ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
१०८ | ललितासहस्रनाम ।
चिच्छक्तिश्चेतनारूपा जडशक्तिर्जडात्मिका ।
रूपम् । यद्वा शिष्टैर्विहितकर्मभिरिष्टा पूजिता । यजतेर्निष्ठायां संप्रसारणे 'व्रश्चे'ति षत्वे
च रूपम् । 'स्वस्ववर्णाश्रमैर्धर्मैः सम्यग्भगवदर्पितैः । यत्पूजनं न तद्गन्धमाल्यादीनां
समर्पणै'रिति वचनात् । 'आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युत'इति महाभारतबृह-
न्नारदीययोर्वचनाच्च । यद्वा 'न पाणिपादचपलो न नेत्रचपलो भवेत् । नच वागङ्ग-
चपल इति शिष्टस्य गोचरः । पारंपर्यागतो येषां वेदः सपरिवृंहणः । ते शिष्टा ब्राह्मणा
ज्ञेयाः श्रुतिप्रत्यक्षहेतव' इति वसिष्ठसूत्रोक्तलक्षणकाः शिष्टास्ते इष्टा यस्याः सा । यद्वा
शिष्टैरिष्टा पूजिता । इममेवार्थं स्पष्टमाचष्टे शिष्टपूजिता । प्रमातुं योग्या प्रमेया प्रमेया
न भवतीत्यप्रमेया । अकारार्थैर्ब्रह्मविष्ण्वादिभिः प्रमेया वा । अप्सु प्रमेया वा । 'मम
योनिरप्स्वन्तःसमुद्र'इति श्रुतेः । स्वः आत्माभिन्नः प्रकाशो यस्याः । दृश्यत्वाभावेन
पराप्रकाश्यत्वात् । 'अत्रायं पुरुषः स्वयंज्योति'रिति श्रुतेः । सुषु अप्सु प्रकाशो यस्या
वा । मनांसि च वाचश्च मनोवाचस्तेषां तासां चागोचरा अविषयः । 'यतो वाचो
निवर्तन्ते । अप्राप्य मनसा सहै'ति श्रुतेः । विष्णुपुराणे प्रह्लादवचनंच 'यातीतगोचरा
वाचां मनसां चाविशेषणा । ज्ञानज्ञानपरिच्छेद्या वन्दे तामीश्वरीं परा'मिति । 'स्त्री-
शूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरे'त्यादाविव गो
सौभाग्यभास्करव्याख्या । १०९
गायत्री व्याहृतिः संध्या द्विजवृन्दनिषेविता ॥ १४१ ॥
यास्कस्मृतेः । 'चिदिति चोपमार्थे प्रयुज्यमान' इति पाणिनिस्मरणाच्च । 'द्वे अक्षरे
ब्रह्मपरे अनन्ते विद्याऽविद्ये निहिते यत्र गूढे । क्षरं त्वविद्या ह्यमृतं तु विद्या विद्या-
ऽविद्ये ईशते यस्तु सोऽन्य' इति श्वेताश्वतरनिर्दिष्टं विद्यापदेनोच्यते । अविद्यानिवारकत्व-
रूपं सामर्थ्यं चैतन्यापरपर्यायं वा चिच्छक्तिः । देवीभागवते पञ्चमस्कन्धे 'वर्तते
सर्वभूतेषु शक्तिः सर्वात्मना नृप । शववच्छक्तिहीनस्तु प्राणी भवति सर्वथा । चि-
च्छक्तिः सर्वभूतेषु रूपं तस्यास्तदेव ही'ति । तदेवाह चेतनारूपा । 'चिच्छक्तिः
परमेश्वरस्य विमला चैतन्यमेवोच्यत'इति संक्षेपशारीरकाचार्याः । 'चैतन्यस्वरूपा शक्ति'-
रिति गौडपादीयसूत्रं च । देवीभागवते प्राथमिकश्लोकेऽपि 'सर्वचैतन्यरूपां तामाद्यां
विद्यां च धीमहि । बुद्धिं या नः प्रचोदया'दिति । इयं च त्रिचरणा गायत्री । अतएव
मात्स्ये 'गायत्र्या च समारम्भस्तद्वै भागवतं विदु'रिति । 'सैषानन्दस्य मीमाꣳसा
भवती'ति श्रुतिरपि । आनन्दस्य ब्रह्मणः सैषा चिद्रूपा शक्तिर्मीमांसा भवति विम-
र्शात्मिका भवतीति शंकरारण्यचरणैर्विद्यारत्ने व्याख्यानदर्शनात् । स्रष्टव्यजगदात्मक-
शक्यप्रतियोगिको मायापरिणामविशेषो जडशक्तिः । सृज्यशक्तिमात्रोपलक्षणमेतत् ।
उक्तं च विष्णुपुराणे 'शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । शतशो ब्रह्मणस्तास्तु
सर्गाद्या भावशक्तयः । भवन्ति तपसां श्रेष्ठ पावकस्य यथोष्णता । निमित्तमात्रमेवासौ
सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः । निमित्तमात्रं मुक्त्वैकं
नान्यत्किंचिदपेक्षते । नीयते तपसां श्रेष्ठ स्वशक्त्या वस्तुवस्तु ता'मिति । जडं दृश्य-
मात्रमात्मा स्वरूपं यस्या मायायाः सा जडात्मिका । चतुर्विंशत्यक्षरं छन्दो गायत्री ।
'गायत्री छन्दसामह'मिति गीतः । 'गायत्री छन्दसामसी'ति कौर्मे देवीस्तवे च ।
यद्वा गायत्र्याख्या गोपकन्या ब्रह्मणः कनिष्ठपत्नी । तदुक्तं पद्मपुराणे पुष्करक्षेत्रे
ब्रह्मणि यागं कुर्वतिसति समाहूता सावित्री, लक्ष्म्यादिका अद्यापि नागतास्ताभिः
सहागच्छामीत्युत्तरमदात् । तेन वचनेन कुपितो ब्रह्मा शक्तिहस्तात्कांचिद्गोपकन्यामा-
नाय्य विष्णुं प्रत्युक्तवानिति प्रकृत्य 'तावद्ब्रह्मा हरिं प्राह यज्ञार्थं सत्वरं च नः ।
दैवी चैषा महाभाग गायत्री नामतः प्रभो । एवमुक्ते तदा विष्णुर्ब्रह्माणं प्रोक्तवानिदम् ।
तदेनामुद्वहस्वाद्य मया दत्तां तव प्रभो । गान्धर्वेण विवाहेन विकल्पं मा कृथाश्चिरम् ।
गृहाण गोपकन्याया अस्याः पाणिमनाकुलम् । गान्धर्वेण ततो गोपीमुपयेमे पितामहः'
इत्यादि । तेन तादृशगोपकन्यारूपेत्यर्थः । अथवा 'गायन्तं त्रायते यस्माद्गायत्री तेन
कथ्यत'इति गायत्रीकल्पे भरद्वाजस्मृत्युक्तनिर्वचनाद्वेदमातरि प्रसिद्धो गायत्रीशब्दस्तदभे-
दादम्बाया अपि वाचकः। 'आतोऽनुपसर्गे क'इति कः। गौरादित्वात्ङीष्। तदुक्तं पद्मपुराणे
'विशेषात्पुष्करे ज्ञात्वा जपेन्मां वेदमातरम् । अष्टाक्षरा स्थिता चाहं जगद्व्याप्तं मया त्विद'
म्मिति । देवीपुराणेतु 'गायनाद्गमनाद्वापि गायत्री त्रिदशार्चिते'त्युक्तम् । 'गायति च त्रायते
१०
ै-Line 24 starts with:स्त्रैवर्णिक...wait, look at the very first stroke: It has a left loop: wait, is itश्चै? No, look at शinशर्मप्रदा(line 11),शब्दाः` (line 22). 'श' has a round head and a right leg.
In line 24, the first letter has a loop like 'ब' or 'व': wait, look at 'द्विजैर्वन्द्या' later in line 24!
Look at 'र्वन्द्या': 'व' has that exact oval loop!
So the first letter in line 24 has: an oval loop with a cross? No, it's 'त्रै'?
Wait! In some old fonts, 'त्रै' is cast as a single glyph that looks almost like a cursive ligature.
Wait, let's look at:
"द्विजवृन्दैस्त्रैवर्णिकसमूहैर्निषेवितोपास्या"
Wait, is there a 'स्' at the end of line 23?
Line 23 ends: "द्विजवृन्दै-" with a hyphen!
If line 23 ends with "द्विजवृन्दै-", then the word is a compound: "द्विजवृन्दैः त्रैवर्णिक..." - wait!
