध्वी तत्त्वमयीति द्वेधा त्रेधा बुधो भिद्यात् ।
हंसवती चानर्घ्येत्यार्धान्तादेकनामैव ॥ ३५ ॥
शक्तिर्निष्ठाधामज्योतिःपरपूर्वकं द्विपदम् ।
शोभनसुलभासुगतिस्त्रिपदैकपदानि शेषाणि ॥ ३६ ॥
भेदयेदित्यन्वयः । 'शोभनासुलभागति'रिति पदत्रयस्यैकनामत्वम् । एवं 'कौलिनीके-
वला, अजाजेत्री' त्यादौ समासरूपो योगो द्रष्टव्यः । पदद्वयस्याप्येकनामत्वम् 'विश्वे-
देवाः अहिर्बुध्न्यः निधिर्धव्य' इत्यादौ दृष्टमिति भावः ॥ ३४ ॥ पौनरुक्त्यपरिहारार्यो-
पायान्तरमाह । 'शांकरी श्रीकरी साध्वीत्यनेन' पौनरुक्त्यपरिहाराय 'संप्रदायेश्वरी
साध्वी'त्यत्र साधु ई इति द्वेधा पदभेदः । 'तत्त्वाधिका तत्त्वमयी'त्यनेन तत्परिहाराय
'तत्त्वासना तत्त्वमयी'त्यत्र तत् त्वं अयीति त्रेधा पदच्छेदः । पौनरुक्त्याभावेऽपि पद-
भेदभ्रमनिरासायाह—हंसेति । आ अर्धान्तात् अर्धसमाप्तिपर्यन्तं हंसवती मुख्यश-
क्तिसमन्वितेत्येकं पदम् । 'अनर्घ्या कैवल्यपददायिनी' त्यत्र तु 'क्लींकारी केवला गुह्या
कैवल्यपददायिनी'त्यनेन पौनरुत्त्यपरिहारोऽपि फलम् । एतेन छलाक्षरसूत्राणां न्याय-
मूलकलमेवेति प्रबलन्यायेन क्वचित्तदुक्तनियमान्यथात्वेऽपि न दोष इति सूचितम् ।
अतएव सामवेदिभिर्निदानसूत्रान्तर्गतच्छन्दोविचितिभाष्ये न्यायविरोधे छलाक्षरपाठो-
ऽनादरणीय इत्युक्तं रथंतरसामप्रकरणे । यत्र तु कान्तापदे अकारयोगे विनिगमनाविरहः,
यथा वा 'कैवल्यपददायिनी'त्यत्र पदान्तरयोगे सत्रन्यायतो विकल्पप्रसक्तावपि छलाक्षर-
सूत्रप्रामाण्यात् 'कल्पनारहिता काष्ठे' त्यत्रेवाऽकान्तेति पदच्छेदः । 'कौलिनी केवले'
त्यत्रेवानर्घ्यपदस्योत्तरप्रयोग इति स्वीकर्तुं युक्तम् । अव्यवस्थितशास्त्रार्थायोगादिति
द्रष्टव्यम् ॥ ३५ ॥ अनेकपदानि नामानि संगृह्णाति । शक्त्यादिपदचतुष्टयात्पूर्वं तद्विशे-
षणत्वेन परपदत्वेन पठ्यते । तेन सह द्विपदानि तानि नामानि 'पराशक्तिः परा-
निष्ठा' 'परंज्योतिः परंधामे'ति । 'कौलिनीकेवले'त्यादौ 'अजाजेत्री'तिवत्समाससंभवान्न
तत्र पदद्वयावश्यकतेति भावः । 'शोभना सुलभा गति' रित्यत्र तु त्रिपदं नाम । शेषा-
ण्येकपदानि समानाधिकरणानकविभक्तिरहितानीत्यर्थः । तेन 'अश्वारूढाधिष्ठिताश्वको-
टिकोटिभिरावृता' । 'मनोवाचामगोचरे'त्यादौ व्यधिकरणविभक्तिद्वयसत्वेऽपि तयोर्नाम-
भेदभ्रमानाधायकत्वेन द्विपदेषु तदाधायकानामेव गणनाद्वा न दोषः । 'पराशक्तिरि-
