ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 154, कुल 272 में से
संदर्भ में पढ़ें१२६ ललितासहस्रनाम ।
महाकैलासनिलया मृणालमृदुदोर्लता ।
महनीया दयामूर्तिर्महासाम्राज्यशालिनी ॥ १६८ ॥
आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका ॥ १६९ ॥
वक्ष्यमाणनाम्नोरन्ययोर्वैक्यमूरीकृत्य 'स्कन्दोत्पादेन मातृके'ति देवीपुराणे निरुक्तदर्श-
नाच मातृकेत्यवर्णरूपिणीति च नामद्वयं सुवचम् ॥ १६७ ॥ महाकैलासो नाम
कैलासादतीव परतो लोकः परमशिवावासस्थानत्वेन शिवपुराणादौ प्रसिद्धः । पूर्व-
नामोक्ताभेदभावनाविशेषो वा कैलासः । 'एतत्कैलाससंज्ञं पदमकलपदं बिन्दुरूपी
खरूपी यत्रास्ते देवदेव' इत्यादित्रिपुरासारोक्तेर्ब्रह्मरन्ध्रस्थसहस्रारमेव वा कैलासः ।
सर्वाशून्यादितादात्म्यनित्यातादात्म्याख्यप्रस्तारान्तरापेक्षयोत्तमत्वान्महान् । स एव नि-
लयो यस्याः । मृणालं बिसतन्तुः तद्वन्मृद्व्यो दोर्लता यस्याः । पूज्यत्वान्महनीया ।
दयैव मूर्तिः स्वरूपं यस्याः । महाकैलासाधिपत्यं महासाम्राज्यं तच्छालिनी ॥ १६८ ॥
आत्मज्ञानरूपत्वादात्मविद्या । आत्माष्टाक्षरमन्त्ररूपा वा । अतएव महाविद्या । महती
च सा विद्या च । सर्वानर्थनिवारकत्वान्महत्त्वम् । नवदुर्गाविद्याया अपि महाविद्येति
संज्ञा तद्रूपा वा । श्रीविद्या पञ्चदशीस्वरूपा । उक्तंच विष्णुपुराणे 'यज्ञविद्या महा-
विद्या गुह्यविद्या च शोभने । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी । आन्वी-
क्षिकी त्रयीवार्ता दण्डनीतिस्त्वमेवचे'ति । अत्र व्याख्यातारः । कर्मविद्या विश्वरूपा-
द्युपासना मन्त्रविद्या ब्रह्मविद्या चेति विद्यापदचतुष्टयार्थः । वार्ता शिल्पशास्त्राद्यायुर्वेदादिः ।
दण्डनीति राजनीतिरिति । कामो महाकामेशस्तेन सेवितोपासिता । यद्वा । कामोऽ-
नङ्गस्तेन सेविता स्यूता । 'सीवनं सेवनं स्यूति'रिति कोषात् । श्रूयते चारुणोपनिषदि
'पुत्रो निर्ऋत्या वैदेहः । अचेता यश्च चेतनः । स तं मणिमविन्दत् । सोऽनङ्गुलिरा-
वयवत् । सोऽग्रीवः प्रत्यमुञ्चत् । सोऽजिह्वो असश्वत । नैनमृषिं विदित्वा नगरं प्रविशेत् ।
यदि प्रविशेत् मिथो चरित्वा प्रविशेत् । तत्संभवस्य व्रत'मिति । निर्ऋत्या लक्ष्म्याः पुत्रो
वैदेहो विदेहोऽनङ्गो मन्मथः अनङ्गत्वदेवाचेता नेत्राङ्गुलिग्रीवाजिह्वारहितश्च सोऽन्धो मणिं
विद्यारत्नमविन्दत् । तत आवयत् असीव्यत् । ततो ग्रीवायां धृतवानास्वादितवांश्च ।
तेन मन्त्रद्रष्टृत्वादयमेवर्षिः । अस्य ज्ञानोत्तरं नगरे बाह्यचक्रे प्रवेशः । पूजाटोपो व्यर्थत्वा-
त्कृतकार्यत्वाच्च न कार्यः । यदि सर्वथा पूजनेच्छा तदा शिवशक्तिसामरस्यात्मकं
मिथुनीभावं विज्ञाय कुर्यात् । तत्सामरस्यमेव चित्तसंभवस्य मन्मथस्य रहस्यतरं व्रतमिति
श्रुत्यर्थः । शिवशक्तिसामरस्यमविज्ञाय क्रियमाणं पूजनं न तथा फलतीति तात्पर्यार्थः ।
षोडशानामक्षराणां समाहारः षोडशाक्षरं ! श्रीयुक्ता च सा षोडशाक्षरी च सा
विद्या चेति तथा । यद्यपि गौडपादीयसूत्रमप्यविद्याष्टाविंशतिवर्णविशिष्टेति पठ्यते
तथापि तत्रत्यकूटत्रयस्य पञ्चदशाक्षररूपतया विभज्य गणनाभिप्रायमित्यविरोधः ।