Look at line 27:
"द्विजाः पक्षिण इव द्विजा जीवास्तेषां
Here is the exact line-by-line transcription in Sanskrit (Devanagari):
सौभाग्यभास्करव्याख्या । १११
तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता ।
निःसीममहिमा नित्ययौवना मदशालिनी ॥ १४२ ॥
स्वप्नं पश्यती'ति । 'सता सोम्य तदा संपन्नो भवती'ति श्रुतेश्च । 'तदभावो नाडीषु
तच्छ्रुतेरात्मनिचे'ति तार्तीयीकाधिकरणे तथा निर्णयाच्च ॥ १४१ ॥ शिवाविक्षित्य-
न्तानि षट्त्रिंशत्तत्त्वान्येवासनं योगपीठाख्यमासनं यस्याः । तत्त्वान्यस्यति क्षिपतीति
वा । तत्पदस्य बुद्धिविपरिवृत्तिविषये शक्तिः । भगवत्यपि सर्वेषां बुद्धौ विपरिवर्तत
एवेति भवति तत्पदवाच्या । एवमेव चोक्तं 'यत्तत्पदमनुत्तम'मिति विष्णुसहस्रनामभाष्ये
आचार्यभगवत्पादैः । ततश्च तत्र यदे नमस्तदे नम इति केषांचित्चतुर्थ्यन्तमन्त्रकल्पनं
चिन्यं, यत्तत्पदशक्यतावच्छेदकापरित्यागेनैव ब्रह्मणि प्रवृत्तौ संज्ञालाभावेन सर्व-
नामत्वानपायात् । किंच तवर्गीयाक्षरचतुष्टयान्यतमान्तत्वेऽपि चर्त्वेन यत्तत्पदमिति
संहितोपपत्तेर्दकारान्तत्वमेवेति तयोः प्रातिपदिकयोर्दुष्टपादं । तस्मायसैनमस्तसैनम
इत्येव प्रयोगः । ब्रह्मविशेष्यकत्वाभिप्रायेण नपुंसकलङ्गोपपत्तिः । एवमेव त्वंपदेनापि
भगवती वाच्येति तुभ्यं नम इत्येव प्रयोगः । यदातु तत्त्वमसीत्यत्रेव निर्गुणब्रह्मलक्षके
तत्त्वंपदे तदापि सर्वनामतामपायादुक्तविध एव प्रयोगः । नहि संकुचितवृत्तिकमपि
विश्वपदं विश्वेदेवा इत्यादौ सर्वनामतां जहाति । अयीति कोमलामन्त्रणेऽव्ययं । गौरादेरा-
कृतिगणत्वात्ततो ङीपि रूपमिदं । जनमातृत्वाज्जनैरामन्त्रणीयेत्यर्थः । अयः शुभावहो
विधिस्तद्रूपा वा । असीति पदार्थस्यैक्यस्य वाचकं वाऽयीति पदं । 'अयपय
गता'विति धातुपाटेन गत्यर्थस्य तत्रैव पर्यवसानात् अध्यैनम इति प्रयोगः । चरम-
शतकान्तर्गतेन नाम्ना पौनरुक्त्यपरिजिहीर्षयेयं कल्पना सूत्रकृतामित्युपपत्तिः । एत्रम-
न्यत्राप्यूह्यम् । पञ्चसंख्याकाः कोशाः पञ्चकोशा इति मध्यमपदलोपी समासः । ते च
पश्च पश्चिकापूजने प्रसिद्धा मन्त्रविशेषाः । तद्भेदात्तद्देवता अपि । ताश्च ज्ञानार्णवे
'श्रीविद्या च परंज्योतिः परा निष्कलशाम्भवी । अजपा मातृका चेति पञ्च कोशाः
प्रकीर्तिता'इति । एतासु पञ्चदेवतासु श्रीचक्रराजेऽर्च्यमानासु परंज्योतिराद्याश्चतस्रो
देवता अभितः सृष्ट्यादिचक्रेषु व्यष्टिसमष्टिभेदेन पूज्यन्ते । श्रीविद्या तु मध्ये बिन्द्विति
स्थितिः । तेन पञ्चकोशानामन्तरे मध्ये स्थितेत्यर्थः । यद्वा सन्ति तावदस्मदादिशरीरे-
ष्षन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयाख्या अन्तरन्तः कक्ष्याक्रमेण पञ्चकोशपद-
वाच्याः पदार्थाः । एतेषां पञ्चानां मध्ये आन्तर आनन्दमयः कोशस्तत्राभेदेन
स्थिता । आनन्दमयाधिकरणे वृत्तिकारैः 'अन्योन्तरआत्मानन्दमय'इत्यादिश्रुतिष्वान-
न्दमयस्य ब्रह्मरूपतोक्तेः । आचार्यभगवत्पादैस्त्वानन्दमयस्य शोधनीयेषु गणनाद-
शुद्धत्वे सिद्धे ब्रह्मता नोपपद्यत इत्याशयेन ब्रह्मपुच्छवाक्य एव ब्रह्मनिर्देशो व्यव-
स्थापितः । तत्पक्षे 'यदेयमाकाश आनन्दो न स्या'दिति सामानाधिकरण्येन प्रयोगा-
दानन्दमयकोशस्य पराकाशात्मकब्रह्मशरीरभूतविच्छक्तिरूपत्वम् । श्रीकण्ठभाष्यतट्टी-
कादावयसर्थः स्पष्टः । पुच्छब्रह्मपक्षे तु पञ्चानाम्न्तरे मध्ये स्थितेत्यर्थः । युक्तं चैतत् ।
घूर्ण
११२ ललितासहस्रनाम ।
मदाघूर्णितरक्ताक्षी मदपाटलगण्डभूः ।
चन्दनद्रवदिग्धाङ्गा चाम्पेयकुसुमप्रिया ॥ १४३ ॥
कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डालया कौलमार्गतत्परसेविता ॥ १४४ ॥
ब्रह्मगीतायां तथैवोपनृंहणदर्शनात् । तदुक्तं 'तथानन्दमयश्चापि ब्रह्मणान्येन
साक्षिणा । सर्वोत्तरेण संपूर्णो ब्रह्म नान्येन केनचित् । यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञा-
नाद्वयात्मकम् । सरसः सर्वदा साक्षान्नान्यथा सुरपुंगवा' इति । क्रोधभट्टारका
अप्याहुः 'अन्नप्राणमयैः प्रबोधपरमानन्दैः शिरःपक्षयुक् पुच्छात्मप्रकटैर्महोपनिषदां
वाक्यैः प्रसिद्धीकृतः । कोशैः पञ्चभिरेभिरेव भवतीमेतत्प्रलीनामिति ज्योतिः प्रज्वलदु-
ज्वलात्मचपलां यो वेद स ब्रह्मवित्'इति । निष्क्रान्तः सीमानं सीमां वा निःसीमा
निःसीमो वा निरवधिको महिमा यस्याः । 'मन' इति निषेधान्न ङीप् । वैकल्पिको डाप् ।
अतो निःसीममहिम्नेनम इति वा निःसीममहिमायैनम इति वा प्रयोगः । कालत्रयेऽपि
रजसोऽविरहान्नित्ययौवना । विषयान्तरसंपर्कशून्य आनन्दैकविषयको वृत्तिविशेषो मद-
स्तेन शालते शोभत इति तथा ॥ १४२ ॥ मदेन घूर्णितानि रक्तानि चाक्षीणि यस्याः ।
बाह्यविषयवैमुख्यं घूर्णनम् । मदेन पाटले श्वेतरक्ते गण
मार्गत’ इति च । यद्वा समयमतं कौलमतं मिश्रमतं चेति विद्योपास्तौ मतत्रयं । शुक-
वसिष्ठादिसंहितापञ्चकोक्तं वैदिकमार्गकरम्बितमाद्यम् । चन्द्रकुलादितन्त्राष्टकोक्तं तु चरमं ।
कुलसमयोभयानुसारित्वात् । एतद्भिन्नतन्त्रोदितं कौलमार्गं । कौलैर्मृग्यत इत्यर्थे कर्मणि
घञ् । तत्तदुपास्तिभेदोऽधिकारभेदश्च तत्तत्तन्त्रेष्वेव स्पष्टः तस्मिंस्तत्परैरासक्तैः सेविता
॥ १४४ ॥ कुमारः स्कन्दो गणनाथो गजाननस्तयोरम्बा माता । कुत्सितो मार्गणः
स्मरविकारसमूहो येषां तन्नाथानम्बते बध्नातीति वा । ‘अवि बन्धन’इति धातुः । कुमार-
शब्देन तद्भेद्योऽहङ्कारो वा गृह्यते । तदुक्तं वराहपुराणे ‘पुरुषो विष्णुरित्युक्तः शिवो
वा नाम नामतः । अव्यक्तं तु उमादेवी श्रीर्वा पद्मानिभेक्षणा । तत्संयोगादहंकारः