त्यत्र 'शोभनासुलभागति'रित्यत्र चैकैकं पदमित्येव सुवचमिति तु पूर्वमेवोक्तम् । ननु
'परंज्योति'रिति वाक्ये प्रातिपदिकसंज्ञाभावेन कथं नामत्वम् । नच 'प्रजापतेर्हृदयं' 'पारे-
गङ्गम्' 'मध्येमहाभारतं' मित्यादेरिवैकपदत्वम् । तेषु प्रथमपदान्ते विभक्तिस्वरूपवर्ण-
मात्रसत्वेन विभक्त्यन्तराभावात् । नच 'परंज्योति'रित्यादौ तथा संभवति ।
विशेष्योत्तरविभक्त्यन्यथाभावप्रयुक्तान्यथाभावकविभक्तिक(विभक्त)विशेषणपदकलात् ।
नीलमुत्पलमित्यादौ तथात्वे वाक्यलस्यैव स्वीकारात् । अतएव 'अहयेबुध्न्यायस्वाहा'
सौभाग्यभास्करव्याख्या । १९९
निधिरात्मा दंभोलिः शेवधिरिति नाम पुंलिङ्गम् ।
तद्ब्रह्मधाम साधुज्योतिः क्लीवेऽन्ययं स्वधा स्वाहा ॥ ३७ ॥
आविंशतितः सार्द्धानाफलसाधनत्वोक्तिः ।
तस्य क्रमशो विवृतिः षट्चत्वारिंशता श्लोकैः ॥ ३८ ॥
‘अहेबुध्न्य मन्त्रं मे गोपाय’ इत्यादौ पदद्वयेऽपि विभक्तिन्यास इति चेन्न । पारिभाषिक-
प्रातिपदिकसंज्ञाया अभावेऽपि संभूयैकव्यक्तिविशेष्यकबोधजनकपद्व्यरूपस्य नाम-
त्वस्यैव सहस्रनामसंख्याघटकत्वेनादोषात् । वस्तुतस्तु ज्योतिःपदस्य प्रातिपदिकत्वात्त-
मादायैव संख्यापूर्तिः । परंतु ‘इङ् अध्ययन’ इति धातोरधिपूर्वस्यैव प्रयोग इति निय-
मवत् ज्योतिरादीनामिह सविशेषणानामेव प्रयोग इत्याम्नानबलान्नियमः कल्प्यते ।
तथा नियमेऽपि धातुलक्ष्येङ्मात्र इव नामलक्ष्य ज्योतिःपदमात्रे पर्याप्तिः । ‘अग्निं
पवमानमावहा’ ‘अग्नये पवमानायेद’मित्यादि नैगमिकप्रयोगवदिहापि ‘परंज्योतिस्त-
र्पयामि परस्मैंज्योतिषे स्वाहे’त्याद्यस्तर्पणहोमादौ प्रयोगनियमः । परमिति तु मान्तम-
व्ययमिति केचित् । तत्पक्षे तु न मध्ये चतुर्थी । कौलिनीकेवलेति विशेष्यविशेषण-
भावापन्नपदद्वयपक्षेऽपि केवलैत्यस्य यथा न्यासं कौलिन्यैकेवलायै नम इत्यादिप्रयोगो न
केवलायै कौलिन्या इत्यादिः । आम्नानवैपरीत्ये मानाभावात् । एतेन विष्णुसहस्रनामसु
‘अनादिर्भूर्भुवो लक्ष्मी’ रित्यत्र भूर्भुवरित्यस्य भुवोभूरित्यन्वयेन भूमेर्जनक इत्यर्थकैकनाम-
त्वपक्षे भूर्भुवेनम इति वा भुवोभुवेनम इति वा मन्त्रप्रयोगः परास्तः । न्यायेन भुवेभुवोनम
इत्यस्यैव युक्तत्वादित्यादिकमूह्यम् ॥ ३६ ॥ प्रसङ्गाल्लिङ्गभेदेन नामानि विभज्य
दर्शयति । ‘गुणनिधिः’ ‘आत्मा’ ‘रोगपर्वतदम्भोलिः’ ‘महालावण्यशेवधि’ रिति
नामानि पुंलिङ्गानि । तेन गुणनिध्यै इत्यादिः पाक्षिकः प्रयोगो न कार्यः । एवं मन्त्रार्था-
