ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 141, कुल 272 में से
संदर्भ में पढ़ेंमार्गत’ इति च । यद्वा समयमतं कौलमतं मिश्रमतं चेति विद्योपास्तौ मतत्रयं । शुक-
वसिष्ठादिसंहितापञ्चकोक्तं वैदिकमार्गकरम्बितमाद्यम् । चन्द्रकुलादितन्त्राष्टकोक्तं तु चरमं ।
कुलसमयोभयानुसारित्वात् । एतद्भिन्नतन्त्रोदितं कौलमार्गं । कौलैर्मृग्यत इत्यर्थे कर्मणि
घञ् । तत्तदुपास्तिभेदोऽधिकारभेदश्च तत्तत्तन्त्रेष्वेव स्पष्टः तस्मिंस्तत्परैरासक्तैः सेविता
॥ १४४ ॥ कुमारः स्कन्दो गणनाथो गजाननस्तयोरम्बा माता । कुत्सितो मार्गणः
स्मरविकारसमूहो येषां तन्नाथानम्बते बध्नातीति वा । ‘अवि बन्धन’इति धातुः । कुमार-
शब्देन तद्भेद्योऽहङ्कारो वा गृह्यते । तदुक्तं वराहपुराणे ‘पुरुषो विष्णुरित्युक्तः शिवो
वा नाम नामतः । अव्यक्तं तु उमादेवी श्रीर्वा पद्मानिभेक्षणा । तत्संयोगादहंकारः
स च सेनापतिर्गु