स च सेनापतिर्गु
११४ ललितासहस्रनाम ।
मालिनी हंसिनी माता मलयाचलवासिनी ॥ १४६ ॥
सूर्याचन्द्रमसौ विधृतौ तिष्ठत' इति श्रुतेः । त्रीणि सोमसूर्याग्निरूपाणि नयनानि नेत्राणि
यस्याः । क्षुभ्नादेराकृतिगणत्वात्संज्ञाशव्दत्वेऽपि णत्वाभावः । वौषडिति शब्दस्य त्रिन-
यनेति संज्ञा नामपारायणे प्रसिद्धा तद्रूपा वा । यद्वा नयनशब्दो लक्षणया प्रमाणपरः ।
नयति प्रापयति प्रमाणमिति व्युत्पत्तेश्च । तथाच शाण्डिल्यसूत्रे प्रयोगः 'त्रीण्येषां नेत्राणि
शब्दलिङ्गाक्षभेदाद्रुद्रव'दिति । त्रीणि प्रत्यक्षानुमानशब्दरूपाणि प्रमाणानि यस्याः ।
यद्विषयकप्रमाजनने त्रिविधमेव प्रमाणं । श्रवणरूपं शाब्दज्ञानं । मननं यौक्तिक-
त्वादानुमानिकं । निदिध्यासनं तु स्वानुभवरूपं प्रत्यक्षमेव । परंतु विजातीयप्रत्ययैः
कदाचिन्मध्येष्वध्येऽन्तरितं । एतदभिप्रायेण
सौभाग्यभास्करव्याख्या । ११५
सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥ १४७ ॥
विशेष्यः । अथवा दशमीतिथिनित्यामन्त्रस्य मातेति संज्ञा । नामपारायणे तथा दर्शनात्
तद्रूपेत्यर्थः । कायावरोहणाख्यक्षेत्राधिष्ठात्रीयं 'माता कायावरोहण'इति पाद्मात् ।
लक्ष्मीबीजस्यापि मातेति संज्ञा । 'श्रीर्मा रमा च कमला माता लक्ष्मीश्च मङ्गले'ति विश्वा-
न्द्योक्तेः । शाबरचिन्तामणौ प्रसिद्धा मलालयालयभगवती तद्रूपत्वान्मलयाचले वसतीति
तथा ॥ १४६ ॥ अथ परिभाषायां पञ्चत्रिंशन्नामानि विभजते ॥ गलफ-
फशोभावेगः शंभोर्वेदे चतुर्होसः । भूर्द्विस्ताद्राजैको मोदाङ्गणवासतो
नतिहृत् ॥ १९ ॥ अत्र स्ताद्राजैत्यनेनार्धसमाप्त्युत्तरमेकपदेनैवं नामेत्येतावन्मात्रो-
क्तावपि परत्र मोदाङ्गनेति पञ्चाक्षरनामकीर्तनवलात्प्रथमस्यैकादशाक्षरात्मकत्वलाभो
न्यायगम्यः । तावत एव परिशेषात् । चरमंतकारस्य खरयोगाभावान्नाक्षरसंख्यापरता
॥ १९ ॥ शोभनं मुखं यस्याः सा सुमुखी । ज्ञानेन मुखकान्तेराधिक्यात् । 'शोभ-
तेऽस्य मुखं य एवं वेदे'ति श्रुतेः । 'ब्रह्मविद इव ते सौम्य मुखमाभाती'ति श्रुतेश्च ।
षोडश्यङ्गत्त्वेनोपास्यदेवताविशेषो वा सुमुखी । करचरणमुखनेत्राद्यवयवानां कमल-
रूपत्वात्सृष्टिन्यायेन नलिनी । भागीरथीरूपत्वाद्वा । 'नन्दिनी नलिनी गङ्गे'ति तदीयद्वाद-
शनामसु गणनात् । नलाख्यो राजा यस्यामुपासनया तादात्म्येन निविष्टः सेतिवा ।
शोभने भ्रुवौ यस्याः सा सुभ्रूः सौन्दर्यशीलत्वाच्छोभना । 'सुषमं साधु शोभन'मिति
कोशः । सुराणां नायिकेश्वरी 'महत्तरा महिमा देवताना'मिति श्रुतेः । कालः कण्ठो यस्ये-
श्वरस्य तस्य स्त्री । उक्तंच वायुपुराणे 'पश्यतां देवसंघानां पिशाचोरगरक्षसाम् ।
धृतं कण्ठे विषं घोरं कालकण्ठस्ततोऽस्म्यह'मिति देवीपुराणेऽष्टषष्टिशिवतीर्थप्रकरणे
कालञ्जरे कालकण्ठ इति स्मर्यते । तेन तत्क्षेत्राधिष्ठात्रीत्यर्थः । मधुरोऽस्फुटो ध्वनिः कलः
स एव कालः स्वार्थिकोऽण् कालः कण्ठो यस्या इति वा । अङ्गगात्रकण्ठेभ्यो वा ङीप् ।
दारुकासुरवधार्थं 'ससर्ज कालीं कामारिः कालकण्ठीं कपर्दिनी'मिति लैङ्गे कथायाः
प्रसिद्धेस्तद्रूपा वा । कलपदादेव स्वार्थिकोऽण्वा । मञ्जुध्वनिरिति तदर्थः । कान्तिरसया
अस्तीति कान्तिमती । परमेश्वरौ सृष्ट्युन्मुख्येन क्षोभयतीति क्षोभिणी । तदुक्तं
विष्णुपुराणे 'प्रकृतिं पुरुषं चैव प्रविश्यात्मेच्छया हरिः । क्षोभयामास भगवान्स-
र्गकाले व्यपाश्रित'इति । यद्वा । मनःक्षोभात्कांश्चिद्गणानजनयदििित क्षोभिणी । तदुक्तं
वराहपुराणे मूर्तित्रयं प्रकृत्य 'या मन्दरं गता देवी तपस्तप्तुं तु वैष्णवी । तस्या-
स्तपस्याः कालेन महता क्षुभितं मनः । तस्सात्क्षोभात्समुत्तस्थुः कुमार्यः सौम्यदर्शनाः ।
नीलकुञ्चितकेशान्ता बिम्बोष्ठ्यः पद्मलोचनाः । 'इन्दीवरसमा दामनूपुराढ्याः सुवर्चसः ।
एवंविधाः स्त्रियो देव्यः क्षोभिते मनसि द्रुतम् । उत्तस्थुः शतसाहस्राः कोटिशो विवि-
धानना'इत्यादि । सूक्ष्मं दुर्ज्ञेयं रूपमस्याः । 'सूक्ष्मात्सूक्ष्मतरं नित्यम्' 'अणोरणीया'निति
११६ ललितासहस्रनाम ।
वज्रेश्वरी वामदेवी वयोवस्थाविवर्जिता ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥ १४८ ॥
विशुद्धिचक्रनिलया रक्तवर्णा त्रिलोचना ।
खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ॥ १४९ ॥
च श्रुतेः । सूक्ष्म इति होमविशेषस्य संज्ञा । तन्त्रराजे 'नित्यानल्योदिते मूलाधारम-
ध्येऽस्ति पावक'इत्यादिना 'एवं द्वादशधा होममक्षरैः स्यादुदीरितै'रित्यन्तेन ग्रन्थेनोक्ता
तदेव रूपमस्या इति वा । देव्या अपि त्रीणि रूपाणि स्थूलसूक्ष्मपरभेदात्सन्त्येवेति
व्यक्तमेव ॥ १४७ ॥ षष्ठीतिथिनिल्या जालन्धरपीठाधिष्ठात्री वज्रेश्वरी । अथवा
श्रीपुरस्य द्वादशः प्राकारो वज्रमणिमयस्तस्यैकादशस्य मध्ये वज्राख्या नदी तदधि-
पतिः । उक्तंच दूर्वाससा 'तत्र सदा प्रवहन्ती तटिनी वज्राभिधा चिरं जीयात् ।
चटुलौर्मिझाटनृत्यत्कलहंसीकुलकलक्वणितपुष्टा । रोधसि तस्या रुचिरे वज्रेशी जयति
वज्रभूषाढ्या । वज्रप्रदानतोषितवज्रिमुखत्रिदशविनुतचारित्रे'ति । इन्द्राय वज्रोऽपि
देव्यैव दत्तः । तदुक्तं ब्रह्माण्डे शक्रस्य जले तपःप्रकृत्य 'तज्जलादुत्थिता देवी वज्रं
दत्वा बलद्विषे । पुनरन्तर्दधे सोपि कृतार्थः स्वर्गमेयिवा'निति । वामो वननीयो देवो
वामदेवः । 'तं देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तस्माद्वामदेव' इत्यैतरेयश्रुतेः ।
वामेन भागेन दीव्यतीत्यर्धनारीश्वरो वा वामदेवः । 'कुङ्कुमक्षोदसङ्काशं वामाख्यं