नुसंधानेऽपि फलभेदः । तदित्यादिपञ्च नामानि नपुंसकानि । शेषाणि स्त्रीलिङ्गानीति
शेषः । त्वमिति पदमपि स्त्रीलिङ्गमेव । ‘अलिङ्गे युष्मदस्मदी’ इत्यस्य लिङ्गकृतवैरूप्या-
भावमात्रपरत्वात् । ‘युष्मदस्मत्पदसंज्ञाकास्त्रिषु सरूपा’ इति वचनान्तरानुगुण्यात् ।
स्वधास्वाहेत्यनयोरव्ययत्वात्स्वधानम इत्यादिरव प्रयोगः । स्वान्तत्ते इत्यादिरूपेऽर्थे तु
स्वधायै नम इत्यादिरेव प्रयोगः सुवच इत्युक्तम् ॥ ३७ ॥ इति भास्कररायेण कृते
सौभाग्यभास्करे । दशमेन शतेनाभूद्वारिण्येकादशी कला ॥ १००० ॥
इति श्रीभास्कररायविरचिते ललितासहस्रभाष्ये दशमशतकं
नामैकादशी कला ॥ ११ ॥
अथ फलश्रुतिश्लोकानामर्थं संगृह्णाति परिभाषाकारः । सार्ध-
षडशीतिश्लोकात्मकस्योत्तरभागस्य मध्ये प्रथमतः सार्धैर्विंशतिभिः श्लोकैः सहस्र-
नामकीर्तनस्य बहुविधफलसाधनत्वं प्रतिपाद्यते । एवं फलभेदेन कीर्तनकरणकभावनाया
भेदादितिकर्तव्यताभेद उत्तरत्र षट्चत्वारिंशता श्लोकैः प्रतिपाद्यते । ‘सर्वरोगप्रशमन’-
२०० ललितासहस्रनाम ।
इत्येवं नाम साहस्रं कथितं ते घटोद्भव ॥ २३४ ॥
रहस्यानां रहस्यं च ललिताप्रीतिदायकम् ।
अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ॥ २३५ ॥
सर्वरोगप्रशमनं सर्वसंपत्प्रवर्धनम् ।
सर्वापमृत्युशमनं कालमृत्युनिवारणम् ॥ २३६ ॥
मित्यादिना रोगनिरासादीनि फलानि येन क्रमेण पूर्वं प्रतिपादितानि तेनैव क्रमेणोत्तरत्र
तत्तत्फलकाः प्रयोगा वक्ष्यन्त इत्यर्थः । यत्तु पूर्वं 'श्रीमातुः प्रीतये तस्मादनिशं कीर्तये-
दिद'मित्यत्र प्रीतिरेव भाव्यत्वेनोक्ता साच विविधफलजननद्वारत्वेन पूर्वतन्त्रे पूर्वस्ये-
वास्य तन्त्रे देवताप्रीतेरेव द्वारत्वकल्पनसंभवात् । अस्तु वा स्वातन्त्र्येण प्रीतेरपि
फलत्वमित्याशयः ॥ ३८ ॥ एवं प्रीतिफलककीर्तनोपयोगि नामसहस्रं प्रतिपाद्य तदुपसं-
सौभाग्यभास्करव्याख्या । २०१
सर्वज्वरार्तिशमनं दीर्घायुष्यप्रदायकम् ।
पुत्रप्रदमपुत्राणां पुरुषार्थप्रदायकम् ॥ २३७ ॥
इदं विशेषाच्छ्रीदेव्याः स्तोत्रं प्रीतिविधायकम् ।
परिसमाप्तौ । तेनापमृत्यूनामायुर्मध्य एव प्रसक्तिः । वर्तितैलादिसाचिव्येऽपि चण्डवा-
तादिकृतदीपनाशवदिति सूचितम् ॥ २३६ ॥ सर्वे ज्वरा ऐकाहिकादिसान्निपातिकान्ताः ।
आर्तिस्तत्प्रयुक्ता शिरस्तोदादिरूपा पीडा तेषां शमनं नाशकम् । अथवा सर्वेषां ये रोगा
