सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 155, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 155

सौभाग्यभास्करव्याख्या । १२७
कटाक्षकिंकरीभूतकमलाकोटिसेविता ।
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुष्प्रभा ॥ १७० ॥
हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ॥ १७१ ॥
श्रीति षोडशमक्षरं यस्यां तादृशी च सा विद्या चेति वा । गौराद्यन्तर्गतस्यपिप्पल्यादे-
राकृतिगणत्वान्ङीप् । त्रयाणां ब्रह्मादीनामवस्थापीठलोकगुणादीनां वा कूटं समूहो
यस्याम् । वाग्भवादिकूटत्रयाभिन्ना वा । कामः परशिव एव कोटिरेकदेशो यस्याः सैव
कामकोटिका । शिवशक्तिसामरस्यपरब्रह्मरूपत्वात् ॥ १६९ ॥ कटाक्षस्य दृगेकदेशपातस्य
किंकरीभूताभिः कमलानां लक्ष्मीणां कोटिभिः सेविता । यस्मिन्नीषदवलोकनं तं पारेप-
रार्धं लक्ष्म्यो वृणत इति तात्पर्यम् । शिरसि ब्रह्मरन्ध्रे गुरुरूपतया स्थिता । ब्रह्म-
रन्ध्रस्याधोभागे चन्द्रोस्ति स च विद्यातृतीयकूटात्मक इत्याशयेनाह । चन्द्रनिभा भा-
लह्ल्लेखा बिन्दुरूपेण तिष्ठतीति भालस्था । तदुपर्यर्धचन्द्ररूपेण तिष्ठतीति द्योतनायाह ।
इन्द्रधनुःप्रभा । उक्तंच नित्याहृदये 'दीपाकारोऽर्धमात्रश्च ललाटे वृत्त इष्यते ।
अर्धचन्द्रस्तथाकारः पादमात्रस्तदूर्ध्वतः' इति ॥ १७० ॥ हृदये ध्येयत्वेन तिष्ठतीति
तथा । यद्वा पराबीजं हृदयमित्युच्यते । 'प्रभुहृदयज्ञातुः पदेपदे सुखानि भवन्ती'ति
कल्पसूत्रे प्रयोगात् । परमेश्वरहृदयाख्योपनिषद्वेव वा हृदयेनोच्यते । तत्रान्तर्या-
मितया प्रतिपाद्यतया वा तिष्ठति । अथवा हृदयस्य सर्वजगद्वीजत्वात्तत्र जगद्रूपेण
स्थिता । तदुक्तमनुत्तरत्रिंशिकाशास्त्रे 'यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः ।
तथा हृदयबीजस्थं जगदेतच्चराचरमि'ति ॥ अथ परिभाषायां पञ्चत्रिंशत्पदानि
विभजते । भेदभुवि त्र्यंघ्रिभुवो गुणगणजाधैं विभेजेर्धं । भर्गो रोगेणैको
मूलगुरोर्दण्डमुण्डशिला ॥ अत्रैकपदेनैकादशाक्षरमेकं नामेत्यर्थः ॥ २३ ॥
हृदये तावत्सूर्यमण्डलमस्ति तच्च विद्याद्वितीयकूटमित्याशयेनाह । रविप्रख्या । निभ-
प्रख्यशब्दौ सादृश्यपरावपीह तृतीयद्वितीयकूटयोस्तदभेदादभेदपरौ । खस्मिन्नेव मादृशः
पुरुष इति व्यवहारदर्शनात् । सूर्यसमानकान्तिमतीति वा । मूलाधारपद्मकर्णिकामध्ये
त्रिकोणमस्ति । तदन्तरग्निमण्डलं । तच्च प्रथमकूटस्वरूपं तदेतदाह । त्रिकोणस्यान्तरे
मध्ये दीपवद्दीषिका तदभिन्नेत्यर्थः । तदुक्तं तन्त्रराजे 'नित्यानित्योदिते मूलाधार-
मध्येऽस्ति पावकः । सर्वेषां प्राणिनां तद्धृदये च प्रभाकरः । मूर्धनि ब्रह्मरन्ध्राध-
श्चन्द्रमाश्च व्यवस्थितः । तन्त्रयात्मकमेव स्याद्यानित्यात्रिखण्डकमि'ति । अथवा
पूर्वोक्तं रवितुल्यत्वमुपमानोपमेयनिष्ठयोर्वस्तुतो भिन्नयोरपि धर्मयोः श्लेषभित्तिकाभे-
दाध्यवसायेनैकीकुर्वन्साधारणधर्मं निर्दिशति-त्रिकोणेति । देवीपक्षेतु पूर्वयोजनैव ।
रविपक्षे यथा । मेरुं प्रदक्षिणीकुर्वन् रविरष्टकोणात्मकस्य मेरोस्त्रींस्त्रीनेव कोणानव-
भासयति । तथाहि 'इन्द्रपुरे मध्याह्ने सूर्ये स्थिते सौम्ययाम्यपुरयोरस्तमयोदयौ ।