नरवेषधृत् । वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठित'मिति शिवपुराणोक्तः सदाशिव-
व्यूहान्तर्गतो मूर्तिविशेषोऽपि वामदेवस्तस्येयं वामा सुन्दरी च सा देवी वा ।
वामानां कर्मफलानां वा देव्यधिष्ठानदेवता । वामाचारे रता वामाः । 'पूजकोऽपि
भवेद्वामस्तन्मार्गे सततं रत'इति कलिकापुराणवचनात् तेषां देवीति वा । उक्तंच
देवीपुराणे 'वामं विरुद्धरूपं तु विपरीतं तु गीयते । वामेन सुखदा देवी
वामदेवी ततः स्मृते'ति । बाल्यपौगण्डकैशोरादिवयोविशेषाणामवस्थाभिर्विवर्जिता ।
सदातनत्वात् । गोरक्षप्रमुखानां सिद्धानामीश्वरी स्वामिनी एतन्नाम्नैव काश्यां
प्रसिद्धा । सिद्धा च सा विद्या च सिद्धविद्या । अतएव पञ्चदश्याः सिद्धारिचक्रशोधो
नास्तीत्युक्तं कादिमते 'नित्यानां सिद्धमन्त्राणामवेक्ष्यास्त्वंशकादय'इति । सिद्धानां
माता रक्षकत्वात् । यशोऽस्या अस्तीति यशस्विनी । 'अस्मायामेधास्रजो विनिः' ।
'तस्य नाम महद्यश'इति श्रुतेः ॥ १४८ ॥ अथ द्विषष्टिनामभिर्योगिनीन्यासक्रमेण
विशुद्ध्यादिसप्तचक्राधिष्ठातृडरलकसहायाद्ययोगिनीसप्तकस्वरूपेण भगवतीं स्तोतुमारभते ।
—विशुद्धीत्यादिना । तत्रेदं डाकिनीध्यानं 'ग्रीवाकूपे विशुद्धौ नृपदलकमले
श्वेतरक्तां त्रिनेत्रां हस्तैः खट्वाङ्गखड्गौ त्रिशिखमपि महाचर्म संधारयन्तीम् । वक्त्रेणैकेन
युक्तां पशुजनभयदां पायसान्नैकसक्तां त्वक्स्थां वन्देऽमृताद्यैः परिवृतवपुषं डाकिनीं
वीरवन्द्या'मिति । विशुद्धिचक्रं षोडशदलकमलस्य कर्णिकैव निलयो यस्याः । आरक्तो
सौभाग्यभास्करव्याख्या । ११७
पायसान्नप्रिया त्वक्स्था पशुलोकभयंकारी ।
अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ॥ १५० ॥
अनाहताब्जनिलया श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वलाक्षमालादिधरा रुधिरसंस्थिता ॥ १५१ ॥
कालरात्र्यादिशक्त्यौघवृता स्निग्धौदनप्रिया ।
महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ॥ १५२ ॥
वर्णो यस्या इति पञ्चाक्षरं नाम । आङीषदर्थे । तेन ‘श्वेतरक्तस्तु पाटल’इत्युक्तलक्षण-
कपाटलीकुसुम समानवर्णेत्यर्थः । लाकिनीप्रकरणगतनाम्ना पौनरुक्त्याभावाच्च । त्रीणि
लोचनानि यस्याः । खट्वाङ्गं खट्वापादः । दण्डारोपितनरकपालं वा । तदादि येषां
चतुर्णां मध्ये तानि प्रहरणान्यायुधानि यस्याः । वदनं च तदेकं च । ‘पूर्वकालैके’ति
समासः । अनित्यत्वान्न पूर्वनिपातः । तेन समन्विता युक्ता ॥ १४९ ॥ पयोविकारः
पायसश्च तदन्नं च तत्परमान्नं प्रियं यस्याः । लचि धातौ तिष्ठतीति लक्स्था । तदभि-
मानित्वात् । अद्वैतविद्याविहीनाः पशवस्त एव लोकास्तेषां भयंकरी । ‘योऽन्यां देवता-
मुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशु’रिति श्रुतेः । ‘द्वितीयाद्वै भयं
भवति’ ‘य एतस्मिन्नुदरमन्तरं कुरुतेऽथ तस्य भयं भवती’ति च श्रुतेः । अमृताख्या
शक्तिरादिर्यासां ताभिः षोडशभिर्महाशक्तिभिः ‘अमृताकर्षिणीन्द्राणी’त्यादिभिरक्षरा-
न्ताभिरेकैकदलनिष्ठाभिः संवृता । उक्तंच स्वच्छन्दतन्त्रे ‘तस्मादेकाङ्गुलादूर्ध्वं विशुद्धं
षोडशाक्षरम् । मध्यगा डाकिनी बाह्यपत्रेषु परमेश्वरी । अमृतान्यक्षरान्ताः स्युश्चन्द्र-
बिम्बं तदूर्ध्वत’इति । नवानां विशेषाणां विशेष्यं नाम्ना निर्दिशति—डाकिनीश्व-
रीति । डाकिन्याख्येश्वरीत्यर्थः ॥ १५० ॥ हृदये द्वादशदलकमलेऽनाहताख्यचक्रे
राकिन्याख्या योगिनी तिष्ठति । तस्या ध्यानं यथा ‘हत्पद्मे भानुपत्रे द्विवदनलसितां
दंष्ट्रिणीं श्यामवर्णांमक्षं शूलं कपालं डमरुमपि भुजैर्धारयन्तीं त्रिनेत्राम् । रक्तस्थां
कालरात्रिप्रभृतिपरिवृतां स्निग्धभक्तैकसक्तां श्रीमद्वीरेन्द्रवन्द्यामभिमतफलदां राकिनीं
भावयाम’इति । अनाहताब्जं तत्कर्णिका निलयो यस्याः । श्यामा षोडशवार्षिकी तया
तुल्या श्यामाभा । श्यामा आभा कान्तिर्यस्या इति वा । वदनयोर्द्वयं यस्याः ।
दंष्ट्राभिर्वराहसमानदन्तैरुज्ज्वला शोभमाना । अक्षमाला आदिर्येषां तेषां चतुर्णामा-
युधानां धरा । पचाद्यच् । कर्मण्यणि धारेति स्यात् । उक्तश्लोके यदि चक्रं शूलमित्येवं
पाठस्तदाऽक्षस्य रथाङ्गस्य मां शोभां लाति आदत्त इत्यक्षमालं चक्रमित्याख्येयम् ।
रुधिरे शोणिते संस्थिता तदभिमानित्वेन ॥ १५१ ॥ अस्ति कालरात्र्याख्या काचन
शक्तिः । तदुक्तं वराहपुराणे मूर्तित्रयं प्रकृत्य ‘या सा नीलगिरिं याता तपसे
धृतमानसा । रौद्री तमोभवा शक्तिस्तस्याः शृणु धरे व्रत’मित्यारभ्य ‘रौद्री तपोरता
देवी तामसी शक्तिरुत्तमा । संहारकारिणी नाम्ना कालरात्रीति तां विदु’रिति । सा
११८ ललितासहस्रनाम ।
मणिपूराब्जनिलया वदनत्रयसंयुता ।
वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥ १५३ ॥
रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा ।
समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ॥ १५४ ॥
आदिर्यासां तासां ठंकारान्तद्वादशशक्तीनामोघेन समूहेन वृता । पत्रेषु वेष्टिता । स्निग्धो
घृतप्लुत ओदनः प्रियो यस्याः । विविधा ईरा वा इरा वा येषां ते वीराः । पक्षद्वयेपि
चमत्कृतवाणीकाः स्तावका इति यावत् । अथवा महावीरं सौमिकः पात्रविशेषः ।
'महावीरं तु विबाधमृजीष'मित्यादिश्रुतिप्रसिद्धः लक्षणया च पानपात्रपरः । तस्मा-
न्मत्वर्थीयोऽच् । ब्रह्मरसामृतपानशीला इतियावत् । अतएवेन्द्रा ब्रह्मविदः । इदमि-
त्यापरोक्ष्येण ये साक्षिणः स्वात्मभूतं ब्रह्माहमस्मीति साक्षात्कुर्वन्ति ते इन्द्राः । तथाच
श्रूयते 'इदमदर्शमिदमदर्शमिति तस्मादिन्द्रो नामे'ति । अथवा 'त्रितयाभोक्ता वीरेश' इति