इत्यादिर्रीत्या पदचतुष्टयं व्याख्येयम् । तेन जातेष्ट्यादिवत्फलसाधनयोर्वैयधिकरण्यमपि
सिद्ध्यति । ततश्चान्यनिष्ठफलोद्देशेनान्यस्यापि साधने प्रवृत्तिरिह युक्तेति मन्तव्यम् ।
रोगैरेव सिद्धे ज्वरात्योः पार्थक्येन ग्रहणं गोबलीवर्दन्यायेन । यद्वा वक्ष्यमाणकाम्यप्रयो-
गानुसारेण पार्थक्यम् । तत्र रोगशान्त्यादिचतुरवयवैकफलकप्रयोगकथनोत्तरं तत्तद्वय-
वमात्रफलकानां प्रयोगाणां वक्ष्यमाणत्वात् । अतएव दीर्घायुष्यपदस्याप्ययमर्थः
सिद्ध्यति । दीर्घं पूर्णं यत् आयुषो भाव आयुष्यं दीर्घायुष्ट्वं शतमानत्वं तस्य प्रदायकं
तद्विघातकग्रहविषादिबाधानिरासकमिति । यद्वा आयुरेवायुष्यं दीर्घशतमानादधिकमा-
युष्यं येभ्यस्तेषां गुटिकौषधियोगसिद्ध्य्वादीनां प्रदायकं तत्प्राप्तिकरापूर्वसंपादकमिति ।
तेन न कालमृत्युনিবারणेन गतार्थता । अपुत्राणां पुत्रकामवद्द्वानाम् । सपुत्राणां सिद्धे
इच्छाविरहादपुत्रेष्वेव प्रायः पुत्रकामनादर्शनात्तथोक्तम् । अतएवैकपुत्रामृतप्रजादीनां
वन्ध्यास्वेव गणना स्मृतिषु । तेन सपुत्राणामपि पुत्रान्तरेच्छायामत्राधिकारः । अपुत्रा-
णामपि पुत्रकामाभावे पुत्रकामप्रयोगे नाधिकार इति सिद्ध्यति । तेन च तत्तत्कामना-
यास्तत्तत्फलप्रयोगाधिकारितावच्छेदकत्वं सूचितम् । नचानेकफलविषयकसमूहालम्बना-
त्मककामनावतः सर्वप्रयोगेष्वधिकारात्तेन कः प्रयोगः प्रथमोऽनुष्ठेय इत्यत्र विनिगम-
नाविरह इति वाच्यम् । तन्त्रेण सर्वफलप्रदस्यैकस्यैव प्रयोगस्यानुष्ठातुं शक्यत्वात् ।
नचैवं सति 'तत्र सर्वेऽविशेषा'दिति चातुर्थिकाधिकरणविरोधः । तत्र हि सर्वकामप्र-
ददर्शपूर्णमासज्योतिष्टोमादेः सकृदनुष्ठानेनैकमेव फलं भवतीति सिद्धान्तितत्वादिति
वाच्यम् । अल्पप्रदकर्मस्वेव तदधिकरणन्यायानां व्यवस्थितत्वात् । देवताप्रीतेस्तु
लोकविलक्षणत्वात् । अतएवोक्तं 'लोकातीता गुणातीता सर्वातीता शमात्मिके'ति ।
कर्मखपीढशन्यायस्यर्थ्यन्तरैरङ्गीकाराच्च । यदुक्तं हिरण्यकेशिसूत्रे 'एकप्रयोगे सर्वान्कामा-
न्कामयीत प्रयोगपृथक्त्वे चैकैक'मिति । वैषयिककामनासामान्याभाववतोऽप्यत्राधिकार
इत्याह—पुरुषार्थेति । पुरुषैर्बुद्धिमद्भिरर्थ्यत इति पुरुषार्थो मोक्षः । निष्कामोऽपि
मोक्षफलकप्रयोगेऽधिक्रियत इति भावः । वस्तुतश्चतुर्वर्गप्रदायकमित्येवार्थः । संकोचे
मानाभावात् । उक्तंच पद्मपुराणे पुष्करखण्डे आह्निकप्रकरणे 'अतःपरं च देवानामर्र्चनं
