दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
कृतगुरुमहदादिक्षोभसंभूतभूतिं गुणिनमुदयनाशास्थानहेतुं प्रजानाम् ।
अजममरमचिन्त्यं चिन्तयित्वापि न त्वां भवति जगति दुःखी किं पुनर्दैव दृष्ट्वा ॥'
(वे० सं० ६।४२) इत्यनेन युधिष्ठिरदुःखापगमं दर्शयति ।
अथ कृतिः—
कृतिर्लब्धार्थशमनं
यथा रत्नावल्याम् (पृ० १९८)—'राजा—को देव्याः प्रसादं न बहु मन्यते ।
वासवदत्ता—अँजउत्त, दूरे से माउउलं । ता तथा करेसु जथा बंधुअणं न
सुमरेदि ।' इत्यन्योन्यवचसा लब्धायां रत्नावल्यां राज्ञः सुस्थितये उपशमनात्
कृतिरिति ।
यथा च वेणीसंहारे (पृ० २०४)—'कृष्णः—एते खलु भगवन्तो व्यास-
वाल्मीकि—' इत्यादिना 'अभिषेकमारब्धवन्तस्तिष्ठन्ति ।' इत्यनेन प्राप्तराज्यस्याभि-
षेकमङ्गलैः स्थिरीकरणं कृतिः ।
अथ भाषणम्—
मानावाप्तिश्च भाषणम् ।
यथा रत्नावल्याम् (पृ० २००)—'राजा—अतःपरमपि प्रियमस्ति ।
यातो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले
सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया ।
देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोशलाः
किं नास्ति त्वयि सत्यमात्यवृषभे यस्मै करोमि स्पृहाम् ॥' (रत्ना० ४।२०)
इत्यनेन कामार्थमानादिलाभाद्भाषणमिति ।
अथ पूर्वभावोपगूहने—
कार्यदृष्ट्यद्भुतप्राप्ती पूर्वभावोपगूहने ॥ ५३ ॥
कार्यदर्शनं=पूर्वभावः । यथा रत्नावल्याम् (पृ० १९८)—'यौगन्धरायणः—
एवं विज्ञाय भगिन्याः संप्रति करणीये देवी प्रमाणम् । वासवदत्ता—फुँडं जेव
किं ण भणेसि ? पडिवाएहि से रअणमालं त्ति ।' इत्यनेन 'वत्सराजाय रत्नावली
दीयताम् ।' इति कार्यस्य यौगन्धरायणाभिप्रायानुप्रविष्टस्य वासवदत्तया दर्शनात्
पूर्वभाव इति ।
अद्भुतप्राप्तिः=उपगूहनम् । यथा वेणीसंहारे (पृ० २०२)—'(नेपथ्ये ।)
महासमरानलदग्धशेषाय स्वस्ति भवते राजन्यलोकाय,—
क्रोधान्धैर्यस्य मोक्षात्क्षतनरपतिभिः पाण्डुपुत्रैः कृतानि
प्रत्याशं मुक्तकेशान्यनुदिनमधुना पार्थिवान्तःपुराणि ।
१ 'आर्यपुत्र, दूरेऽस्या मातृकुलम् । तत्तथा कुरुष्व यथा बन्धुजनं न स्मरति ।' इति
च्छाया. २ 'नीतः' इति पाठः । ३ 'स्फुटमेव किं न भणसि ? प्रतिपादयास्यै रत्नमा-
लाम् ।' इति च्छाया.
, the vertical bar is just one, or two? Wait, look at कृष्णायाःin line 2: कृ ष्णा याः->याःhas one vertical bar, and visarga! WAIT!यwithoutाhas a vertical bar too!याhas TWO vertical bars (the letter's bar + aa-matra)? NO! In Devanagari,यis composed of the left curve and a vertical bar.याhas a second vertical bar! Wait, look atकृष्णायाः: कृ-ष्णा(ष + ण + ा: two bars!) -याः(य + ा: wait,यhas a bar, and another bar? No, look atकृष्णायाः: the third syllable is याः. How many vertical bars does it have? ONE? No, look at यथाin line 9:यhas a bar,थाhas a bar. Inयथा, यhas its own vertical bar, no aa-matra. Wait, look atकाव्यार्थin line 10: काhas two bars (one for k, one for ā). व्या: वconnects toय. Then ONE vertical bar? No, TWO bars! Wait, let's look at प्रकाश्यर्थvsप्रकाश्या
३२ दशरूपकं [ प्रकाशः १
विष्कम्भचूलिकाङ्कास्याङ्कावतारप्रवेशकैः ॥ ५८ ॥
तत्र विष्कम्भः—
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥ ५९ ॥
अतीतानां भाविनां च कथावयवानां ज्ञापको मध्यमेन मध्यमाभ्यां वा
पात्राभ्यां प्रयोजितो विष्कम्भक इति ।
स द्विविधः—शुद्धः, संकीर्णश्चेत्याह—
एकानेककृतः शुद्धः संकीर्णो नीचमध्यमैः ।
एकेन द्वाभ्यां वा मध्यमपात्राभ्यां शुद्धो भवति । मध्यमाधमपात्रैर्युगपत्प्रयो-
जितः संकीर्ण इति ।
अथ प्रवेशकः—
तद्वदेवानुदात्तोक्त्या नीचपात्रप्रयोजितः ॥ ६० ॥
प्रवेशोऽङ्कद्वयस्यान्तः शेषार्थस्योपसूचकः ।
तद्वदेवेति भूतभविष्यदर्थज्ञापकत्वमतिदिश्यते । अनुदात्तोक्त्या नीचेन नीचैर्वा
पात्रैः प्रयोजित इति विष्कम्भलक्षणापवादः । अङ्कद्वयस्यान्ते इति प्रथमाङ्के
प्रतिषेध इति ।
अथ चूलिका—
अन्तर्जवनिकासंस्थैश्चूलिकार्थस्य सूचना ॥ ६१ ॥
नेपथ्यपात्रेणार्थसूचनं=चूलिका । यथोत्तरचरिते द्वितीयाङ्कस्यादौ (पृ० ५१)—
‘(नेपथ्ये ।) स्वागतं तपोधनायाः । (ततः प्रविशति तपोधना ।)’ इति नेपथ्यपात्रेण
वासन्तिकयात्रेयीसूचनात् चूलिका ।
यथा वा वीरचरिते चतुर्थाङ्कस्यादौ (पृ० ११७) ‘(नेपथ्ये ।) भो भो
वैमानिकाः, प्रवर्त्यन्तां प्रवर्त्यन्तां मङ्गलानि,—
कृशाश्वान्तेवासी जयति भगवान्कौशिकमुनिः
सहस्रांशोर्वंशे जगति विजयी क्षत्रमधुना ।
विनेता क्षत्रारेर्जगदभयदानव्रतधरः
शरण्यो लोकानां दिनकरकुलेन्दुर्विजयते ॥’ (वीर० ४।१)
इत्यत्र नेपथ्यपात्रैर्देवै रामेण परशुरामो जित इति सूचनात् चूलिका ।
अथाङ्कास्यम्—
अङ्कान्तपात्रैरङ्कास्यं छिन्नाङ्कस्यार्थसूचनात् ।
अङ्कान्त एव पात्रमङ्कान्तपात्रम् । तेन विच्छिन्नस्योत्तराङ्कमुखस्य सूचनं तद्व-
शेनोत्तराङ्कावतारोऽङ्कास्यमिति । यथा वीरचरिते द्वितीयाङ्कान्ते (पृ० ८२)—
१ ‘अन्ते’ इति पाठः. २ ‘अन्तर्यवनिका’ इति पाठः.