शिवसूत्रोक्तलक्षणा जाग्रदाद्यवस्थात्रयेपि तुर्यानुसंधानपरा वीरेन्द्राः । उक्तंच वरदराजेन
'वीरेश इति वीराणां भेदव्यसनकारिणाम् । अन्तर्बहिर्विसरतामिन्द्रियाणामधीश्वर' इति ।
अथवा महावीरः प्रह्लाद इन्द्रः शक्रश्च । देवीभागवते चतुर्थस्कन्धे शक्रप्रह्लादयोर्दिव्य-
वर्षशतं युद्धे जाते पश्चादुभाभ्यां स्तुता भगवती द्वयोरपि वरमदादिति कथानकस्म-
रणात् तेभ्यो वरं ददातीति तथा ॥ अथ परिभाषायामेकोनचत्वारिंशन्ना-
मानि विभजते ॥ पञ्चपदी भाविचतुष्पदी द्विचरणीव शंभोर्चाङ्क । चतुर-
द्विवशे पश्चाङ्गिभवे द्वैकं चतुष्पदं च मम ॥ २० ॥ षट्पदीति वक्तव्ये चतुर्णां
द्वयोश्च विभज्योक्तिः छन्दःपूरणाय । एकपदेन द्वादशाक्षरमेकं नाम । अर्धे तावत
एव परिशेषात् ॥ २० ॥ राकिणीनामिकाया अम्बयाः स्वरूपमस्याः ॥ १५२ ॥
मणिपूराख्यं दशदलं नाभौ पद्मं तत्र लाकिन्याख्या योगिनी तिष्ठति । तदुक्तं 'दिक्पत्रे
नाभिपद्मे त्रिवदनविलसद्दंष्ट्रिणीं रक्तवर्णां शक्तिं दंभोलिदण्डावभयमपि भुजैर्धारयन्तीं
महोग्राम् । डामर्याद्यैः परीतां पशुजनभयदां मांसधात्वेकनिष्ठां गौडान्नासक्तचित्तां
सकलसुखकरीं लाकिनीं भावयाम'इति । मणिपूराख्यमब्जं निलयो यस्याः । वदनानां
त्रयेण संयुता । वज्रादिकैश्चतुर्भिरायुधैरुपेता । डामर्याद्याभिः फट्कारिण्यन्ताभि-
र्दशभिः शक्तिभिरावृता ॥ १५३ ॥ रक्तो वर्णो यस्याः । मांसे नितरां तिष्ठति तद्धालभि-
मानित्वेनेति तथा ॥ इति श्रीभासुरानन्दकृते सौभाग्यभास्करे । पञ्चभिः
शतकैरासीत्षष्ठी नाम्ना रुचिः कला ॥ ५०० ॥
इति श्रीललितासहस्रनामभाष्ये पञ्चमशतकं नाम षष्ठी कला ॥ ६ ॥
गुडेन मिश्रमनं गुडान्नं । 'भक्ष्येण मिश्रीकरण'मिति समासः । तेन प्रीतं मानसं
यस्याः । समस्तेभ्यो भक्तेभ्यः सुखं ददातीति तथा । लाकिन्याख्याया अम्बयाः
सौभाग्यभास्करव्याख्या । ११९
स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा ।
शूलाद्यायुधसंपन्ना पीतवर्णातिगर्विता ॥ १५५ ॥
मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता ।
दध्यन्नासक्तहृदया काकिनीरूपधारिणी ॥ १५६ ॥
मूलाधाराम्बुजारूढा पञ्चवक्त्रास्थिसंस्थिता ।
अङ्कुशादिप्रहरणा वरदादिनिषेविता ॥ १५७ ॥
मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी ।
आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ॥ १५८ ॥
स्वरूपमस्याः ॥ १५४ ॥ स्वाधिष्ठानाख्ये षड्दले पद्मे काकिन्याख्या योगिनी तिष्ठति ।
तदुक्तम् 'स्वाधिष्ठानाख्यपद्मे रसदललसिते वेदवक्त्रां त्रिनेत्रां हस्ताभ्यां धारयन्तीं
त्रिशिखगुणकपालाभ्यान्यात्तगर्वाम् । मेदोधामुत्प्रतिष्ठामलिमदमुदितां बन्धिनीमुख्य-
युक्तां पीतां दध्योदनेष्टामभिमतफलदां काकिनीं भावयाम' इति । स्वाधिष्ठानाख्य-
मम्बुजं गता प्राप्ता । चतुर्भिर्वक्त्रैर्मनोहरा रुचिरा । शूलादिभिरुक्तसंख्याकायुधैः
संपन्ना । पीतो वर्णो यस्याः सा । अतीव सौन्दर्यादिकृतो गर्वो यस्याः । संजातो गर्वधा-
तोर्निष्ठाया वातिगर्विता ॥ १५५ ॥ मेदसि धातुविशेषे निष्ठा स्थितिर्यस्याः । मधुना
मद्येन क्षौद्रेण वा प्रीता । तथाच श्रुतिः 'यन्मधुना जुहोति महतीमेव तद्देवतां प्रीणा-
ती'ति । महादेवीं प्रीणयतीत्यर्थः । बन्धिन्यादिभिर्लम्बोष्ठ्यन्ताभिः षड्भिः सम-
न्विता । दध्ना अन्नं दध्यन्नं । 'अन्नेन व्यञ्जन'मिति समासः । दधिसिक्त ओदन
इतियावत् तस्मिन्नासक्तं हृदयं यस्याः । काकिन्या रूपं स्वरूपं धारयतीति तथा
॥ १५६ ॥ मूलाधाराख्ये चतुर्दले कमले साकिन्याख्या योगिनी तिष्ठति । तदुक्तं
'मूलाधारस्थपद्मे श्रुतिदललसिते पञ्चवक्त्रां त्रिनेत्रां धूम्राभामस्थिसंस्थां सृणिमपि कमलं
पुस्तकं ज्ञानमुद्राम् । बिभ्राणां बाहुदण्डैः सुललितवरदापूर्वशक्त्या वृतां तां मुद्गान्नास-
क्तचित्तां मधुमदमुदितां साकिनीं भावयाम'इति । मूलाधार,ख्येऽम्बुजे आरूढा
तत्कर्णिकायां स्थिता । पञ्चसंख्यानि वक्त्राणि यस्याः । अस्थि अस्थिषु वा संस्थिता ।
अङ्कुशादीनि चत्वारि प्रहरणानि यस्याः । वरदादिभिः सरखल्यन्ताभिश्चतसृभिः शक्ति-
भिर्निषेविता ॥ १५७ ॥ मुद्गसूपमिश्र ओदने आसक्तं चित्तं यस्याः । तल्लक्षणं च कुमार-
संहितायां 'सुशालितण्डुलप्रस्थं तदर्थं मुद्गभिन्नकम् । चतुःपलं गुडं प्रोक्तं तन्मानं नालि-
केरकम् । मुष्टिमात्रं मरीचं स्यात्तदर्थं सैन्धवं रजः । तदर्थं जीरकं विद्यात्कुडवं गोघृतं
विदुः । गोक्षीरेण खमात्रेण संयोज्या कमलासनं । मन्दामिपचनादेव सिद्धान्नमिदमु-
त्तम'मिति । साकिन्यम्बायाः स्वरूपमस्याः भ्रूमध्ये आज्ञाचक्रं नाम द्विदलं पद्मं तत्र
हाकिन्याख्या योगिनी तिष्ठति । तदुक्तं 'भ्रूमध्ये बिन्दुपद्मे दलयुगकलिते शुक्लवर्णां
कराब्जैर्बिभ्राणां ज्ञानमुद्रां डमरुकममलामक्षमालां कपालम् । षड्चक्राधारमध्यां
१२० ललितासहस्रनाम ।
मज्जासंस्था हंसवती मुख्यशक्तिसमन्विता ।
हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ॥ १५९ ॥
सहस्रदलपद्मस्था सर्ववर्णोपशोभिता ।
सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ॥ १६० ॥
सर्वौदनप्रीतचित्ता याकिन्यम्बारूपिणी ।
स्वाहा स्वधा मतिर्मेधा श्रुतिस्मृतिरनुत्तमा ॥ १६१ ॥
त्रिनयनलसितां हंसवत्यादियुक्तां हारिद्रान्नैकसक्तां सकलसुखकरीं हाकिनीं भावयाम'इति ।
आज्ञाचक्राब्जमेव निलयो यस्याः । शुक्लो वर्णो यस्याः । षट्संख्यान्याननानियस्याः
॥ १५८॥ मज्जशब्दो नकारान्तः पुंलिङ्गः । 'सारो मज्जा नरी'त्यमरात् । तदुत्तरमाङ्प्रश्लेषेण