कारयेद्बुधः । गणेशं पूजयेद्यस्तु विघ्नस्तस्य न बाधते । आरोग्यार्थेऽर्चयेत्सूर्यं धर्ममोक्षाय
माधवम् । शिवं धर्मार्थमोक्षाय चतुर्वर्गाय चण्डिका' मिति ॥ २३७ ॥ ननु बहुफलप्रदत्वे
२०२ ललितासहस्रनाम ।
जपेन्नित्यं प्रयत्नेन ललितोपास्तितत्परः ॥ २३८ ॥
प्रातः स्नात्वा विधानेन संध्याकर्म समाप्य च ।
पूजागृहं ततो गत्वा चक्रराजं समर्चयेत् ॥ २३९ ॥
विद्यां जपेत्सहस्रं वा त्रिशतं शतमेव वा ।
रहस्यनामसाहस्रमिदं पश्चात्पठेन्नरः ॥ २४० ॥
जन्ममध्ये सकृच्चापि य एवं पठते सुधीः ।
सत्यल्पायाससाध्यत्वं सहस्रनामनवकेऽस्त्येव ललिताप्रीतिप्रदत्वमपि गङ्गाश्यामलादिप्री-
तिजननद्वारा तत्रास्त्येव । पञ्चमीस्तवराजादिललितैकविषयकस्तोत्रान्तरेषु त्वव्याहतं
ललिताप्रीतिकरत्वमित्याशङ्कामपाकुर्वन्क्रमप्राप्तं प्रीतिप्रदत्वं विवेचयति—इदमिति ।
इतरस्तोत्रपठनजन्यप्रीतिमपेक्ष्यैतज्जन्या प्रीतिर्विशिष्टेत्यर्थः । तेन प्रीतिविशेषजनकत्वे
सति रहस्यतमत्वमिहैवेति भावः । एतेनाग्निहोत्रदर्शपूर्णमासज्योतिष्टोमविश्वजिदादिकर्म-
णामायासातारतम्यसाध्यानामेकजातीयस्वर्गफलकत्वायोगेन स्वर्गेषु तरतमभावकल्पनेति
पूर्वतन्त्रसिद्धन्यायादेव देवताप्रीतावपि बहुभिः स्तोत्रैः प्रातिस्विकजनितायां तारतम्यसि-
द्धेर्विशेषादित्युक्तौ को विशेष इति परास्तम् । इतोऽप्यधिकायाससाध्यकर्मान्तरजनितायां
देवताप्रीतावपि तेन न्यायेनेतोऽपि प्रीत्याधिक्यप्राप्तौ तन्माप्रसाङ्क्षीदित्याशयेन विशेष-
पदोपादानस्य सार्थक्यात् । अतएव च रहस्यतमत्वमप्युपपद्यते । तस्मात्प्रकृष्टेनापि
यत्नेन ललितोपासको यावज्जीवमिदं जपेदित्यर्थः ॥ २३८ ॥ जपकाले विधिमाह
द्वाभ्यां—प्रातरित्यादिभ्याम् । विधानेन वैदिकतान्त्रिकोभयप्रकारेण । काकाक्षिन्या-
येनास्य स्नानसंध्ययोरन्वयः । पूजागृहगमनं द्वारपूजाद्युपलक्षणम् । चक्रराजं श्रीचक्रम् ।
समर्चयेदिति स्वार्थे णिच् । अशक्तौ प्रयोजककर्तृपरो वा ॥ २३९ ॥ विद्यां पञ्चदशीं
षोडशीं वा । नतु श्रीदेवत्यमन्त्रसामान्यम् । सहस्रं वेत्यादिष्वष्टोत्तरशतमिति शेषः । त्रिशतं
शतत्रयं नतु व्युत्तरशतम् । नायं तुल्यबलो विकल्पः किंतु पूर्वांसंभवे परोऽनुकल्प इति
द्योतयितुमेवकारः । पश्चात् विद्याजपपुष्पाञ्जलिदानयोर्मध्ये । अतएव जप्त्वा पुष्पाञ्जलिं
दद्यादिति कथितं तयोः पौर्वापर्यं नाव्यवहितम्, किंतु सहस्रनामपाठेन व्यवहितमेव ।