श्लो० ५८-६५ ] अवलोकसमेतम् । ३३
'( प्रविश्य । ) सुमन्त्रः—भगवन्तौ वसिष्ठविश्वामित्रौ भवतः सभार्गवानाह्वयतः ।
इतरे—क्व भगवन्तौ ? सुमन्त्रः—महाराजदशरथस्यान्तिके । इतरे—तदनु-
रोधात्तत्रैव गच्छामः ।' इत्यङ्कसमाप्तौ '( ततः प्रविशन्त्युपविष्टा वसिष्ठविश्वामित्र-
परशुरामाः । )' इत्यत्र पूर्वाङ्कान्त एव प्रविष्टेन सुमन्त्रपात्रेण शतानन्दजनककथार्थ-
विच्छेद उत्तराङ्कमुखसूचनादङ्कास्यमिति ।
अथाङ्कावतारः—
अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः ॥ ६२ ॥
एभिः संसूचयेत्सूच्यं दृश्यमङ्कैः प्रदर्शयेत् ।
यत्र प्रविष्टमात्रेण सूचितमेव पूर्वाङ्काविच्छिन्नार्थतयैवाङ्कान्तरमापतति प्रवेशक-
विष्कम्भकादिशून्यं सोऽङ्कावतारः । यथा मालविकाग्निमित्रे प्रथमाङ्कान्ते ( पृ०
२१ )—'विदूषकः—तेणं हि दुवेवि देवीए पेक्खागेहं गढुअ संगीदोवअरणं
करिअ तत्तभवदो दूदं विसज्जेध । अथवा मुदंगसद्दो जेव णं उत्थावयिस्सदि ।'
इत्युपक्रमे मृदङ्गशब्दश्रवणादनन्तरं सर्वाण्येव पात्राणि प्रथमाङ्कप्रक्रान्तपात्रसंक्रा-
न्तिदर्शनं द्वितीयाङ्कादावारभन्त इति प्रथमाङ्कार्थाविच्छेदेनैव द्वितीयाङ्कस्यावत-
रणादङ्कावतार इति ।
पुनस्त्रिधा वस्तुविभागमाह—
नाट्यधर्ममपेक्ष्यैतत्पुनर्वस्तु त्रिधेष्यते ॥ ६३ ॥
केन प्रकारेण त्रैधं तदाह—
सर्वेषां नियतस्यैव श्राव्यमश्राव्यमेव च ।
तत्र,—
सर्वश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम् ॥ ६४ ॥
सर्वश्राव्यं यद्वस्तु तत्प्रकाशमित्युच्यते । यत्तु सर्वस्याश्राव्यं तत्स्वगतमिति
शब्दाभिधेयम् ।
नियतश्राव्यमाह—
द्विधान्यन्नाट्यधर्माख्यं जनान्तमपवारितम् ।
अन्यत्तु नियतश्राव्यं द्विप्रकारं जनान्तिकापवारितभेदेन ।
तत्र जनान्तिकमाह—
त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् ॥ ६५ ॥
अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ।
यस्य न श्राव्यं तस्यान्तर ऊर्ध्वसर्वाङ्गुलं वक्रानामिकत्रिपताकालक्षणं करं
कृत्वान्येन सह यन्मन्त्र्यते तज्जनान्तिकमिति ।
१ 'पात्राङ्कस्य' इति पाठः. २ 'तेन हि द्वावपि देव्याः प्रेक्षागेहं गत्वा संगीतकोप-
करणं कृत्वा तत्रभवतो दूतं विसर्जयेतम् । अथवा मृदङ्गशब्द एवैनमुत्थापयिष्यति ।'
इति च्छाया.