मज्जि आसमन्तात्सम्यक् तिष्ठतीति विग्रहे मज्जधात्वभिमानिनीत्यर्थः । आवन्तो वा
मज्जाशब्दः । तथा 'चिद्विल्वफलमज्जेयं' 'चिन्मज्जारूपमखिलं निजमज्जाचमत्कृति'रित्यादे-
र्ज्ञानवासिष्ठे प्रयोगात् । 'मज्जा स्यान्मज्जया सह'तिकोशाच्च टाबन्तएव वा । तेन नाङ्-
प्रश्लेषः । मुखे भवा मुख्या हंसवत्येव मुख्या आदिर्ययोस्ताभ्यां शक्तिभ्यां हंसवती-
क्षमावतीभ्यां समन्विता । हरिद्रामिश्रेऽन्ने एको मुख्यो रसो रसवत्ता बुद्धिः प्रीतिर्यस्याः ।
हाकिन्याख्याया देव्या रूपं धारयितुं शीलमिति तथा ॥ १५९ ॥ ब्रह्मरन्ध्रे सहस्रदलं
पद्मं तत्र याकिन्याख्या योगिनी तिष्ठति । तदुक्तं 'मुण्डव्योमस्थपद्मे दशशतदलके
कर्णिकाचन्द्रसंस्थां रेतोनिष्ठां समस्तायुधकलितकरां सर्वतोवक्त्रपद्माम् । आदिक्षान्ता-
र्णशक्तिप्रकटपरिवृतां सर्ववर्णां भवानीं सर्वान्नासक्तचित्तां परशिवरसिकां याकिनीं भाव-
याम'इति । सहस्रदले पद्मे तिष्ठतीति तथा । सर्वैर्वर्णैः पाटलश्यामरक्तपीतादिरूपै-
रुपशोभिता । चित्रवर्णेति यावत् । यद्वा सर्वाण्यकारादिक्षकारान्तानि वर्णा अक्षराणि
यासां ताभिरमृतादिक्षमावसान्ताभिः पञ्चाशच्छक्तिभिरुप समीपे दलेषु शोभिता आवृता
अनुलोमविलोमरीत्या शतसंख्याभिस्ताभिर्दशवारं दलेषु स्थिताभिः परिवृतेतियावत् ।
उपशब्दस्योक्तपरिभाषया दशसंख्याबोधकत्वासंभवाच्च । अतएव योगिनीन्यासे दश-
वारं तासां न्यासं केचिदिच्छन्ति । सर्वेषामायुधानां धरा धारयित्री । 'सहस्राणि
सहस्रधा बाह्वोस्तव हेतय'इति श्रुतेः । शुक्रे वीर्याख्यधातौ सम्यक् तदभिमानित्वेन
स्थिता । भविष्योत्तरपुराणे रमणकालीनध्यानविशेषः शुक्रसंज्ञः कथितस्तत्र स्थिता
वा । सर्वतः सर्वासु दिक्षु मुखानि यस्याः सा । 'सर्वतोक्षिशिरोमुख'मितिवचनात्
॥ १६० ॥ अथ परिभाषायां द्वात्रिंशन्नामानि विभजते । हेदाराः फलरे-
खारम्भविवादे तर्मोशोस्ति । खेदो देहे भीष्मो देवे वा त्र्यङ्गुलिङ्गफले
॥ २१ ॥ सर्वैः पायसादिभिर्हरिद्रान्नान्तैर्विशेषादन्यविधैरप्योदनैः प्रीतं तुष्टं चित्तं
यस्याः । याकिन्याख्याया अम्बायाः स्वरूपमस्याः । एवं योगिनीस्वरूपतया वर्णयित्वा
प्रकारान्तरैरपि वर्णयितुमारभते—स्वाहास्वधेत्यादिना । 'स्वाहा देवहविर्दाने श्रौषदवौ-
षड्वषट्स्वधे'तिकोशादुद्देश्यकद्रव्यत्यागवचनौ स्वाहास्वधाशब्दौ । तदर्थरूपापि देव्येव ।
तदुक्तं मार्कण्डेयपुराणे 'सोमसंस्था हविःसंस्थाः पाकसंस्थाश्च सप्त याः । तास्त्वदुच्चा-
रणाद्देवि क्रियन्ते ब्रह्मवादिभि'रिति । अन्यत्रापि 'यस्याः समस्तसुरता समुदीरणेन तृप्तिं
प्रयाति सकलेषु मखेषु देवि । स्वाहासि वै पितृगणस्य च तृप्तिहेतुरुच्चार्यसे त्वमतएव
जनैः स्वधा च' । अस्मिन्पक्षेऽनयोरव्ययत्वात्स्वाहानमः स्वधानम इति प्रयोगः ।
तन्त्रशक्तौ प्रपञ्चसारे 'खेति खर्गे खेति चात्मा प्रदिष्टो हेत्याहेती हेति विद्याद्विती च ।
खर्गात्मा च स्वात्मना सामशाखा वहेर्जाया हूयते यत्र सर्व'मिति । 'सैषा ते वागित्यब्र-
वीदि'ति तैत्तिरीयश्रुतौ स्वाहापदस्य स्वीया वागित्यर्थ उक्तः । सामब्राह्मणे स्वाहा कत्य-
क्षरेत्यादिप्रश्नात्त
| १२२ | ललितासहस्रनाम । |
|---|
पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना ।
पुलोमजार्चिता बन्धमोचनी बन्धुरालका ॥ १६२ ॥
विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः ।
सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ॥ १६३ ॥
न नुत्ता परप्रेरिता मा बुद्धिरैश्वर्यं वा यस्या इति वा । स्वतन्त्रबुद्धिः सहजैश्वर्या चेति
यावत् ॥ १६१ ॥ पुण्या पुण्यप्रदा कीर्तिर्यस्याः । पुण्यैः प्राक्तनैर्लभ्या । उक्तंच देवीभा-
गवते तृतीयस्कन्धे ‘पश्यन्ति पुण्यपुञ्जा ये ये वेदान्तस्तपस्विनः । रागिणो नैव
पश्यन्ति देवीं भगवतीं शिवा'मिति । पुण्ये विहितकर्मरूपे श्रवणकीर्तने यस्याः ।
षष्ठ्यर्थश्चरित्रद्वारकः संबन्धः । पुलोमतो जातया इन्द्राण्यार्चिता । तथाच देवीभाग-
वते षष्ठस्कन्धे कथा स्मर्यते । नहुषे स्वाराज्यं शासति शक्रप्राप्त्यर्थमिन्द्राण्या भगवत्या-
राधितेति ‘इत्युक्त्वा सा तदा तेन शक्रपत्नी सुमानसा । जग्राह मन्त्रं विधिवद्गुरोर्देव्याः
सुसाधनम् । विद्यां प्राप्य गुरोर्देवी देवीं त्रिपुरसुन्दरीम् । सम्यगाराधयामास
बलिपुष्पार्चनैः शुभै'रित्यादि । बन्धमाविद्यकं मोचयति । कारागृहादपि मोचयति ।
तदुक्तं हरिवंशे अनिरुद्धेन ‘एभिर्नामभिरन्यैश्च कीर्तिता ह्यसि शांकरी । त्वत्प्रसा-
दादविघ्नेन क्षिप्रं मुच्येय बन्धनात् । अवेक्षस्व विशालाक्षि पादौ ते शरणं व्रजे ।
सर्वेषामेव बन्धानां मोक्षाणां कर्तुमर्हसी'त्यारभ्य ‘एवं स्तुता तदा देवी दुर्गा दुर्गपरा-
क्रमा । बद्धं बाणपुरे वीरमनिरुद्धं व्यमोचय'दित्यन्तम् । एवं देवीभागवते षष्ठस्कन्धे
एकावलीनामिका राजकन्या कालकेतुना दानवेन बद्धा यशोवत्या तत्सख्या स्वोपा-
सितभगवतीमन्त्रबलान्मोचितेति कथा स्मर्यते साप्यत्रोदाहर्तव्या । बन्धुरा उन्नता-
नता अलकाश्चूर्णकुन्तला यस्याः । वर्वरालकेति तु संप्रदायागतपाठः । बर्बरशब्दः
संकुचिताग्रह्रस्वकेशेषु रूढः । 'आनीलस्निग्धबर्बरकचाना'मिति ललितास्तवरत्ने प्रयो-
गात् । वर्वरेति पाठेपि स एवार्थः । बावरेत्यपभ्रंशदर्शनाच्च वस्तुतोऽयमेव बहुसंमतः
पाठो न बन्धुरेति ॥ १६२ ॥ प्रकाशात्मकस्य परब्रह्मणः स्वाभाविकं स्फुरणं विमर्श
इत्युच्यते । तदुक्तं सौभाग्यसुधोदये ‘स्वाभाविकी स्फुरत्ता विमर्शरूपास्य विद्यते
शक्तिः । सैव चराचरमखिलं जनयति जगदेतदपि च संहरत'इति । स एव रूपं
