ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 215, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । १८७
कौलिनीकेवलाऽनर्घ्यकैवल्यफलदायिनी ॥ २२२ ॥
कर्म जिज्ञासवो दक्षिणा इत्युच्यन्ते । 'विद्यया तदारोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विन'इति श्रुतौ तथा व्याख्यानदर्शनात् अदक्षिणा
ब्रह्मविदः ताभ्यामाराध्या । 'चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो
जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभे'ति वचनात् । दरमीषद्यथा तथा स्मेरं स्मितवन्मुखा-
म्बुजं यस्याः । मुखमम्बुजं यस्मिंस्तन्मुखाम्बुजं ग्रीवावृत्तं दरवत् शङ्खवत्स्मेरं शोभमानं
मुखाम्बुजं यस्या इति वा । कम्बुकण्ठीति यावत् । दरे भयकालेऽपि स्मेरमेव मुखाम्बुजं
यस्या इति वा । कल्पान्तादिनैमित्तिककालेऽप्यन्येषामेव भयेन मुखवैवर्ण्यात् । अम्बायास्तु
सर्वदा स्मेरमेव मुखमिति यावत् । दरे भक्तानामादरणविषये स्मेरं प्रसन्नमिति वा ।
अत्रेदं बोध्यम्—एतच्छ्लोकोत्तरार्धे चत्वारि नामानि प्रतीयन्ते । तत्र तृतीयातिरिक्तानि
पुनरुक्तानि त्रीणि भवन्ति । 'कुलाङ्गना कुलान्तःस्था कौलिनी कुलयोगिनी । क्लींकारी
केवला गुह्या कैवल्यपददायिनी'त्यत्र त्रयाणां विवृतत्वात् । तत्परिजिहीर्षया च
छलाक्षरसूत्रकारैः कौलिनीकुलयोगिनीत्येकपदत्वं स्वीकृत्य प्रकृते च कौलिनीत्येकम-
वशिष्टमेकमिति नामद्वयमङ्गीकृतम् । यदुक्तं ल्यू दूबॢल्रीङ्किकोतपती । ल्यायूटाइक्षु-
रीङ्किकोरीय्फी इति त्रयोदशाक्षरैः छाया । अष्टाक्षराणि त्रीणि नामानीत्यादिरीत्यैक-
विंशतिर्नामानि 'सदाशिवकुटुम्बिनी'त्यारभ्य 'मानवती'त्यन्तानि तत्र कथ्यन्ते । तत्र
किको इत्यक्षरद्वयेन त्र्यक्षरमेकं त्रयोदशाक्षरमेकमिति द्वे नामनी । कवर्गोयाद्यक्षरके
इत्यर्थकेन प्रकृतं नामद्वयं वर्ण्यत इति स्थितिः । अत्र हि छलार्णसूत्राणां दृष्टोपपत्ति-
मूलकतायाः पूर्वमेवोक्तत्वात्षड्भिर्नामभिर्नामत्रयकरणमपेक्ष्य नामचतुष्टयपरत्वेन पदच्छे-
दवर्णनस्य युक्ततां मन्वानैर्मूलकारैरस्मद्गुरुचरणैरिह षडक्षरमेकं नामावशिष्टमपरमिति द्वे
नामनी स्वीकृत्य 'कौलिनी कुलयोगिनी'त्यत्रापि द्वे नामनी स्वीकृते । पौनरुक्त्यपरिहा-
रस्तस्मिन्पक्षेऽपि तुल्य एव । नचैवं नामाधिक्यम् । 'प्रसवित्री प्रचण्डाज्ञा प्रतिष्ठा
प्रकटाकृति'रित्यत्र छलाक्षरसूत्रकारैः प्रकटाकृतिरित्यनयोर्नामद्वयस्वीकारेऽपि गुरुचरणै-
रेकनामत्वस्वीकारेण तदभावादिति । तस्मादिह कौलिनीकेवलेत्येकं नाम । नचैतत्पक्षे
समासानुपपत्तिः । समानाधिकरणसमासे 'पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समाना-
धिकरणेने'ति नियमात्केवलपदस्य पूर्वनिपातापत्तिः । बहुव्रीहौ तु कौलिनीपदस्य
पुंवद्भावापत्तिरिति वाच्यम् । परंज्योतिरित्यादाविव भिन्नपदयोरप्येकनामत्वसंभवात् ।
कौलधर्मवती केवलाख्यज्ञानवती चेत्यर्थः । ईश्वरज्ञानं केवलपदवाच्यम् । जैनतन्त्रे तथा
प्रयोगस्य बहुशो दर्शनात् । सकलधर्मैर्विमुक्ता वा केवला । सुखदुःखविमुक्ता वा ।
'तद्विमुक्तस्तु केवली'ति शिवसूत्रे केवलीति संज्ञाया दर्शनात् । 'सुखासुखयोर्बहिर्मनन'-
मिति पूर्वसूत्रोपात्तसुखदुःखयोस्तत्पदेन परामर्शात् । प्रकृते च मत्वर्थीयस्येनिप्रत्ययस्या-
भावेऽपि तादृशस्याच्प्रत्ययस्य सुवचत्वात् । एककृत्स्ननिर्णीताख्या अपि त्रयोऽर्था इह
वर्णनीयाः । तथाच विश्वः 'केवलं ज्ञानभेदे स्यात्केवलश्चैककृत्स्नयोः । निर्णीते केवलं