वेदवेदिकरणयोरिव श्रुताचमनेन वेदाध्ययनस्नानयोरिव च मीमांसाध्ययनेनेति भावः ।
अत्र प्रातः स्नात्वेत्यादिः सर्वोऽपि विध्यन्तरप्राप्तानुवादः । सहस्रनामपाठे कालमात्रं तु
विधेयम् । अतएव जपपाठयोर्न परस्परमङ्गाङ्गिभावोऽपि । द्वयोरपि प्रातिस्विकविधिभ्यां
फलवत्तया सहस्रनामकीर्तनस्यापि विध्यन्तरेणैव फलार्थतयाऽवगतत्वेन ‘दर्शपूर्णमा-
साभ्यामिष्ट्वा सोमेन यजेते’त्यादाविव कालार्थस्यैव संयोगस्य निर्णयात् । स्नानादिप्रधान-
पञ्चकस्य क्रम एव वा विततिरूपो विधेयः । तेनान्यतमप्रधानाकरणेऽपि ‘अनपायो हि
कालस्ये’ति न्यायेनावैगुण्यात्फलानुत्पत्तिरपास्ता ॥ २४० ॥ प्रीतिविशेषस्येतरव्यावृत्त-
स्योक्तं भाव्यत्वं विशेषाज्ञानादनवगतप्रायमेवेत्यतो विशेषपदवाच्यं परिमाणमाह सार्धैरे-
कादशभिः—जन्ममध्य इत्यादिभिः । उक्तप्रकारेण जन्ममध्ये सकृत्पठितनामसह-
सौभाग्यभास्करव्याख्या । २०३
तस्य पुण्यफलं वक्ष्ये शृणु त्वं कुम्भसंभव ॥ २४१ ॥
गङ्गादिसर्वतीर्थेषु यः स्नायात्कोटिजन्मसु ।
कोटिलिङ्गप्रतिष्ठां तु यः कुर्यादविमुक्तके ॥ २४२ ॥
कुरुक्षेत्रे तु यो दद्यात्कोटिवारं रविग्रहे ।
स्नान्तर्गतस्यैकैकस्य नाम्नः कीर्तनादयं वक्ष्यमाणः पुण्यराशिः स पुनः सहस्रगुणितश्चेत्स-
कृतस्तोत्रपाठस्य फलम् । यावज्जीवं क्रियमाणस्य स्तोत्रपाठस्य यावत्य आवृत्तयः संभवेयु-
स्तावद्वारं तत्फलं गुणयित्वा तज्जनिकाया देवताप्रीतेः परिमाणं बुद्धिमद्भिरूहनीयमिति
समुदायार्थनिष्कर्षः । वक्ष्यमाणार्थस्य दुरूहत्वादेव वक्ष्य इति प्रतिज्ञापूर्वकं शृण्विति
शिष्यस्य सावधानतासंपादनम् ॥ २४१ ॥ गङ्गादीत्यादिपदेन पुष्करादेः परिग्रहः ।
'पुष्कराद्यानि तीर्थानी'त्यादौ पुष्करस्यैव सर्वतीर्थादित्वेन प्रसिद्धावपि ततोऽप्यादित्वेन
गङ्गाया ग्रहणं तस्यास्त्रिलोकगामित्वेन गङ्गापदादुपस्थितौ तत्तल्लोकगततीर्थानामपि
सर्वपदेन संग्रहार्थम् । अतएव गङ्गापदं भविष्योत्तरपुराणे तथैव निरूप्यते 'यस्माद्भगीरथो
देवि खर्गाङ्गां लामिहानयत् । अतस्त्वं मुनिभिः सर्वैर्गङ्गेति परिकीर्त्यस'इति । तीर्थान्तर-
ग्रहणे तु भूलोकगतान्येव सर्वतीर्थानि भासेरन् । अत्र प्रतिदिनं श्रद्धया परया सहस्रप-
रिवत्सरानित्येतत्पदचतुष्टयमुत्तरत्र पठ्यमानं पूर्वत्र सर्वत्रान्वेतव्यम् । कोटिजन्मस्विति