शक्तिरस्याः । विमर्शो वाचकः शब्दो वा स एव रूपं निरूपकं निरूप्यं चास्याः ।
तदुक्तं मातृकाविवेके 'वाचकेन विमर्शेन विना किंवा प्रकाश्यते । वाच्येनापि प्रकाशेन
विना किंवा विमृश्यते । तस्माद्विमर्शो विस्फूर्तौ प्रकाशं समपेक्षते । प्रकाशश्चात्मनो ज्ञाने
विमर्शं समपेक्षत'इति । 'मोक्षप्रदज्ञानस्वरूपत्वाद्विद्या । 'विद्यासि सा भगवती परमा हि
देवी'ति देवीमाहात्म्यात् । तथाच गौडपादीयं सूत्रं 'सैव विद्ये'ति । चैतन्यस्वरूपा-
शक्तिरिति पूर्वसूत्रोपस्थितायाः शक्तेस्तत्पदेन परामर्शः । तेजोनिष्ठकलाविशेषरूपा वा ।
तल्लक्षणं च शैवतन्त्रे 'मायाकार्यविवेकेन वेत्ति विद्यापदं यया । सा कला परमा ज्ञेया
विद्या ज्ञानक्रियात्मिके'ति । वियद्व्योम आदिर्यस्य तज्जगत्प्रसूते । 'आत्मन आकाशः संभूत'
सौभाग्यभास्करव्याख्या । १२३
अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी ।
कात्यायनी कालहन्त्री कमलाक्षनिषेविता ॥ १६४ ॥
ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा ।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥ १६५ ॥
इत्यादिश्रुतेः । सर्वेषां व्याधीनां ज्वरादिरूपाणां प्रशमनी नाशकारणम् । अपमृत्युका-
लमृत्युत्वादिरूपसर्वमृत्यून्निवारयति । 'ज्ञात्वा देवं मृत्युमुखात्प्रमुच्यत' इति श्रुतेः
॥ १६३ ॥ सर्वस्य जगतो मूलकारणत्वादग्रे प्रथमतॊ गण्या गणयितुमर्हा । गणं
लब्ध्री गण्या । अग्रे च सा गण्या चेति वा । 'धनगणं लब्धे'ति यत्प्रत्ययः । गुणसं-
पर्कशून्यत्वादचिन्त्यं चिन्तयितुमशक्यं रूपमस्याः । कलियुगे कल्मषाधिक्यस्यावश्य-
कत्वात्तन्नाशमन्यसाध्यमेषैव करोति । तदुक्तं कूर्मपुराणे 'शमायालं जलं वह्
१२४ ललितासहस्रनाम ।
नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी ।
मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ॥ १६६ ॥
पराशक्तिः परानिष्ठा प्रज्ञानघनरूपिणी ।
माध्वीपानालसा मत्ता मातृकावर्णरूपिणी ॥ १६७ ॥
सुखने' । 'जनसुखकृते सलोद्रिकौ मृडाय नमोनम' इति शिवरहस्यात् । सुखप्रदस्य
मृडस्य परमशिवस्य पत्नीत्यर्थे आनुगागमविशिष्टो ङीष् ॥ अथ परिभाषायामेक-
त्रिंशत्पदानि विभजते ॥ शंभोर्भाले मज्जजीवाभेदाच्चरे त्र्यंघ्रिः । भव-
दृढभण्डो मन्दो गौणार्थं भूशिलाषाढे ॥ २२ ॥ मित्राणां सूर्याणामिव रूप-
मस्याः । 'सुहृत्स्वरूपे'ति वा ॥ १६५ ॥ नित्यं सर्वकालं तृप्ता । नित्येन स्वरूपानन्देन
वा तृप्ता । भक्तानां निधिरिव । कामपूरकत्वात् । नात्र पाक्षिकोऽपि निध्यैनम इति
प्रयोगः । जगन्नियामकत्वान्नियन्त्री । निखिलस्य कृत्स्नप्रपञ्चस्येश्वरी । मैत्रीकरुणामु-
दितोपेक्षा चेति चतस्रो वासनाः । सुखिषु मैत्री दुःखिषु करुणा पुण्येषु मुदिता
पापिष्वपेक्षेति व्यवस्थिता इति विष्णुभागवते प्रसिद्धाः । एताश्चित्तस्य शोधिकाः ।
तदुक्तमभियुक्तैः 'मैत्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः ।
ख्यातिं च सत्वपुरुषान्यताधिगम्य वाञ्छन्ति तामपि समाधिभृतो निरोद्धु'मिति ।
तथाच योगसूत्रमपि 'मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनात-
श्चित्तप्रसादन'मिति । इह सुखादिशब्दैस्तद्वन्तः प्रतिपादिता इति राजमार्तण्डः । मैत्र्या-
दिभिश्चतसृभिर्वासनाभिर्लभ्या । परमशिवस्य महाप्रलयकालीने ताण्डवे ब्रह्मविष्ण्वा-
देरपि नाशात्तदैवैव तत्साक्षिणी । उक्तंच 'कल्पोपसंहरणकल्पितताण्डवस्य देवस्य
खण्डपरशोः परभैरवस्य । पाशाङ्कुशैक्षवशरासनपुष्पबाणैः सा साक्षिणी विजयते
तव मूर्तिरेके'ति । गुरुकलायामपि 'सुरेन्द्ररुद्रपद्मजाच्युतादयोऽपि ये मृतेर्वशंवदा न
तत्स्त्रियः सुवासिनीपदस्पृशः । महेश्वरस्य मृत्युघस्मरस्य साक्षिणी तु या सुमङ्गलीरियं
वधूरिमां समेत पश्यते'ति ॥ १६६ ॥ देहे दशमधातुः पराशक्तिरित्युच्यते । तदुक्तं
कामिकागमे 'त्वगसृङ्मांसमेदोस्थिधातवः शक्तिमूलकाः । मज्जशुक्रप्राणजीवधातवः शिव-
मूलकाः । नवधातुरयं देहो नवयोनिसमुद्भवः । दशमी धातुरेकैव पराशक्तिरितीरि-
ते'ति । यद्वा परोत्कृष्टा शक्तिः । शक्तिमात्रस्वरूपत्वादेवोत्कर्षः 'अन्येभ्योऽपि दृश्यत' इति
दीर्घः । 'परास्य शक्तिर्विविधैव श्रूयत'इति श्रुतिः । लैङ्गेपि 'यस्य यस्य पदार्थस्य या
या शक्तिरुदाहृता । सा सा विश्वेश्वरी देवी शक्तः सर्वो महेश्वरः । शक्तिमन्तः
पदार्था ये ते वै सर्वविभूतयः । पदार्थशक्तयो यायास्तास्ता गौरीं विदुर्बुधा' इति ।
परा निष्ठा उत्कृष्टा समाप्तिर्ज्ञानविशेषरूपा । सर्वकर्मणां सर्वजगतां चात्रैव समाप्तेः ।
उक्तंच गीतासु 'सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यत' इति । सच ज्ञानविशेषः
सूतगीतायामुक्तः 'शास्त्राचार्योपदेशेन तर्कैः शास्त्रानुसारिभिः । सर्वसाक्षितयात्मानं
?
Wait, could it be द्वा + प्य? No, it's not प्य, प्य has a loop of य.
What about द्वापा? Wait, could it be द्वापिसमुच्चयपरं? No, no top i-matra.
Let's look at the scan: it literally reads प्रयोगवशाद्वापासमुच्चयपरं or प्रयोगवशाद्द्वापासमुच्चयपरं or प्रयोगवशाद्वाऽपासमुच्चयपरं (wait, is there an avagraha? No avagraha).
Wait, look at the letter before पा: is it द्वा?
Yes, द्वा (or द्रा). Let's compare द्वा and द्रा carefully:
If you look at the stroke, it looks almost like द्वा or द्रा.
Wait! Could it be द्वा? Let's check:
प्रयोगवशाद्वा (prayoga-vashād-vā) + something?
Wait, if it's प्रयोगवशाद्वा, then पा... wait!
