ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 143, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । ११५
सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥ १४७ ॥
विशेष्यः । अथवा दशमीतिथिनित्यामन्त्रस्य मातेति संज्ञा । नामपारायणे तथा दर्शनात्
तद्रूपेत्यर्थः । कायावरोहणाख्यक्षेत्राधिष्ठात्रीयं 'माता कायावरोहण'इति पाद्मात् ।
लक्ष्मीबीजस्यापि मातेति संज्ञा । 'श्रीर्मा रमा च कमला माता लक्ष्मीश्च मङ्गले'ति विश्वा-
न्द्योक्तेः । शाबरचिन्तामणौ प्रसिद्धा मलालयालयभगवती तद्रूपत्वान्मलयाचले वसतीति
तथा ॥ १४६ ॥ अथ परिभाषायां पञ्चत्रिंशन्नामानि विभजते ॥ गलफ-
फशोभावेगः शंभोर्वेदे चतुर्होसः । भूर्द्विस्ताद्राजैको मोदाङ्गणवासतो
नतिहृत् ॥ १९ ॥ अत्र स्ताद्राजैत्यनेनार्धसमाप्त्युत्तरमेकपदेनैवं नामेत्येतावन्मात्रो-
क्तावपि परत्र मोदाङ्गनेति पञ्चाक्षरनामकीर्तनवलात्प्रथमस्यैकादशाक्षरात्मकत्वलाभो
न्यायगम्यः । तावत एव परिशेषात् । चरमंतकारस्य खरयोगाभावान्नाक्षरसंख्यापरता
॥ १९ ॥ शोभनं मुखं यस्याः सा सुमुखी । ज्ञानेन मुखकान्तेराधिक्यात् । 'शोभ-
तेऽस्य मुखं य एवं वेदे'ति श्रुतेः । 'ब्रह्मविद इव ते सौम्य मुखमाभाती'ति श्रुतेश्च ।
षोडश्यङ्गत्त्वेनोपास्यदेवताविशेषो वा सुमुखी । करचरणमुखनेत्राद्यवयवानां कमल-
रूपत्वात्सृष्टिन्यायेन नलिनी । भागीरथीरूपत्वाद्वा । 'नन्दिनी नलिनी गङ्गे'ति तदीयद्वाद-
शनामसु गणनात् । नलाख्यो राजा यस्यामुपासनया तादात्म्येन निविष्टः सेतिवा ।
शोभने भ्रुवौ यस्याः सा सुभ्रूः सौन्दर्यशीलत्वाच्छोभना । 'सुषमं साधु शोभन'मिति
कोशः । सुराणां नायिकेश्वरी 'महत्तरा महिमा देवताना'मिति श्रुतेः । कालः कण्ठो यस्ये-
श्वरस्य तस्य स्त्री । उक्तंच वायुपुराणे 'पश्यतां देवसंघानां पिशाचोरगरक्षसाम् ।
धृतं कण्ठे विषं घोरं कालकण्ठस्ततोऽस्म्यह'मिति देवीपुराणेऽष्टषष्टिशिवतीर्थप्रकरणे
कालञ्जरे कालकण्ठ इति स्मर्यते । तेन तत्क्षेत्राधिष्ठात्रीत्यर्थः । मधुरोऽस्फुटो ध्वनिः कलः
स एव कालः स्वार्थिकोऽण् कालः कण्ठो यस्या इति वा । अङ्गगात्रकण्ठेभ्यो वा ङीप् ।
दारुकासुरवधार्थं 'ससर्ज कालीं कामारिः कालकण्ठीं कपर्दिनी'मिति लैङ्गे कथायाः
प्रसिद्धेस्तद्रूपा वा । कलपदादेव स्वार्थिकोऽण्वा । मञ्जुध्वनिरिति तदर्थः । कान्तिरसया
अस्तीति कान्तिमती । परमेश्वरौ सृष्ट्युन्मुख्येन क्षोभयतीति क्षोभिणी । तदुक्तं
विष्णुपुराणे 'प्रकृतिं पुरुषं चैव प्रविश्यात्मेच्छया हरिः । क्षोभयामास भगवान्स-
र्गकाले व्यपाश्रित'इति । यद्वा । मनःक्षोभात्कांश्चिद्गणानजनयदििित क्षोभिणी । तदुक्तं
वराहपुराणे मूर्तित्रयं प्रकृत्य 'या मन्दरं गता देवी तपस्तप्तुं तु वैष्णवी । तस्या-
स्तपस्याः कालेन महता क्षुभितं मनः । तस्सात्क्षोभात्समुत्तस्थुः कुमार्यः सौम्यदर्शनाः ।
नीलकुञ्चितकेशान्ता बिम्बोष्ठ्यः पद्मलोचनाः । 'इन्दीवरसमा दामनूपुराढ्याः सुवर्चसः ।
एवंविधाः स्त्रियो देव्यः क्षोभिते मनसि द्रुतम् । उत्तस्थुः शतसाहस्राः कोटिशो विवि-
धानना'इत्यादि । सूक्ष्मं दुर्ज्ञेयं रूपमस्याः । 'सूक्ष्मात्सूक्ष्मतरं नित्यम्' 'अणोरणीया'निति