ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 214, कुल 272 में से
संदर्भ में पढ़ें१८४ ललितासहस्रनाम ।
चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया ।
सदोदिता सदा तुष्टा तरुणादित्यपाटला ॥ २२१ ॥
दक्षिणादक्षिणाराध्या दरस्मेरमुखाम्बुजा ।
पदयुगलं नाहं मुञ्चामि नैव मुञ्चामी'ति । धीसंज्ञं ज्ञानाभिन्नं रसमानन्दमुद्दिश्यार्चिता
वा ॥ ३२० ॥ चैतन्यं चिद्रूपं 'आत्मचैतन्यमात्मे'ति शिवसूत्रात् तदेवार्घ्यं पूजायोग्यं
जलादि तेन सम्यगाराध्या । निराधाराराध्यायाः पूजायाश्चिद्भेदभावनारूपत्वात् 'ज्ञान-
मर्ध्य'मिति भावनोपनिषच्छ्रुतेः । उक्तंच स्कान्दे 'स्वानुभूत्या स्वयं साक्षात्स्वात्मभूतां
महेश्वरीम् । पूजयेदादरेणैव पूजा सा पुरुषार्थदे'ति । अथवा चैतन्यस्यात्मनोऽर्घ्येण
ज्ञानेन स्वानुभूत्येत्यर्थः । 'अर्घ्यः पूजाविधौ मूल्येऽप्यर्घ्यो विद्याद्रुमूलयो'रिति विश्वः ।
अर्घ्ये साधुरित्यर्थे यत्प्रत्ययः । चातुर्वर्ण्यादेराकृतिगणत्वाद्वा स्वार्थे ष्यञ् । आर्ध्यमित्येव
छेदः । चैतन्यवाचकोऽर्घ्यो विद्यास्त्रीदेवत्यो मनुरिति वा । तेन भुवनेश्वरीमन्त्रेण
समाराध्या । 'स्त्रीदेवतास्तु विद्याः स्युर्मन्त्राः पुंदेवता मता'इति वचनात् । सूतसंहि-
तायां 'जपित्वा दशसाहस्रं मन्त्रं चैतन्यवाचकम् । महापातकसंघैश्च मुच्यते पातका-
न्तरै'रिति श्लोके चैतन्यवाचकमन्त्रपदस्य भुवनेश्वरीमन्त्रपरत्वेन व्याख्यातत्वाच्च ।
अथवा चेतनैव चैतन्यं संविद्रूपो रसः । 'चेतना संविदि प्रोक्ता वाच्यवत्प्राणिनि
स्मृते'ति विश्वः । स एवार्घ्यः पूजाद्रव्यं विशेषार्घ्यपात्रे परिपूरणेन संस्कारैः पूजायोग्य-
तामापादित इति यावत् । तेन सम्यक्तर्पणादिनाराध्या । 'संविदासवयोर्मध्ये संविदेव
गरीयसी'ति रुद्रयामलात् । तान्त्रिकैः कुण्डगोलोद्भवपदेन व्यवह्रियमाणः पाञ्चमिको रसो
वा चैतन्यं प्राणिसंभवत्वात् । चैतन्यं चिदेव कुसुमं महाफलप्रसूतित्वात् । 'जडानां
चैतन्यस्तवकमकरन्दस्रुतिझरी' त्यादौ कुसुमत्वेन रूपकस्य कविसंप्रदायसिद्धत्वात् ।
तत्प्रियं यस्याः । उपलक्षणमेतत्पुष्पाष्टकस्य । 'अहिंसा प्रथमं पुष्पमिन्द्रियाणां च
निग्रहः । क्षान्तिः पुष्पं दयापुष्पं ज्ञानपुष्पं परं मतम् । तपःपुष्पं सत्यपुष्पं भावपुष्प-
मथाष्टम'मित्यभियुक्तोक्तेः संविदादिपक्षद्वयमिहाप्यतिदेष्टव्यम् । तयोश्च कुसुमसद्भावाच्चै-
तन्यस्य कुसुममित्येव पक्षद्वयेऽपि विग्रहः । सदा नित्यं उदिता उदयवती स्वप्रकाशत्वात् ।
सत्सु सज्जनेषु आसमन्तादतिशयेनोदिता वा । एवमेव सदातुष्टेत्यस्य द्वावर्थौ । तरुणो
मध्याह्नकालिक आदित्यः सूर्यस्तद्वत्पाटला श्वेतरक्ता । नच गौरी श्यामेत्यादिभिर्विरोध
उद्भाव्यः । मूर्तिभेदेन ध्यानभेदेन वा व्यवस्थोपपत्तेः । श्रूयते च 'तद्यथा महारजनं
वासो यथा पाण्ड्वाविकं यथेन्द्रगोप' इति । स्मर्यते च 'शान्ता धवलवर्णाभा मोक्षधर्म-
प्रकल्पने । श्रीवश्ये राजवश्ये च जनवश्ये च पाटला । पीता धनस्य संपत्तौ कृष्णा
मारणकर्मणि । बभ्रुविद्वेषणे प्रोक्ता शृङ्गारे पाटलाकृतिः । सर्ववर्णा सर्वलाभे ध्येया
ज्योतिर्मयी पर'मिति ॥ २२१ ॥ दक्षिणया दक्षिणैः कुशलैराराध्या । दक्षिणैः पण्डितै-
रदक्षिणैर्मूर्खैश्चेति वा । दक्षिणामार्गोपासकेन वाममार्गोपासकेन चेति वा । यद्वा केवल-