What if it's प्रयोगवशाद्वाऽपि समुच्चयपरं? Where the पि had its matra broken off, leaving पा? In old letterpress, an i matra (ि) has
१२६ ललितासहस्रनाम ।
महाकैलासनिलया मृणालमृदुदोर्लता ।
महनीया दयामूर्तिर्महासाम्राज्यशालिनी ॥ १६८ ॥
आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका ॥ १६९ ॥
वक्ष्यमाणनाम्नोरन्ययोर्वैक्यमूरीकृत्य 'स्कन्दोत्पादेन मातृके'ति देवीपुराणे निरुक्तदर्श-
नाच मातृकेत्यवर्णरूपिणीति च नामद्वयं सुवचम् ॥ १६७ ॥ महाकैलासो नाम
कैलासादतीव परतो लोकः परमशिवावासस्थानत्वेन शिवपुराणादौ प्रसिद्धः । पूर्व-
नामोक्ताभेदभावनाविशेषो वा कैलासः । 'एतत्कैलाससंज्ञं पदमकलपदं बिन्दुरूपी
खरूपी यत्रास्ते देवदेव' इत्यादित्रिपुरासारोक्तेर्ब्रह्मरन्ध्रस्थसहस्रारमेव वा कैलासः ।
सर्वाशून्यादितादात्म्यनित्यातादात्म्याख्यप्रस्तारान्तरापेक्षयोत्तमत्वान्महान् । स एव नि-
लयो यस्याः । मृणालं बिसतन्तुः तद्वन्मृद्व्यो दोर्लता यस्याः । पूज्यत्वान्महनीया ।
दयैव मूर्तिः स्वरूपं यस्याः । महाकैलासाधिपत्यं महासाम्राज्यं तच्छालिनी ॥ १६८ ॥
आत्मज्ञानरूपत्वादात्मविद्या । आत्माष्टाक्षरमन्त्ररूपा वा । अतएव महाविद्या । महती
च सा विद्या च । सर्वानर्थनिवारकत्वान्महत्त्वम् । नवदुर्गाविद्याया अपि महाविद्येति
संज्ञा तद्रूपा वा । श्रीविद्या पञ्चदशीस्वरूपा । उक्तंच विष्णुपुराणे 'यज्ञविद्या महा-
विद्या गुह्यविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी । आन्वी-
क्षिकी त्रयीवार्ता दण्डनीतिस्त्वमेवचे'ति । अत्र व्याख्यातारः । कर्मविद्या विश्वरूपा-
द्युपासना मन्त्रविद्या ब्रह्मविद्या चेति विद्यापदचतुष्टयार्थः । वार्ता शिल्पशास्त्राद्यायुर्वेदादिः ।
दण्डनीति राजनीतिरिति । कामो महाकामेशस्तेन सेवितोपासिता । यद्वा । कामोऽ-
नङ्गस्तेन सेविता स्यूता । 'सीवनं सेवनं स्यूति'रिति कोषात् । श्रूयते चारुणोपनिषदि
'पुत्रो निर्ऋत्या वैदेहः । अचेता यश्च चेतनः । स तं मणिमविन्दत् । सोऽनङ्गुलिरा-
वयवत् । सोऽग्रीवः प्रत्यमुञ्चत् । सोऽजिह्वो असश्वत । नैनमृषिं विदित्वा नगरं प्रविशेत् ।
यदि प्रविशेत् मिथो चरित्वा प्रविशेत् । तत्संभवस्य व्रत'मिति । निर्ऋत्या लक्ष्म्याः पुत्रो
वैदेहो विदेहोऽनङ्गो मन्मथः अनङ्गत्वदेवाचेता नेत्राङ्गुलिग्रीवाजिह्वारहितश्च सोऽन्धो मणिं
विद्यारत्नमविन्दत् । तत आवयत् असीव्यत् । ततो ग्रीवायां धृतवानास्वादितवांश्च ।
तेन मन्त्रद्रष्टृत्वादयमेवर्षिः । अस्य ज्ञानोत्तरं नगरे बाह्यचक्रे प्रवेशः । पूजाटोपो व्यर्थत्वा-
त्कृतकार्यत्वाच्च न कार्यः । यदि सर्वथा पूजनेच्छा तदा शिवशक्तिसामरस्यात्मकं
मिथुनीभावं विज्ञाय कुर्यात् । तत्सामरस्यमेव चित्तसंभवस्य मन्मथस्य रहस्यतरं व्रतमिति
श्रुत्यर्थः । शिवशक्तिसामरस्यमविज्ञाय क्रियमाणं पूजनं न तथा फलतीति तात्पर्यार्थः ।
षोडशानामक्षराणां समाहारः षोडशाक्षरं ! श्रीयुक्ता च सा षोडशाक्षरी च सा
विद्या चेति तथा । यद्यपि गौडपादीयसूत्रमप्यविद्याष्टाविंशतिवर्णविशिष्टेति पठ्यते
तथापि तत्रत्यकूटत्रयस्य पञ्चदशाक्षररूपतया विभज्य गणनाभिप्रायमित्यविरोधः ।
सौभाग्यभास्करव्याख्या । १२७
कटाक्षकिंकरीभूतकमलाकोटिसेविता ।
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुष्प्रभा ॥ १७० ॥
हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ॥ १७१ ॥
श्रीति षोडशमक्षरं यस्यां तादृशी च सा विद्या चेति वा । गौराद्यन्तर्गतस्यपिप्पल्यादे-
राकृतिगणत्वान्ङीप् । त्रयाणां ब्रह्मादीनामवस्थापीठलोकगुणादीनां वा कूटं समूहो
यस्याम् । वाग्भवादिकूटत्रयाभिन्ना वा । कामः परशिव एव कोटिरेकदेशो यस्याः सैव
कामकोटिका । शिवशक्तिसामरस्यपरब्रह्मरूपत्वात् ॥ १६९ ॥ कटाक्षस्य दृगेकदेशपातस्य
किंकरीभूताभिः कमलानां लक्ष्मीणां कोटिभिः सेविता । यस्मिन्नीषदवलोकनं तं पारेप-
रार्धं लक्ष्म्यो वृणत इति तात्पर्यम् । शिरसि ब्रह्मरन्ध्रे गुरुरूपतया स्थिता । ब्रह्म-
रन्ध्रस्याधोभागे चन्द्रोस्ति स च विद्यातृतीयकूटात्मक इत्याशयेनाह । चन्द्रनिभा भा-
लह्ल्लेखा बिन्दुरूपेण तिष्ठतीति भालस्था । तदुपर्यर्धचन्द्ररूपेण तिष्ठतीति द्योतनायाह ।
इन्द्रधनुःप्रभा । उक्तंच नित्याहृदये 'दीपाकारोऽर्धमात्रश्च ललाटे वृत्त इष्यते ।
अर्धचन्द्रस्तथाकारः पादमात्रस्तदूर्ध्वतः' इति ॥ १७० ॥ हृदये ध्येयत्वेन तिष्ठतीति
तथा । यद्वा पराबीजं हृदयमित्युच्यते । 'प्रभुहृदयज्ञातुः पदेपदे सुखानि भवन्ती'ति
कल्पसूत्रे प्रयोगात् । परमेश्वरहृदयाख्योपनिषद्वेव वा हृदयेनोच्यते । तत्रान्तर्या-
मितया प्रतिपाद्यतया वा तिष्ठति । अथवा हृदयस्य सर्वजगद्वीजत्वात्तत्र जगद्रूपेण
स्थिता । तदुक्तमनुत्तरत्रिंशिकाशास्त्रे 'यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः ।
तथा हृदयबीजस्थं जगदेतच्चराचरमि'ति ॥ अथ परिभाषायां पञ्चत्रिंशत्पदानि
विभजते । भेदभुवि त्र्यंघ्रिभुवो गुणगणजाधैं विभेजेर्धं । भर्गो रोगेणैको
मूलगुरोर्दण्डमुण्डशिला ॥ अत्रैकपदेनैकादशाक्षरमेकं नामेत्यर्थः ॥ २३ ॥
हृदये तावत्सूर्यमण्डलमस्ति तच्च विद्याद्वितीयकूटमित्याशयेनाह । रविप्रख्या । निभ-
प्रख्यशब्दौ सादृश्यपरावपीह तृतीयद्वितीयकूटयोस्तदभेदादभेदपरौ । खस्मिन्नेव मादृशः
पुरुष इति व्यवहारदर्शनात् । सूर्यसमानकान्तिमतीति वा । मूलाधारपद्मकर्णिकामध्ये
त्रिकोणमस्ति । तदन्तरग्निमण्डलं । तच्च प्रथमकूटस्वरूपं तदेतदाह । त्रिकोणस्यान्तरे
मध्ये दीपवद्दीषिका तदभिन्नेत्यर्थः । तदुक्तं तन्त्रराजे 'नित्यानित्योदिते मूलाधार-
मध्येऽस्ति पावकः । सर्वेषां प्राणिनां तद्धृदये च प्रभाकरः । मूर्धनि ब्रह्मरन्ध्राध-
श्चन्द्रमाश्च व्यवस्थितः । तन्त्रयात्मकमेव स्याद्यानित्यात्रिखण्डकमि'ति । अथवा
पूर्वोक्तं रवितुल्यत्वमुपमानोपमेयनिष्ठयोर्वस्तुतो भिन्नयोरपि धर्मयोः श्लेषभित्तिकाभे-
दाध्यवसायेनैकीकुर्वन्साधारणधर्मं निर्दिशति-त्रिकोणेति । देवीपक्षेतु पूर्वयोजनैव ।
रविपक्षे यथा । मेरुं प्रदक्षिणीकुर्वन् रविरष्टकोणात्मकस्य मेरोस्त्रींस्त्रीनेव कोणानव-
भासयति । तथाहि 'इन्द्रपुरे मध्याह्ने सूर्ये स्थिते सौम्ययाम्यपुरयोरस्तमयोदयौ ।