३४ दशरूपकं [ प्रकाशः- १
अथापवारितम्—
रहस्यं कथ्यतेऽन्यस्य परावृत्यापवारितम् ॥ ६६ ॥
परावृत्यान्यस्य रहस्यकथनमपवारितमिति ।
नाट्यधर्मप्रसङ्गादाकाशभाषितमाह—
किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् ।
श्रुत्वेवानुक्तमप्येकस्तत्स्यादाकाशभाषितम् ॥ ६७ ॥
स्पष्टार्थः ।
अन्यान्यपि नाट्यधर्माणि प्रथमकल्पादीनि कैश्चिदुदाहृतानि तेषामभारती-
यत्वानाममालाप्रसिद्धानां केषांचिद्देशभाषात्मकत्वान्नाट्यधर्मत्वाभावाल्लक्षणं नोक्त-
मित्यपसंहरति—
इत्याद्यशेषमिह वस्तुविभेदजातं
रामायणादि च विभाव्य वृहत्कथां च ।
आसूत्रयेत्तदनु नेतृरसानुगुण्या-
च्चित्रां कथामुचितचारुवचःप्रपञ्चैः ॥ ६८ ॥
[ वस्तुविभेदजातं—वस्तु=वर्णनीयं, तस्य विभेदजातं=नामभेदः । रामायणादि-
बृहत्कथां च गुणाढ्यनिर्मितां विभाव्य आलोच्य । तदनु एतदुत्तरम् । नेत्रिति ।
नेता वक्ष्यमाणलक्षणः, रसाश्च तेषामानुगुण्याच्चित्रां चित्ररूपां कथामाख्यायि-
काम् । चारूणि यानि वचांसि तेषां प्रपञ्चैर्विस्तारैरासूत्रयेदनुग्रथयेत् । तत्र
बृहत्कथामूलं मुद्राराक्षसम् (बृ० क० २।२१६ )—
‘चाणक्यनाम्ना तेनाथ शकटालगृहे रहः ।
कृत्यां विधाय सहसा सपुत्रो निहतो नृपः ॥
योगानन्दयशःशेषे पूर्वनन्दसुतस्ततः ।
चन्द्रगुप्तः कृतो राजा चाणक्येन महौजसा ॥’
इति बृहत्कथायां सूचितं श्रीरामायणोक्तं रामकथादि ज्ञेयम् ॥]
इति श्रीविष्णुसूनोधनिकस्य कृतौ दशरूपावलोके
प्रथमः प्रकाशः समाप्तः ।
श्लो० १-२ ] अवलोकसमेतम् । ३५
द्वितीयः प्रकाशः ।
रूपाकाणामन्योन्यं भेदसिद्धये वस्तुभेदं प्रतिपाद्येदानीं नायकभेदः प्रतिपाद्यते—
नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः ।
रक्तलोकः शुचिर्वाग्मी रूढवंशः स्थिरो युवा ॥ १ ॥
बुद्ध्युत्साहस्मृतिप्रज्ञाकलामानसमन्वितः ।
शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥ २ ॥
नेता नायको विनयादिगुणसंपन्नो भवतीति ।
तत्र विनीतः । यथा वीरचरिते (४।२१)—
'यद्ब्रह्मवादिभिरुपासितवन्द्यपादे विद्यातपोव्रतनिधौ तपतां वरिष्ठे ।
दैवात्कृतस्त्वयि मया विनयापचारस्तत्र प्रसीद भगवन्नयमञ्जलिस्ते ॥'
मधुरः=प्रियदर्शनः । यथा तत्रैव—
'राम राम नयनाभिरामतामाशयस्य सदृशीं समुद्वहन् ।
अप्रतर्क्यगुणरामणीयकः सर्वथैव हृदयंगमोऽसि मे ॥' (रत्ना० २।३७)
त्यागी=सर्वस्वदायकः । यथा—
'त्वचं कर्णः शिबिर्मांसं जीवं जीमूतवाहनः ।
ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥'
दक्षः=क्षिप्रकारी । यथा वीरचरिते ( १।५३ )—
'स्फूर्जद्वज्रसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतो
रामस्य त्रिपुरान्तकृद्विषदां तेजोभिरिद्धं धनुः ।
शुण्डारः कलभेन यद्वदचले वत्सेन दोर्दण्डक-
स्तस्मिन्नाहित एव गर्जितगुणं कृष्टं च भग्नं च तत् ॥'
प्रियंवदः=प्रियभाषी । तथा तत्रैव—
'उत्पत्तिर्जमदग्नितः स भगवान्देवः पिनाकी गुरु-
र्वीर्यं यत्तु न तद्गिरा पथि ननु व्यक्तं हि तत्कर्मभिः ।
त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः
सत्यब्रह्मतपोनिधेर्भगवतः किं वा न लोकोत्तरम् ॥' (वी० च० २।३६)
रक्तलोकः । यथा तत्रैव—
'त्रय्यास्त्राता यस्तवायं तनूजस्तेनाद्यैव स्वामिनस्ते प्रसादात् ।
राजनवन्तो रामभद्रेण राज्ञा लब्धक्षेमाः पूर्णकामाश्चरामः ॥'
(वी० च० ४।४४)
एवं शौचादिष्वप्युदाहार्यम् । [ तत्र शौचं नाम मनोनेर्मल्यादिना कामाद्यनभि-
भूतत्वम् । यथा रघौ ( १६।८)—
'का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥'
१ 'राजन्वत्यः' इति पाठः.
वाग्मी । यथा हनुमन्नाटके ( १।३८)—
‘बाह्वोर्बलं न विदितं न च कार्मुकस्य त्रैयम्बकस्य तनिमा तत एष दोषः ।
तच्चापलं परशुराम मम क्षमस्व डिम्भस्य दुर्विलसितानि मुदे गुरूणाम् ॥’
रूढवंशो यथा—
‘ये चत्वारो दिनकरकुलक्षत्रसंतानमल्ली-
मालामम्लानस्तवकमधुपा जज्ञिरे राजपुत्राः ।
रामस्तेषामचरमभवस्ताडकाकालरात्रि-
प्रत्युषोऽयं सुचरितकथाकन्दलीमूलकन्दः ॥ ]’
स्थिरः=वाङ्मनःक्रियाभिरचञ्चलः । यथा वीरचरिते ( ३।८ )—
‘प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ॥’
यथा वा भर्तृहरिशतके ( नीति० श्लो० २६ )—
‘प्रारभ्यते न खलु विघ्नभयेन नी
श्लो० ३-४ ] अवलोकसमेतम् । ३७
ऽपि विप्रादीनां शान्ततैव न लालित्यम् । यथा मालतीमाधव-मृच्छकटिकादौ
माधव-चारुदत्तादिः ।
