ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 227, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । १९९
निधिरात्मा दंभोलिः शेवधिरिति नाम पुंलिङ्गम् ।
तद्ब्रह्मधाम साधुज्योतिः क्लीवेऽन्ययं स्वधा स्वाहा ॥ ३७ ॥
आविंशतितः सार्द्धानाफलसाधनत्वोक्तिः ।
तस्य क्रमशो विवृतिः षट्चत्वारिंशता श्लोकैः ॥ ३८ ॥
‘अहेबुध्न्य मन्त्रं मे गोपाय’ इत्यादौ पदद्वयेऽपि विभक्तिन्यास इति चेन्न । पारिभाषिक-
प्रातिपदिकसंज्ञाया अभावेऽपि संभूयैकव्यक्तिविशेष्यकबोधजनकपद्व्यरूपस्य नाम-
त्वस्यैव सहस्रनामसंख्याघटकत्वेनादोषात् । वस्तुतस्तु ज्योतिःपदस्य प्रातिपदिकत्वात्त-
मादायैव संख्यापूर्तिः । परंतु ‘इङ् अध्ययन’ इति धातोरधिपूर्वस्यैव प्रयोग इति निय-
मवत् ज्योतिरादीनामिह सविशेषणानामेव प्रयोग इत्याम्नानबलान्नियमः कल्प्यते ।
तथा नियमेऽपि धातुलक्ष्येङ्मात्र इव नामलक्ष्य ज्योतिःपदमात्रे पर्याप्तिः । ‘अग्निं
पवमानमावहा’ ‘अग्नये पवमानायेद’मित्यादि नैगमिकप्रयोगवदिहापि ‘परंज्योतिस्त-
र्पयामि परस्मैंज्योतिषे स्वाहे’त्याद्यस्तर्पणहोमादौ प्रयोगनियमः । परमिति तु मान्तम-
व्ययमिति केचित् । तत्पक्षे तु न मध्ये चतुर्थी । कौलिनीकेवलेति विशेष्यविशेषण-
भावापन्नपदद्वयपक्षेऽपि केवलैत्यस्य यथा न्यासं कौलिन्यैकेवलायै नम इत्यादिप्रयोगो न
केवलायै कौलिन्या इत्यादिः । आम्नानवैपरीत्ये मानाभावात् । एतेन विष्णुसहस्रनामसु
‘अनादिर्भूर्भुवो लक्ष्मी’ रित्यत्र भूर्भुवरित्यस्य भुवोभूरित्यन्वयेन भूमेर्जनक इत्यर्थकैकनाम-
त्वपक्षे भूर्भुवेनम इति वा भुवोभुवेनम इति वा मन्त्रप्रयोगः परास्तः । न्यायेन भुवेभुवोनम
इत्यस्यैव युक्तत्वादित्यादिकमूह्यम् ॥ ३६ ॥ प्रसङ्गाल्लिङ्गभेदेन नामानि विभज्य
दर्शयति । ‘गुणनिधिः’ ‘आत्मा’ ‘रोगपर्वतदम्भोलिः’ ‘महालावण्यशेवधि’ रिति
नामानि पुंलिङ्गानि । तेन गुणनिध्यै इत्यादिः पाक्षिकः प्रयोगो न कार्यः । एवं मन्त्रार्था-
नुसंधानेऽपि फलभेदः । तदित्यादिपञ्च नामानि नपुंसकानि । शेषाणि स्त्रीलिङ्गानीति
शेषः । त्वमिति पदमपि स्त्रीलिङ्गमेव । ‘अलिङ्गे युष्मदस्मदी’ इत्यस्य लिङ्गकृतवैरूप्या-
भावमात्रपरत्वात् । ‘युष्मदस्मत्पदसंज्ञाकास्त्रिषु सरूपा’ इति वचनान्तरानुगुण्यात् ।
स्वधास्वाहेत्यनयोरव्ययत्वात्स्वधानम इत्यादिरव प्रयोगः । स्वान्तत्ते इत्यादिरूपेऽर्थे तु
स्वधायै नम इत्यादिरेव प्रयोगः सुवच इत्युक्तम् ॥ ३७ ॥ इति भास्कररायेण कृते
सौभाग्यभास्करे । दशमेन शतेनाभूद्वारिण्येकादशी कला ॥ १००० ॥
इति श्रीभास्कररायविरचिते ललितासहस्रभाष्ये दशमशतकं
नामैकादशी कला ॥ ११ ॥
अथ फलश्रुतिश्लोकानामर्थं संगृह्णाति परिभाषाकारः । सार्ध-
षडशीतिश्लोकात्मकस्योत्तरभागस्य मध्ये प्रथमतः सार्धैर्विंशतिभिः श्लोकैः सहस्र-
नामकीर्तनस्य बहुविधफलसाधनत्वं प्रतिपाद्यते । एवं फलभेदेन कीर्तनकरणकभावनाया
भेदादितिकर्तव्यताभेद उत्तरत्र षट्चत्वारिंशता श्लोकैः प्रतिपाद्यते । ‘सर्वरोगप्रशमन’-