सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 217, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 217

सौभाग्यभास्करव्याख्या । १८९
विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परमोदा मनोमयी ॥ २२४ ॥
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
‘महादेवात्समुत्पन्ना महद्भिर्यत आदृता । महेशस्य वधूर्यस्मान्महेशी तेन सा स्मृते’ति ।
मङ्गलरूपा आकृतिर्यस्याः ॥ २२३ ॥ विश्वस्य जगतो विष्णोर्वा माता । ‘सोमः पवत’
इत्युपक्रम्य ‘जनितोत विष्णो’रिति श्रुतेः । जगद्धत्ते भूरूपेणेति जगद्धात्री । उपमाता वा
पालकत्वात् । ‘एष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाये’ति काण्वश्रुतेः ।
देवीपुराणेपि ‘यस्माद्धारयते लोकान्वृत्तिमेषां ददाति च । डुधाञ्धारणे धातुर्जगद्धात्री
मता बुधै’रिति । विशाले विस्तीर्णे अक्षिणी यस्याः । सा वाराणसीपीठाभिमानिनी ।
‘वाराणस्यां विशालाक्षी’ति पाद्मा