'तत उदयगिरेरिवैक एव स्फुरितगुणद्युतिसुन्दरः कलावान् ।
इह जगति महोत्सवस्य हेतुर्नयनवतामुदियाय बालचन्द्रः ॥' (माल० २।१०)
इत्यादि । यथा वा—
'मखशतपरिपूतं गोत्रमुद्भासितं यत्सदसि निबिडचैत्यब्रह्मघोषैः पुरस्तात् ।
मम निधनदशायां वर्तमानस्य पापैस्तदसद्दशमनुष्यैर्घोष्यते घोषणायाम् ॥'
अथ धीरोदात्तः—
महासत्त्वोऽतिगम्भीरः क्षमावानविकत्थनः ॥ ४ ॥
स्थिरो निगूढाहंकारो धीरोदात्तो दृढव्रतः ।
महासत्त्वः=शोकक्रोधाद्यनभिभूतान्तःसत्त्वः । अविकत्थनः=अनात्मश्लाघनः ।
निगूढाहंकारः=विनयच्छन्नावलेपः । दृढव्रतः=अङ्गीकृतनिर्वाहको धीरोदात्तः ।
यथा नागानन्दे (५।१६)—जीमूतवाहनः—
'शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति ।
तृप्तिं न पश्यामि तवैव तावत्किं भक्षणात्त्वं विरतो गरुत्मन् ॥'
यथा च रामं प्रति—
'आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥'
यच्च केषांचित्स्थैर्यादीनां सामान्यगुणानामपि विशेषलक्षणे क्वचित्संकीर्तनं
तत्तेषां तत्राधिक्यप्रतिपादनार्थम् । ननु च कथं जीमूतवाहनादिर्नागानन्दादा-
वुदात्त इत्युच्यते । औदात्यं हि नाम सर्वोत्कर्षेण वृत्तिः । तच्च विजिगीषोरे-
वोपपद्यते । जीमूतवाहनस्तु निर्जिगीषुतयैव कविना प्रतिपादितः । यथा—
'तिष्ठन्भाति पितुः पुरो भुवि यथा सिंहासने किं तथा
यत्संवाहयतः सुखं हि चरणौ तातस्य किं राज्यतः ।
किं भुक्ते भुवनत्रये धृतिरसौ भुक्तोज्झिते या गुरो-
रायासः खलु राज्यमुज्झितगुरोस्तन्नास्ति कश्चिद्गुणः ॥' (नागा० १।७ )
इत्यनेन ।
'पित्रोर्विधातुं शुश्रूषां त्यक्त्वैश्वर्यं क्रमागतम् ।
वनं याम्यहमप्येष यथा जीमूतवाहनः ॥' ( नागा० १।४ )
इत्यनेन च । अतोऽस्यात्यन्तशमप्रधानत्वात् परमकारुणिकत्वाच्च वीतरागवच्छा-
न्तता । अन्यच्चात्रायुक्तं यत्तथाभूतं राज्यसुखादौ निरभिलापं नायकमुपादाया-
न्तरा तथाभूतमलयवत्यनुरागोपवर्णनम्, यच्चोक्तं सामान्यगुणयोगी द्विजादिर्धी-
रशान्त इति, तदपि पारिभाषिकत्वादवास्तवमित्यभेदकम् । अतो वस्तुस्थित्या
बुद्ध-युधिष्ठिर-जीमूतवाहनादिव्यवहाराः शान्ततामाविर्भावयन्ति । अत्रोच्यते—
द० ४
: पेक्षत्वेनाविर्भावादुपात्तावस्थातोऽवस्थान्तराभिधानमङ्गाङ्गिनोरप्यविरुद्धम् ।Wait, look atतोऽवस्थान्तराभिधानमङ्गाङ्गिनोरप्यविरुद्धम्: Wait, in तोऽवस्थान्तराभिधानमङ्गाङ्गिनो: Look at धान: धानorल: धान! Wait, is there a broken letter? In भिधानमङ्गाङ्गिनोरप्यविरुद्धम्, the धाorल? Look at भिधान: भि+धा(broken top?) +न->भिधान! Wait, it's अभिधानमङ्गाङ्गिनोरप्यविरुद्धम्`!
Let's review the whole text line by line to ensure 100% precision:
३८ दशरूपकं [ प्रकाशः २
यत्तावदुक्तं सर्वोत्कर्षेण वृत्तिरौदार्य्यमिति, न तज्जीमूतवाहनादौ परिहीयते ।
न ह्येकरूपैव विजिगीषुता । यः केनापि शौर्यत्यागदयादिनान्यानतिशेते स
विजिगीषुः, न यः परापकारेणार्थग्रहादिप्रवृत्तः । तथात्वे च मार्गदूषकादेर
श्लो० ५–७ ] अवलोकसमेतम् । ३९
अथ शृङ्गारनेत्रवस्थाः—
स दक्षिणः शठो धृष्टः पूर्वां प्रत्यन्यया हृतः ॥ ६ ॥
नायकप्रकरणात्पूर्वां नायिकां प्रत्यन्ययाऽपूर्वनायिकयापहृतचित्तस्त्र्यवस्थो वक्ष्य-
माणभेदेन स चतुरवस्थः । तदेवं पूर्वोक्तानां चतुर्णां प्रत्येकं चतुरवस्थत्वेन
षोडशधा नायकः ।
तत्र—
दक्षिणोऽस्यां सहृदयः
योऽस्यां ज्येष्ठायां हृदयेन सह व्यवहरति स दक्षिणः । यथा ममैव—
'प्रसीदत्यालोके किमपि किमपि प्रेमगुरवो
रतिक्रीडाः कोऽपि प्रतिदिनमपूर्वोऽस्य विनयः ।
सविश्रम्भः कश्चित्कथयति च किंचित्परिजने
न चाहं प्रत्येमि प्रियसखि किमप्यस्य विकृतिम् ॥'
यथा वा (मालवि० ३।३)—
'उचितः प्रणयो वरं विहन्तुं बहवः खण्डनहेतवो हि दृष्टाः ।
उपचारविधिर्मनस्विनीनां ननु पूर्वाभ्यधिकोऽपि भावशून्यः ॥'
अथ शठः—
गूढविप्रियकृच्छठः ।
दक्षिणस्यापि नायिकान्तरापहृतचित्ततया विप्रियकारित्वाविशेषेऽपि सहृद-
यत्वेन शठाद्विशेषः । यथा—
'शठोऽन्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा
यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः ।
तदेतत्काचक्षे घृतमधुमयं लद्बहुवचो-
विषेणाघूर्णन्ती किमपि न सखी मे गणयति ॥' (अमरु० श्लो० १०९)
अथ धृष्टः—
व्यक्ताङ्गवैकृतो धृष्टो
यथामरुशतके (श्लो० ६०)—
'लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले
वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः ।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो
लीलतामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥”
भेदान्तरमाह—
ऽनुकूलस्त्वेकनायिकः ॥ ७ ॥
यथा—
'अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु य-
द्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः ।
कालेनावरणाल्पयातपरिणते यत्स्नेहसारे स्थितं
भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्राप्यते ॥'
किमवस्थः पुनरेषां वत्सराजादिर्नाटिकानायकः स्यादित्युच्यते । पूर्वमनुप-
जातनायिकान्तरानुरागोऽनुकूलः । परतस्तु दक्षिणः । ननु च गूढविप्रियकारि-
त्वाद्व्यक्ततरविप्रियत्वाच्च शाठ्यधार्ष्ट्येऽपि कस्मान्न भवतः । न तथाविधविप्रि-
यत्वेऽपि वत्सराजादेराप्रबन्धसमाप्तेर्ज्येष्ठां नायिकां प्रति सहृदयत्वाद्राक्षिण्यतैव ।
न चोभयोर्ज्येष्ठाकनिष्ठयोर्नायकस्य स्नेहेन न भवितव्यमिति वाच्यमविरोधात् ।
महाकविप्रबन्धेषु च—
'स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्वसु-
र्द्यूते रात्रिरियं जिता कमलया देवी प्रसाद्या च ।
इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥'
इत्यादावपक्षपातेन सर्वनायिकासु प्रतिपत्त्युपनिबन्धनात् ।
तथा च भरतः—
'मधुरस्त्यागी रागं न याति मदनस्य नापि वशमेति ।
अवमानितश्च नार्या विरज्यते स तु भवेज्ज्येष्ठः ॥'
इत्यत्र 'न रागं याति न मदनस्य वशमेति' इत्यनेनासाधारण एकस्यां स्नेहो निषिद्धो
दक्षिणेस्येति । अतो वत्सराजादेराप्रबन्धसमाप्ति स्थितं दाक्षिण्यमिति । षोड-
शानामपि प्रत्येकं ज्येष्ठमध्यमाधमत्वेनाष्टाचत्वारिंशन्नायकभेदा भवन्ति ।
सहायानाह—
पताकानायकस्त्वन्यः पीठमर्दो विचक्षणः ।
तस्यैवानुचरो भक्तः किंचिदूनश्च तद्गुणैः ॥ ८ ॥
प्रागुक्तप्रासङ्गिकेतिवृत्तविशेषः पताका तन्नायकः पीठमर्दः प्रधानेतिवृत्तना-
यकस्य सहायः । यथा मालतीमाधवे मकरन्दः, रामायणे सुग्रीवः ।
सहायान्तरमाह—
एकविद्यो विटश्चान्यो हास्यकृच्च विदूषकः ।
गीतादिविद्यानां नायकोपयोगिनीनामेकस्या विद्याया वेदिता विटः । हास्य-
कारी विदूषकः । अस्य विकृताकारवेषादित्वं हास्यकारित्वेनैव लभ्यते । यथा
शेखरको नागानन्दे विटः । विदूषकः प्रसिद्ध एव ।
अथ प्रतिनायकः—
लुब्धो धीरोद्धतः स्तब्धः पापकृद्व्यसनी रिपुः ॥ ९ ॥
तस्य नायकस्येत्थंभूतः प्रतिपक्षनायको भवति । यथा रामयुधिष्ठिरयो रावण-
दुर्योधनौ ।
श्लो० ८–१२ ] अवलोकसमेतम् । ४१
अथ सात्त्विका नायकगुणाः—
शोभा विलासो माधुर्यं गाम्भीर्यं १धैर्यतेजसी ।
ललितौदार्यमित्यष्टौ २सत्त्वजाः पौरुषा गुणाः ॥ १० ॥
तत्र—
नीचे घृणाऽधिके स्पर्धा शोभायां शौर्यदक्षते ।
नीचे घृणा । यथा वीरचरिते ( १।३७ )—
‘उत्तालताडकोत्पातदर्शनेऽप्यप्रकम्पितः ।
नियुक्तस्तत्प्रमाथाय स्त्रैणेन विचिकित्सति ॥’
गुणाधिकैः स्पर्धा यथा—
‘एतां पश्य पुरःस्थलीमिह किल क्रीडाकिरातो हरः
कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः ।
इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापते-
र्मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डलम् ॥’
शौर्यशोभा यथा, ममैव—
‘अन्ध्रैः स्वैरपि संयताग्रचरणो मूर्च्छाविरामक्षणे
स्वाधीनव्रणिताङ्गशस्त्रनिचितो रोमोद्गमं वर्मयन् ।
भग्नानुद्वलयन्निजान्परभटांस्तर्जयन्निष्ठुरं
धन्यो धाम जयश्रियः पृथुरणस्तम्भे पताकायते ॥’
दक्षशोभा यथा वीरचरिते ( १।५३ )—
‘स्फूर्जद्वज्रसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतो
रामस्य त्रिपुरान्तकृद्विषद्विषदं तेजोभिरिद्धं धनुः ।
शुण्डारः कलमेन यद्वदचले वत्सेन दोर्दण्डक-
स्तस्मिन्नाहित एव गर्जितगुणं कृष्टं च भग्नं च तत् ॥’
अथ विलासः—
गतिः सधैर्या दृष्टिश्च विलासे सस्मितं वचः ॥ ११ ॥
यथा ( उ० च० ६।१९ )—
‘दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयेत्युत दर्प एव ॥’
अथ माधुर्यम्—
श्लक्ष्णो विकारो माधुर्ये संक्षोभे सुमहत्यपि ।
महत्यपि विकारहेतौ मधुरो विकारो माधुर्यम् । यथा ( हनु० ना० १।१९ )—
‘कपोले जानक्याः करिकलभदन्तद्युतिमुषि
स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् ।
मुहुः पश्यञ्शृण्वन्रजनिचरसेनाकलकलं
जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥’
१ ‘स्थैर्य’ इति पाठः. २ ‘सात्त्विकाः’ इति पाठः.
