ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 219, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । १९१
शाश्वती शाश्वतैश्वर्या शर्मदा शंभुमोहिनी ॥ २२६ ॥
धराधरसुता धन्या धर्मिणी धर्मवर्धिनी ।
समाहारः पञ्चमीति वा । तानि च त्रैपुरसूक्ते 'परिस्रुतं चषमायं फलं चे'त्यस्यामृचि प्रसि-
द्धानि । दानशुद्ध्यादयो गुरुमुखादवगन्तव्याः । 'पञ्चमाहुतावापः पुरुषवचसो भवन्ती'ति
श्रुतिप्रसिद्धा योषित् कुण्डे रेतो हविष आहुतिरुक्तयज्ञेषु पञ्चमी तद्रूपा वा । कैव-
ल्याख्या पञ्चमी मुक्तिस्तदभिन्ना वा । पञ्चसंख्यानां भूतानां पृथिव्यादीनामीशी । यद्वा
पञ्चधाभूता पञ्चप्रकारा जातेति वा । पञ्चमहाभूतात्मिका वा पञ्चरत्नात्मिका वा
वैजयन्तीमाला तदीशी । उक्तंच विष्णुपुराणे 'पञ्चरूपा तु या माला वैजयन्ती गदा-
भृतः । सा भूतहेतुसंघाता भूतमाला भवेद्विजे'ति । अत्र पञ्चरूपेति पदं मुक्तामणि-
क्यमरकतेन्द्रनीलवज्रसमानवर्णेति व्याचक्षते । विष्णुरहस्येऽपि 'पृथिव्यां नीलसंज्ञानमण्यो
मुक्ताफलानि च । तेजसः कौस्तुभो जातो वायोर्वैडूर्यसंज्ञकम् । पुष्करात्पुष्परागस्तु
वैजयन्त्या हरेरिमे'इति । पञ्चसंख्या गन्धपुष्पधूपदीपनैवेद्याख्या उपचारा अस्याः ॥
अथ परिभाषायामवशिष्टानि पञ्चाशन्नामानि विभजते ॥ गुणगणरविं
खगेशं चतुर्हरन्तं चतुर्ददामोदम् । गुणिहृदि विभजभवाहुरुवर्गं च
नवचरणं गदन्तमिति ॥ ३२ ॥ अत्र इतिशब्दः सहस्रसंख्यासमाप्तिपरः । तदि-
तराणि नामाक्षरसंख्यापराणि । पक्षे भवात् परशिवमारभ्यागुरुवर्गं नाथसमूहं स्वगुरु-
पर्यन्तं विशिष्य भजेत्यर्थः । गुणगणैः साक्षाद्रविक्स्रूपम् । खगानां देवानामपीशं
चतुर्विधक्लेशान् जरायुजादियोनिचतुष्टयजन्यान्हरन्तम् । चतुःसंख्या दृढामोदाध्यानसुखाः
पुरुषार्था यस्मात्तम् । गुणशीले हृदि इति अनेन प्रकारेण सहस्रनामादिरूपेण गदन्त-
मुपदिशन्तम् । नवचरणशब्दो नामारम्भे व्याख्यातः ॥ ३२ ॥ शश्वत् पौनःपुन्यं
तत्संबन्धिनी पुनःपुनरभ्यस्यमानेत्यर्थः । नित्या वा । 'शाश्वतस्तु ध्रुवो नित्य' इत्यमरः ।
'तेषां सिद्धिः शाश्वती नेतरेषा' मिति श्रुतेः शाश्वतं नित्यमैश्वर्यं यस्याः । यद्वा ईकार-
प्रश्लेषेणेशाः जगदीशाः पञ्चप्रेतास्तेष्वश्वताऽश्वत्वं वाहनत्वं येन तादृशमैश्वर्यं यस्याः ।
पञ्चप्रेतासनारूढेति फलितार्थः । शर्म सुखं दत्ते शं भावयति भवते वा शंभुः ।
म्भितदृादिलाद्धःप्रत्ययः । तस्य मोहिनीति वा । शंभुं मोहयतीति वा शंभुमोहिनी
॥ २२६ ॥ धरा पृथ्वीस्वरूपा सर्वस्य जगतो धारणाद्वा । लकारस्वरूपा वा । 'लकारः
पृथिवीदेवी सशैलवनकानना । पञ्चाशतपीठसंपन्ना सर्वतीर्थमयी परे'त्यादि ज्ञानार्णवे ।
धरस्य हिमवत्पर्वतस्य सुता । धन्या कृतार्था धनाय हिता वा । धनं लक्ष्मी वा ।
'धनगर्णं लब्धे'ति यत्प्रत्ययः । 'मङ्गलापिङ्गलाधन्ये'ति ज्योतिःशास्त्रप्रसिद्धयोगिनीविशे-
षरूपा वा । यद्वा चरमकालीनाश्चिन्ता आर्त रौद्रधन्यशुक्लभेदेन चतस्रो भविष्योत्तरपुराणे
कथिता यथा 'राज्योपभोगशयनासनसाधनेषु स्त्रीगन्धमाल्यमणिवस्त्रविभूषणेषु । इच्छा-
भिलाषमतिमात्रमुदेति मोहाच्च्यानं तदार्तमिति संप्रवदन्ति तज्ज्ञाः । संच्छेद नैर्दहनताड-