तूत्तरत्र सर्वत्रापि । एवं त्रैलोक्यान्तर्गतानां निखिलतीर्थानां मध्ये एकस्मिंस्तीर्थे प्रतिदिनं
विधिना परया श्रद्धया स्नानेन सहस्रपरिवत्सरपूर्तीरीदृशमेकं जन्म तादृशकोटिजन्मपर्य-
न्तमेकतीर्थस्नानजनितं पुण्यम् । तथैव सर्वतीर्थस्नानजनितपुण्यानीत्येषां राशिरेकः ।
'एकस्मिन्स्थापिते लिङ्गे विश्वं संस्थापितं भवे'दित्यादिभिर्वचनैरितरदेवप्रतिष्ठामपेक्ष्य
शिवप्रतिष्ठाया आधिक्यं मन्वानं आह—लिङ्गेति । काश्यां तावत्काशीवाराणस्यवि-
मुक्तमन्तर्गृहं चेति चत्वारि स्थानानि बृहज्जाबालादावाम्नातानि । तेषु पूर्वपूर्वस्योत्तरोत्तरं
व्याप्य पञ्चक्रोशवत् उत्तरोत्तरं पुण्यवच्च । तेष्वन्तर्गृहमतीवोत्तमम् । तद्धि परमशिवस्य
शरीरमेव । शरीरशरीरिणोश्चाभेदान्नित्यत्वाच्च 'अविशब्देन पापानि कथ्यन्ते द्विजसत्तम ।
तैर्मुक्तं न मया व्यक्तमविमुक्तमतः स्मृत'मिति लिङ्गपुराणोक्तस्य द्विविधस्यापि निर्वचन-
स्यान्तर्गृह एव मुख्यतयोपपत्तावपि तद्व्यापकस्थानविशेषनिरूढलक्षणया प्रयोगबाहुल्या-
त्पण्डितपामरसाधारण्येनान्तर्गृहस्य मुख्यमविमुक्तत्वमिति ज्ञानाभावादज्ञातं सदविमुक्त-
मन्तर्गृहमेवेति ज्ञापयन्नाह—अविमुक्तके इति । अज्ञातार्थे कप्रत्ययः । अन्तर्गृह
इत्यर्थः । अन्तर्गृह इत्यनुक्तिरुक्तनिर्वचनसारेणेन पुण्यातिशयवत्त्वद्योतनाय । ततश्चा-
न्तर्गृहे सहस्रपरिवत्सरपर्यन्तं प्रतिदिनं परया श्रद्धया कोटिलिङ्गानि यः प्रतिष्ठापयति
तदेकजन्मजनितं पुण्यं तस्य कोटिसंख्यागुणनेन जातो राशिर्द्वितीयः ॥ १४२ ॥
करुणाकृष्टो देशस्तरन्तुकारन्तुकयोर्मध्यवर्ती कुरुक्षेत्रमित्युच्यते । रविग्रहे सूर्योपरागे ।
'सर्वत्र सर्वदा सर्वे गृह्णन्मुच्येत कर्हिचित् । उपरागे कुरुक्षेत्रे गृह्णन्विप्रो न मुच्यते'
इत्यादिना महाभारतादौ तत्र प्रतिग्रहीतुः प्रायश्चित्ताभावोक्त्या फलानन्त्यं दाने ।
२०४ ललितासहस्रनाम ।
कोटिं सौवर्णभाराणां श्रोत्रियेषु द्विजन्मसु ॥ २४३ ॥
यः कोटिं हयमेधानामाहरेद्गाङ्गरोधसि ।
आचरेत्कूपकोटीर्यो निर्जले मरुभूतले ॥ २४४ ॥
दुर्भिक्षे यः प्रतिदिनं कोटिब्राह्मणभोजनम् ।
श्रद्धया परया कुर्यात्सहस्रपरिवत्सरान् ॥ २४५ ॥
तत्पुण्यं कोटिगुणितं लभेतपुण्यमनुत्तमम् ।
रहस्यनामसाहस्रे नाम्नोऽप्येकस्य कीर्तनात् ॥ २४६ ॥
यद्यपि बृहस्पतिस्मृतौ 'त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती'त्युक्तं तथापि तेष्वपि