४२ दशरूपकं [ प्रकाशः २
अथ गाम्भीर्यम्—
गाम्भीर्यं यत्प्रभावेन विकारो नोपलक्ष्यते ॥ १२ ॥
मृदुविकारोपलम्भाद्विकारानुपलब्धिरन्येति माधुर्यादन्यद्गाम्भीर्यम् । यथा—
‘आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥’
अथ स्थैर्यम्—
व्यवसायादचलनं स्थैर्यं विघ्नकुलादपि ।
यथा वीरचरिते ( ३।८ )—
‘प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेवं दूषयिष्यामि शस्त्रग्रहणमहाव्रतम् ॥’
अथ तेजः—
अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि ॥ १३ ॥
यथा—
‘ब्रूत नूतनकूष्माण्डफलानां के भवन्त्यमी ।
अङ्गुलीदर्शनाद्येन न जीवन्ति मनस्विनः ॥’
अथ ललितम्—
शृङ्गाराकारचेष्टात्वं सहजं ललितं मृदु ।
स्वाभाविकः शृङ्गारो मृदुः । तथाविधा शृङ्गारचेष्टा च ललितम् । यथा
ममैव—
‘लावण्यमन्मथविलासविजृम्भितेन स्वाभाविकेन सुकुमारमनोहरेण ।
किंवा ममेव सखि योऽपि ममोपदेष्टा तस्यैव किं न विषमं विदधीत तापम् ॥’
अथौदार्यम्—
प्रियोक्त्याऽऽजीविताद्दानमौदार्यं सदुपग्रहः ॥ १४ ॥
प्रियवचनेन सहाजीवितावधेर्दानमौदार्यं सतामुपग्रहश्च । यथा नागानन्दे
(५।१६)—
शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति ।
तृप्तिं न पश्यामि तवैव तावत्किं भक्षणात्त्वं विरतो गरुत्मन् ॥’
सदुपग्रहो यथा—
‘एते वयममी दाराः कन्येयं कुलजीवितम् ।
ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥’
अथ नायिका—
स्वान्या साधारणस्त्रीति तद्गुणा नायिका त्रिधा ।
तद्गुणेति यथोक्तसंभवे नायकसामान्यगुणयोगिनी नायिकेति । स्वस्त्री परस्त्री
साधारणस्त्रीत्यनेन विभागेन त्रिधा ।
१ धीरोदात्तवर्णनप्रसङ्गे ३७. पुटे गतमिदं पद्यम् ।
श्लो० १२-१६ ] अवलोकसमेतम् । ४३
तत्र स्वीयाया विभागगर्भं सामान्यलक्षणमाह—
मुग्धा मध्या प्रगल्भेति स्वीया शीलार्जवादियुक् ॥ १५ ॥
शीलं=सुवृत्तम् । पतिव्रताऽकुटिला लज्जावती पुरुपोपचारनिपुणा स्वीया नायिका ।
तत्र शीलवती यथा—
‘२कुलवालिआए पेच्छह जोव्वणलावण्णविब्भमविलासा ।
पसवंति व्व पवसिए एंति व्व पिये घरं एत्ते ॥’
आर्जवादियोगिनी यथा—
‘३हँसिअमविआरमुद्धं भमिअं विरहिअविलाससुच्छाअं ।
भणिअं सहावसरलं धण्णाणं घरे कलत्ताणं ॥’
लज्जावती यथा—
‘४लँजापज्जत्तपसाहणाईं परितित्तिणिप्पवासाईं ।
अविणअदुम्मेहाईं धण्णाणं घरे कलत्ताईं ॥’
सा चैवंविधा स्वीया मुग्धा-मध्या-प्रगल्भाभेदात्त्रिविधा ।
तत्र—
मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि ॥
प्रथमावतीर्णतारुण्यमन्मथा रमणे वामशीला सुखोपायप्रसादना मुग्धना-
यिका ।
तत्र वयोमुग्धा यथा—
‘विस्तारी स्तनभार एष गमितो न स्वोचितामुन्नतिं
रेखोद्भासिकृतं वलित्रयमिदं न स्पष्टनिम्नोन्नतम् ।
मध्येऽस्या ऋजुरायतार्धकपिशा रोमावली निर्मिता
रम्यं यौवनशैशवव्यतिकरोन्मिश्रं वयो वर्तते ॥’
यथा च ममैव—
‘उच्छ्वसन्मण्डलप्रान्तरेखमाबद्धकुड्मलम् ।
अपर्याप्तमुरोवृद्धेः शंसत्यस्याः स्तनद्वयम् ॥’
काममुग्धा यथा—
‘दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा
श्रोत्रे प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि ।
१ 'स्वापि इति पाठः.
२ 'कुलबालिकायाः प्रेक्षध्वं यौवनलावण्यविभ्रमविलासाः ।
प्रवसन्तीव प्रवसिते आगच्छन्तीव प्रिये गृहमागते ॥' इति च्छाया.
३ 'हसितमविचारमुग्धं भ्रमितं विरहितविलाससुच्छायम् ।
भणितं स्वभावसरलं धन्यानां गृहे कलत्राणाम् ॥' इति च्छाया.
४ 'लज्जापर्याप्तप्रसाधनानि परितृप्तिनिष्पिपासानि ।
अविनयदुर्मेधांसि धन्यानां गृहे कलत्राणि ॥' इति च्छाया.
५४ दशरूपकं [ प्रकाशः. २
पुंसामङ्कमुपेतशङ्कमधुना नारोहति प्राग्यथा
धात्रीणां नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥'
रतवामा यथा—
‘व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका ।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥’ ( कुमार० ८।२ )
मृदुकोपे यथा—
'प्रथमजनिते बाला मन्यौ विकारमजानती
कितवचरिते नासज्याङ्के विनम्रमुखैव सा ।
चिवुकमलिकं चोन्नम्योच्चैरकृत्रिमविभ्रमा
नयनसलिलस्यन्दिन्योष्ठे रुदन्यपि चुम्बिता ॥'
एवमन्येऽपि लज्जासंवृत्तानुरागनिबन्धना मुग्धाव्यवहारा निबन्धनीयाः ।
यथा—
'न मध्ये संस्कारं कुसुममपि बाला विषहते
न निश्वासैः सुभ्रूर्जनयति तरङ्गव्यतिकरम् ।
नवोढा पश्यन्ती लिखितमिव भर्तुः प्रतिमुखं
प्ररोहद्रोमाञ्चा न पिबति न पात्रं चलयति ॥'
अथ मध्या—
मध्योद्भवद्यौवनानङ्गा मोहान्तसुरतक्षमा ॥ १६ ॥
संप्राप्ततारुण्यकामा मोहान्तरतयोग्या मध्या ।
तत्र यौवनवती यथा—
'आलापान्भ्रूविलासो विरलयति लसद्बाहुविक्षिप्तिशीतं
नीवीग्रन्थिं प्रथिम्ना प्रतनयति मनाङ्मध्यनिम्नो नितम्बः ।
उत्पुष्पत्तार्ममूर्च्छत्कुचशिखरमुरो नूनमन्तः स्मरेण
स्पृष्टा कोदण्डकोट्या हरिणशिशुदृशो दृश्यते यौवनश्रीः ॥'
कामवती यथा—
'स्मरनवनदीपूरेणोढाः पुनर्गुरुसेतुभि-
र्यदपि विधृतास्तिष्ठन्त्यारादपूर्णमनोरथाः ।
तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा
नयननलिनीनालाकृष्टं पिबन्ति रसं प्रियाः ॥'
( अमरु० श्लो० १०४ )
मध्यासंभोगो यथा—
'तोव चिअ वइसमए महिलाणं विब्भमा विराअंति ।
जाव ण कुवलयदलसच्छहाइ मउलेंति णअणाइं ॥'
एवं धीरायामधीरायां धीराधीरायामप्युदाहार्यम् ।
१ 'तावदेव रतिसमये महिलानां विभ्रमा विराजन्ते ।
यावन्न कुवलयदलस्वच्छभानि मुकुलयन्ति नयनानि ॥' इति च्छाया.
