ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 149, कुल 272 में से
संदर्भ में पढ़ेंषड्वषट्स्वधे'तिकोशादुद्देश्यकद्रव्यत्यागवचनौ स्वाहास्वधाशब्दौ । तदर्थरूपापि देव्येव ।
तदुक्तं मार्कण्डेयपुराणे 'सोमसंस्था हविःसंस्थाः पाकसंस्थाश्च सप्त याः । तास्त्वदुच्चा-
रणाद्देवि क्रियन्ते ब्रह्मवादिभि'रिति । अन्यत्रापि 'यस्याः समस्तसुरता समुदीरणेन तृप्तिं
प्रयाति सकलेषु मखेषु देवि । स्वाहासि वै पितृगणस्य च तृप्तिहेतुरुच्चार्यसे त्वमतएव
जनैः स्वधा च' । अस्मिन्पक्षेऽनयोरव्ययत्वात्स्वाहानमः स्वधानम इति प्रयोगः ।
तन्त्रशक्तौ प्रपञ्चसारे 'खेति खर्गे खेति चात्मा प्रदिष्टो हेत्याहेती हेति विद्याद्विती च ।
खर्गात्मा च स्वात्मना सामशाखा वहेर्जाया हूयते यत्र सर्व'मिति । 'सैषा ते वागित्यब्र-
वीदि'ति तैत्तिरीयश्रुतौ स्वाहापदस्य स्वीया वागित्यर्थ उक्तः । सामब्राह्मणे स्वाहा कत्य-
क्षरेत्यादिप्रश्नात्त