सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 224, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 224

१९६ ललितासहस्रनाम ।
परिभाषाशेषः—
श्रीमणिसह्रींविविधगुदरांदैश्र्च पुष्टनादाभ्याम् ।
मस्याः । ताश्चोक्ता विरूपाक्षपञ्चाशिकायाम् 'धूमावती तिरोधौ भास्वत्यवभासनेऽध्वनां
शक्तिः । क्षोभे स्पन्दा व्याप्तौ विब्वी ह्लादा तु पुष्टौ मे । धूमावती पृथिव्यां ह्लादाप्सु
शुचौ तु भास्वती प्रथते । वायौ स्पन्दा विब्वी नभसि व्याप्तं जगत्ताभि'रिति । एवमि-
यति प्रबन्धे प्राथमिकेन नामत्रयेण जगतः सृष्टिस्थितिलयकर्तृत्वेन देवतां लक्षयित्वा
तिरोधानानुग्रहयोरनन्तविषयत्वाच्चिदग्निकुण्डसंभूतेत्यारभ्यतावत्पर्यन्तं तयोरेव विषयं
प्रपञ्च्येदानीं पञ्चकृत्यकर्त्रीं देवतामसाधारणेन विशेष्यभूतेन नाम्ना निर्दिशति—ललिता-
म्बिकेति । ललतेऽसौ ललिता ललिता च साम्बिका च ललिताम्बिकेति विग्रहः ।
[L