ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 150, कुल 272 में से
संदर्भ में पढ़ें| १२२ | ललितासहस्रनाम । |
|---|
पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना ।
पुलोमजार्चिता बन्धमोचनी बन्धुरालका ॥ १६२ ॥
विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः ।
सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ॥ १६३ ॥
न नुत्ता परप्रेरिता मा बुद्धिरैश्वर्यं वा यस्या इति वा । स्वतन्त्रबुद्धिः सहजैश्वर्या चेति
यावत् ॥ १६१ ॥ पुण्या पुण्यप्रदा कीर्तिर्यस्याः । पुण्यैः प्राक्तनैर्लभ्या । उक्तंच देवीभा-
गवते तृतीयस्कन्धे ‘पश्यन्ति पुण्यपुञ्जा ये ये वेदान्तस्तपस्विनः । रागिणो नैव
पश्यन्ति देवीं भगवतीं शिवा'मिति । पुण्ये विहितकर्मरूपे श्रवणकीर्तने यस्याः ।
षष्ठ्यर्थश्चरित्रद्वारकः संबन्धः । पुलोमतो जातया इन्द्राण्यार्चिता । तथाच देवीभाग-
वते षष्ठस्कन्धे कथा स्मर्यते । नहुषे स्वाराज्यं शासति शक्रप्राप्त्यर्थमिन्द्राण्या भगवत्या-
राधितेति ‘इत्युक्त्वा सा तदा तेन शक्रपत्नी सुमानसा । जग्राह मन्त्रं विधिवद्गुरोर्देव्याः
सुसाधनम् । विद्यां प्राप्य गुरोर्देवी देवीं त्रिपुरसुन्दरीम् । सम्यगाराधयामास
बलिपुष्पार्चनैः शुभै'रित्यादि । बन्धमाविद्यकं मोचयति । कारागृहादपि मोचयति ।
तदुक्तं हरिवंशे अनिरुद्धेन ‘एभिर्नामभिरन्यैश्च कीर्तिता ह्यसि शांकरी । त्वत्प्रसा-
दादविघ्नेन क्षिप्रं मुच्येय बन्धनात् । अवेक्षस्व विशालाक्षि पादौ ते शरणं व्रजे ।
सर्वेषामेव बन्धानां मोक्षाणां कर्तुमर्हसी'त्यारभ्य ‘एवं स्तुता तदा देवी दुर्गा दुर्गपरा-
क्रमा । बद्धं बाणपुरे वीरमनिरुद्धं व्यमोचय'दित्यन्तम् । एवं देवीभागवते षष्ठस्कन्धे
एकावलीनामिका राजकन्या कालकेतुना दानवेन बद्धा यशोवत्या तत्सख्या स्वोपा-
सितभगवतीमन्त्रबलान्मोचितेति कथा स्मर्यते साप्यत्रोदाहर्तव्या । बन्धुरा उन्नता-
नता अलकाश्चूर्णकुन्तला यस्याः । वर्वरालकेति तु संप्रदायागतपाठः । बर्बरशब्दः
संकुचिताग्रह्रस्वकेशेषु रूढः । 'आनीलस्निग्धबर्बरकचाना'मिति ललितास्तवरत्ने प्रयो-
गात् । वर्वरेति पाठेपि स एवार्थः । बावरेत्यपभ्रंशदर्शनाच्च वस्तुतोऽयमेव बहुसंमतः
पाठो न बन्धुरेति ॥ १६२ ॥ प्रकाशात्मकस्य परब्रह्मणः स्वाभाविकं स्फुरणं विमर्श
इत्युच्यते । तदुक्तं सौभाग्यसुधोदये ‘स्वाभाविकी स्फुरत्ता विमर्शरूपास्य विद्यते
शक्तिः । सैव चराचरमखिलं जनयति जगदेतदपि च संहरत'इति । स एव रूपं
शक्तिरस्याः । विमर्शो वाचकः शब्दो वा स एव रूपं निरूपकं निरूप्यं चास्याः ।
तदुक्तं मातृकाविवेके 'वाचकेन विमर्शेन विना किंवा प्रकाश्यते । वाच्येनापि प्रकाशेन
विना किंवा विमृश्यते । तस्माद्विमर्शो विस्फूर्तौ प्रकाशं समपेक्षते । प्रकाशश्चात्मनो ज्ञाने
विमर्शं समपेक्षत'इति । 'मोक्षप्रदज्ञानस्वरूपत्वाद्विद्या । 'विद्यासि सा भगवती परमा हि
देवी'ति देवीमाहात्म्यात् । तथाच गौडपादीयं सूत्रं 'सैव विद्ये'ति । चैतन्यस्वरूपा-
शक्तिरिति पूर्वसूत्रोपस्थितायाः शक्तेस्तत्पदेन परामर्शः । तेजोनिष्ठकलाविशेषरूपा वा ।
तल्लक्षणं च शैवतन्त्रे 'मायाकार्यविवेकेन वेत्ति विद्यापदं यया । सा कला परमा ज्ञेया
विद्या ज्ञानक्रियात्मिके'ति । वियद्व्योम आदिर्यस्य तज्जगत्प्रसूते । 'आत्मन आकाशः संभूत'