श्लो० १६-१८ ] अवलोकसमेतम् । ४५
अथास्या मानसंवृत्तिः—
धीरा सोत्प्रासवक्रोक्त्या मध्या साश्रु कृतागसम् ।
खेदयेद्दयितं कोपादधीरा परुषाक्षरम् ॥ १७ ॥
मध्याधीरा कृतापराधं प्रियं सोत्प्रासवक्रोक्त्या खेदयेत् । यथा माघे (६।१९)—
‘न खलु वयममुष्य दानयोग्याः पिबति च पाति च यामसौ रहस्त्वाम् ।
व्रज विटपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥’
धीराधीरा साश्रु सोत्प्रासवक्रोक्त्या खेदयेत् । यथामरुशतके (श्लो० ५७)—
‘बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं
खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि ।
तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते
नन्वेत्तन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥’
अधीरा साश्रु परुषाक्षरम् । यथा--
‘यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि मादरं कृथाः ।
खण्डिताधरकलङ्कितं प्रियं शक्नुमो न नयनैर्निरीक्षितुम् ॥’
एवमपरेऽपि व्रीडानुषहिताः स्वयमनभियोगकारिणो मध्याव्यवहारा भवन्ति ।
यथा—
‘खेद्दाम्भःकणिकाञ्चितेऽपि वदने जातेऽपि रोमोद्गमे
विश्रम्भेऽपि गुरौ पयोधरभरोत्कम्पेऽपि वृद्धिं गते ।
दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रिय-
स्तन्वङ्ग्या हठकेशकर्षणघनाश्लेषामृते लुब्धया ॥’
क्षतोऽनभियोजकत्वं हठकेशकर्षणघनाश्लेषामृते लुब्धयेवेत्युत्प्रेक्षाप्रतीतेः ।
अथ प्रगल्भा—
यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्कके ।
विलीयमानेवानन्दाद्रतारम्भेऽप्यचेतना ॥ १८ ॥
गाढयौवना, यथा ममैव—
‘अभ्युन्नतस्तनमुरो नयने च दीर्घे वक्त्रे भ्रुवावतितरां वचनं ततोऽपि ।
मध्योऽधिकं तनुरतीव गुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः ॥’
यथा च—
‘स्तनतटमिदमुत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् ।
विषमे मृगशावाक्ष्या वपुषि नवे क इव न स्खलति ॥’
भावप्रगल्भा यथा—
‘न जाने संमुखायाते प्रियाणि वदति प्रिये ।
सर्वाण्यङ्गानि किं यान्ति नेत्रतामुत कर्णताम् ॥’ ( अमरु० श्लो० ६४ )
रतप्रगल्भा ( अमरु० श्लो० १०१ ) यथा—
‘कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना-
द्वासः प्रश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।
४६ दशरूपकं [ प्रकाशः २
एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः
कोऽसौ कास्मि रतं नु किं कथमिति स्वल्पापि मे न स्मृतिः ॥'
एवमन्येऽपि परित्यक्तह्रीयन्त्रणावैदग्ध्यप्रायाः प्रगल्भाव्यवहारा वेदितव्याः ।
यथा (अमरु० श्लो० १०७)—
'क्वचित्ताम्बूलाक्तः क्वचिदगुरुपङ्काङ्कमलिनः
क्वचिच्चूर्णोद्गारी क्वचिदपि च सालक्तकपदः ।
वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः
स्त्रियाः सर्वावस्थां कथयति रतं प्रच्छदपटः ॥'
अथास्याः कोपचेष्टा—
सावहित्थादरोदास्ते रतौ धीरेतरा क्रुधा ।
संतर्ज्य ताडयेन्मध्या मध्याधीरेव तं वदेत् ॥ १९ ॥
सहावहित्थेनाकारसंवरणेनादरेण चोपचाराधिक्येन वर्तते सा सावहित्था-
दरा । रतावुदासीना क्रुधा कोपेन भवति ।
सावहित्थादरा यथामरुशतके (श्लो० १८)—
'एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद्दूरतः
ताम्बूलाहरणच्छलेन रभसाश्लेषोऽपि संविघ्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥'
रतावुदासीना यथा (अमरु० श्लो० १०६)—
'आयस्ता कलहं पुरेव कुरुते न स्रंसने वाससो
भग्नभ्रूगतिखण्ड्यमानमधरं धत्ते न केशग्रहे ।
अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने
तन्व्या शिक्षित एष संप्रति कुतः कोपप्रकारोऽपरः ॥'
इतरा त्वधीरप्रगल्भा कुपिता सती संतर्ज्य ताडयति । यथामरुशतके
(श्लो० ९)—
'कोपात्कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढं
नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः ।
भूयोऽप्येवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एष निह्नुतिपरः प्रेयान् रुदन्त्या हसन् ॥'
धीराधीरप्रगल्भा मध्याधीरेव तं वदति सोत्प्रासवक्रोक्त्या । यथा तत्रैव—
'कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं
यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः ।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं
त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ॥' (अमरु० श्लो० ३८)
१ 'कान्तम्' इति पाठः.
