ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 148, कुल 272 में से
संदर्भ में पढ़ें१२० ललितासहस्रनाम ।
मज्जासंस्था हंसवती मुख्यशक्तिसमन्विता ।
हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ॥ १५९ ॥
सहस्रदलपद्मस्था सर्ववर्णोपशोभिता ।
सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ॥ १६० ॥
सर्वौदनप्रीतचित्ता याकिन्यम्बारूपिणी ।
स्वाहा स्वधा मतिर्मेधा श्रुतिस्मृतिरनुत्तमा ॥ १६१ ॥
त्रिनयनलसितां हंसवत्यादियुक्तां हारिद्रान्नैकसक्तां सकलसुखकरीं हाकिनीं भावयाम'इति ।
आज्ञाचक्राब्जमेव निलयो यस्याः । शुक्लो वर्णो यस्याः । षट्संख्यान्याननानियस्याः
॥ १५८॥ मज्जशब्दो नकारान्तः पुंलिङ्गः । 'सारो मज्जा नरी'त्यमरात् । तदुत्तरमाङ्प्रश्लेषेण
मज्जि आसमन्तात्सम्यक् तिष्ठतीति विग्रहे मज्जधात्वभिमानिनीत्यर्थः । आवन्तो वा
मज्जाशब्दः । तथा 'चिद्विल्वफलमज्जेयं' 'चिन्मज्जारूपमखिलं निजमज्जाचमत्कृति'रित्यादे-
र्ज्ञानवासिष्ठे प्रयोगात् । 'मज्जा स्यान्मज्जया सह'तिकोशाच्च टाबन्तएव वा । तेन नाङ्-
प्रश्लेषः । मुखे भवा मुख्या हंसवत्येव मुख्या आदिर्ययोस्ताभ्यां शक्तिभ्यां हंसवती-
क्षमावतीभ्यां समन्विता । हरिद्रामिश्रेऽन्ने एको मुख्यो रसो रसवत्ता बुद्धिः प्रीतिर्यस्याः ।
हाकिन्याख्याया देव्या रूपं धारयितुं शीलमिति तथा ॥ १५९ ॥ ब्रह्मरन्ध्रे सहस्रदलं
पद्मं तत्र याकिन्याख्या योगिनी तिष्ठति । तदुक्तं 'मुण्डव्योमस्थपद्मे दशशतदलके
कर्णिकाचन्द्रसंस्थां रेतोनिष्ठां समस्तायुधकलितकरां सर्वतोवक्त्रपद्माम् । आदिक्षान्ता-
र्णशक्तिप्रकटपरिवृतां सर्ववर्णां भवानीं सर्वान्नासक्तचित्तां परशिवरसिकां याकिनीं भाव-
याम'इति । सहस्रदले पद्मे तिष्ठतीति तथा । सर्वैर्वर्णैः पाटलश्यामरक्तपीतादिरूपै-
रुपशोभिता । चित्रवर्णेति यावत् । यद्वा सर्वाण्यकारादिक्षकारान्तानि वर्णा अक्षराणि
यासां ताभिरमृतादिक्षमावसान्ताभिः पञ्चाशच्छक्तिभिरुप समीपे दलेषु शोभिता आवृता
अनुलोमविलोमरीत्या शतसंख्याभिस्ताभिर्दशवारं दलेषु स्थिताभिः परिवृतेतियावत् ।
उपशब्दस्योक्तपरिभाषया दशसंख्याबोधकत्वासंभवाच्च । अतएव योगिनीन्यासे दश-
वारं तासां न्यासं केचिदिच्छन्ति । सर्वेषामायुधानां धरा धारयित्री । 'सहस्राणि
सहस्रधा बाह्वोस्तव हेतय'इति श्रुतेः । शुक्रे वीर्याख्यधातौ सम्यक् तदभिमानित्वेन
स्थिता । भविष्योत्तरपुराणे रमणकालीनध्यानविशेषः शुक्रसंज्ञः कथितस्तत्र स्थिता
वा । सर्वतः सर्वासु दिक्षु मुखानि यस्याः सा । 'सर्वतोक्षिशिरोमुख'मितिवचनात्
॥ १६० ॥ अथ परिभाषायां द्वात्रिंशन्नामानि विभजते । हेदाराः फलरे-
खारम्भविवादे तर्मोशोस्ति । खेदो देहे भीष्मो देवे वा त्र्यङ्गुलिङ्गफले
॥ २१ ॥ सर्वैः पायसादिभिर्हरिद्रान्नान्तैर्विशेषादन्यविधैरप्योदनैः प्रीतं तुष्टं चित्तं
यस्याः । याकिन्याख्याया अम्बायाः स्वरूपमस्याः । एवं योगिनीस्वरूपतया वर्णयित्वा
प्रकारान्तरैरपि वर्णयितुमारभते—स्वाहास्वधेत्यादिना । 'स्वाहा देवहविर्दाने श्रौषदवौ-