सुवर्णसाध्यत्वात्तद्दानस्यैवाधिक्यमभिप्रेत्याह—सौवर्णेति । भारो नाम विंशतितुलाः ।
तुला नाम पलशतम् । 'तुला स्त्रियां पलशतं भारः स्याद्विंशतितुला'इति कोशात् ।
श्रोत्रियेषु जन्मसंस्कारविद्याभिः संस्कृतेषु । 'त्रिभिः श्रोत्रिय उच्यत'इति ब्रह्मवैवर्तात् ।
देशकालपात्रदेयश्रद्धाज्ञानगोपनानां क्रियाखतिशयाधायकत्वात्प्रतिधर्मं कानिचिदनुक्ता-
न्यपि योजनीयानि । ततश्च कुरुक्षेत्रे रविग्रहणे सत्पात्राय श्रद्धादिभिः सौवर्णभारको-
टिदानं कोटिगुणितं चेदेकं पुण्यम् । अस्य सहस्रपरिवत्सरसंबन्धिदिनसंख्यया गुणने
तस्य पुनर्जन्मकोटिभिर्गुणनेन जातः पुण्यराशिस्तृतीयः ॥ २४३ ॥ अथेष्टापूर्ते आह—
'तरति ब्रह्महत्यां तरति पाप्मानं योऽश्वमेधेन यजते'इति विहितः क्रतुविशेषो हयमेधः ।
गाङ्गरोधसि गङ्गासंबन्धिनि तीरे । ततश्च गङ्गातीरे श्रोत्रियैर्ऋत्विग्भिः सह साङ्गकोट्य-
श्वमेधयज्ञजनितपुण्यस्य पूर्ववद्दिनसंख्यया पुनः कोटिसंख्यया च गुणनाज्जातो राशि-
श्चतुर्थः । कूपेति वापीतडागादेरुपलक्षणम् । मरुरिति देशविशेषस्य संज्ञा । तेन
न निर्जलपदानर्थक्यम् । तादृशदेशे कूपादिकोटिखननजनितपुण्यस्य पूर्ववद्दिनसंख्यया
जन्मकोटिसंख्यया च गुणने जातो राशिः पञ्चमः ॥ २४४ ॥ दुर्लभा भिक्षा यस्मिन्स
सकलो देशोऽपि दुर्भिक्षः । तत्र कोटिसंख्यानामुत्तमब्राह्मणानामुत्तमषड्रसोपेतभो-
जनदानेन जातस्य पुण्यस्य दिनसंख्यया पुनः कोटिसंख्यया च गुणनाज्जातो राशिः
षष्ठः । परिवत्सरानित्यत्यन्तसंयोगे द्वितीया । द्वादशसहस्रवर्षेष्वनवरतमित्यर्थः । संवत्स-
रपरिवत्सरेदावत्सरेद्वत्सरानुवत्सरशब्दानां प्रभवप्रमाथिखरशोभनराक्षसादिद्वादशद्वादश-
वर्षविशेषवाचित्वेऽपि प्रकृते सामान्यमात्रोपलक्षकत्वात् ॥ २४५ ॥ तेषां तीर्थस्नानशि-
वप्रतिष्ठास्वर्णदानेष्टापूर्तब्रह्मभोजनोत्थानां षण्णां पुण्यराशीनां याः कोटयस्ताभिर्गुणितं
पुण्यमुपस्थितत्वात्तमेव पुण्यषट्कमहाराशिं लभेतेत्यर्थः । अयं भावः—षण्णामपि पुण्य-
राशीनामेकं महाराशिं विभाव्य तं द्विरावृतं कृत्वा स्थलद्वये निक्षिप्य तयोर्मध्ये एकं
राशिं कोटिसंख्यया गुणयित्वा तज्जन्या संख्यया परं राशिं गुणयेत् । तत्र गुण्यस्य
राशेरेकसंख्यावच्छिन्नत्वे तस्य गुणनं व्यर्थम् । अतः संख्यान्त्तरावच्छिन्नत्वस्यावश्यकत्वे
सत्युपस्थितत्वात्कोटिरूपैव संख्या गुण्या वाच्या । ततश्च द्वावपि महाराशी प्रातिस्विकं