श्लो० १९-२२ ] अवलोकसमेतम् । ४७
पुनश्च—
द्वेधा ज्येष्ठा कनिष्ठा चेत्यमुग्धा द्वादशोदिताः ।
मध्याप्रगल्भाभेदानां प्रत्येकं ज्येष्ठाकनिष्ठत्वभेदेन द्वादश भेदा भवन्ति ।
मुग्धा त्वेकरूपैव ।
ज्येष्ठाकनिष्ठे यथामरुशतके (श्लो० १९)—
'दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा-
देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा-
मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥'
न चानयोर्दाक्षिण्यप्रेमभ्यामेव व्यवहारः । अपि तु प्रेम्णापि । यथा चैतत्त-
थोक्तं दक्षिणलक्षणावसरे । [ एषां च धीरमध्या-अधीरमध्या-धीराधीरमध्या-
धीरप्रगल्भा-अधीरप्रगल्भा-धीराधीरप्रगल्भाभेदानां प्रत्येकं ज्येष्ठा-कनिष्ठाभेदाद्द्वा-
दशानां वासवदत्ता-रत्नावलीवत् प्रबन्धनायिकानामुदाहरणानि महाकविप्रबन्धेष्व-
नुसर्तव्यानि । ]
अथान्यस्त्री—
अन्यस्त्री कन्यकोढा च नान्योढाङ्गिरसे क्वचित् ॥ २० ॥
कन्यानुरागमि¹च्छतः कुर्यादङ्गाङ्गिसंश्रयम् ।
नायकान्तरसम्बन्धिन्यन्योढा, यथा—
'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि
प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
· एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं
नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ॥'
इयं त्वङ्गिनि प्रधाने रसे न क्वचिन्निवन्धनीयेति न प्रपञ्चिता । कन्यका तु
पित्राद्यायत्तत्वादपरिणीताप्यन्यस्त्रीत्युच्यते । तस्यां पित्रादिभ्योऽलभ्यमानायां
सुलभायामपि परोपरोधस्वकान्ताभयात् प्रच्छन्नं कामित्वं प्रवर्तते । यथा मालत्यां
माधवस्य सागरिकायां च वत्सराजस्येति, तदनुरागश्च स्वेच्छया प्रधानाप्रधान-
रससमाश्रयो निबन्धनीयः । यथा रत्नावली-नागानन्दयोः सागरिका-मलयव-
त्यनुराग इति ।
साधारणस्त्री गणिका कलाप्रागल्भ्यधौर्त्ययुक् ॥ २१ ॥
तद्व्यवहारो विस्तरतः शास्त्रान्तरे प्रदर्शितः । दिङ्मात्रं तु—
छन्नकामसुखार्थाज्ञस्वतन्त्राहंयुषण्डकान् ।
रक्तेव रञ्जयेद्वाह्यैर्निःस्वान्मात्रा विवासयेत् ॥ २२ ॥
छन्नं ये कामयन्ते ते छन्नकामाः श्रोत्रियवणिक्लिङ्गिप्रभृतयः, सुखार्थी=अप्र-
यासावाप्तधनः सुखप्रयोजनो वा, अज्ञः=मूर्खः, स्वतन्त्रः=निरङ्कुशः, अहंयुः=अहं-
१ 'अन्विच्छन्' इति पाठः.
कृतः, षण्डकः=वातषण्डादिः, एतान्बहुवित्तान् रक्तेव रञ्जयेदर्थार्थम् । तत्प्रधान-
लात्तद्वृत्तेः । गृहीतार्थान्कुट्टन्यादिना निष्कासयेत्पुनः प्रतिसंधानाय । इदं तासा-
मौत्सर्गिकं रूपम् ।
रूपकेषु तु—
१रक्तैव त्वप्रहसने नैषा दिव्यनृपाश्रये ।
प्रहसनवर्जिते प्रकरणादौ रक्तैवैषा विधेया । यथा मृच्छकटिकायां वसन्त-
सेना चारुदत्तस्य । प्रहसने त्वरक्तापि हास्यहेतुत्वात् । नाटकादौ तु दिव्यनृप-
नायके नैव विधेया ।
अथ भेदान्तराणि—
आसामष्टावस्थाः स्युः स्वाधीनपतिकादिकाः ॥ २३ ॥
स्वाधीनपतिका, वासकसज्जा, विरहोत्कण्ठिता, खण्डिता, कलहान्तरिता, विप्र-
लब्धा, प्रोषितप्रिया, अभिसारिका इत्यष्टौ स्वस्त्रीप्रभृतीनामवस्थाः । नायकाप्रभृती-
नामप्यवस्थारूपत्वे सत्यवस्थान्तराभिधानं पूर्वासां धर्मित्वप्रतिपादनायातावतीति
न्यूनाधिकव्यवच्छेदः । न च वासकसज्जादेः स्वाधीनपतिकादावन्तर्भावः ।
अनासन्नप्रियत्वाद्वासकसज्जाया न स्वाधीनपतिकात्वम् । यदि चैष्यत्प्रियापि
स्वाधीनपतिका प्रोषितप्रियापि न पृथग्वाच्या । न चेयता व्यवधानेनासत्तिरिति
नियन्तुं शक्यम् । न चाविदितप्रियव्यलीकायाः खण्डितात्वं, नापि प्रवृत्तरति-
भोगेच्छायाः प्रोषितप्रियात्वं स्वयमगमनान्नायकं प्रत्यप्रयोजकत्वान्नाभिसारिका-
त्वम् । एवमुत्कण्ठिताप्यन्यैव पूर्वाभ्यः । औचित्यप्राप्तप्रियागमनसमयातिवृत्ति-
विधुरा न वासकसज्जा । तथा विप्रलब्धापि वासकसज्जावदन्यैव पूर्वाभ्यः ।
उक्त्वा नायात इति प्रतारणाधिक्याच्च वासकसज्जोत्कण्ठितयोः पृथक् । कलहा-
न्तरिता तु यद्यपि विदितव्यलीका तथाप्यगृहीतप्रियानुनया पश्चात्तापकाङ्क्षित-
प्रसादा पृथगेव खण्डितायाः । तत्स्थितमेतदष्टावस्था इति ।
तत्र—
आसन्नायत्तरमणा हृष्टा स्वाधीनभर्तृका ।
यथा—
‘मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति ।
अन्यापि किं न सखि भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरायः ॥’
अथ वासकसज्जा—
मुदा वासकसज्जा स्व मण्डयत्येष्यति प्रिये ॥ २४ ॥
स्वमात्मानं वेश्म च हर्षेण भूषयत्येष्यति प्रिये । वासकसज्जा यथा—
‘निजपाणिपल्लवतटस्खलनादभिनासिकाविवरमुत्पतितैः ।
अपरा परीक्ष्य शनकैर्मुमुदे सुखवासमास्यकमलश्वसनैः ॥’ ( शिशु० ९।५२ )
१ ‘रूपकेष्वनुरक्तैव कार्या प्रहसनेतरे’ इति पाठः.
श्लो० २३–२७ ] अवलोकसमेतम् । ४९
अथ विरहोत्कण्ठिता—
चिरयत्यव्यलीके तु विरहोत्कण्ठितोन्मनाः ।
यथा—
‘सखि स विजितो वीणावाद्यैः कथाप्यपरस्त्रिया
पणितमभवत्ताभ्यां तत्र क्षपाललितं ध्रुवम् ।
कथमितरथा शेफालीषु स्खलत्कुसुमास्वपि
प्रसरति नभोमध्येऽपीन्दौ प्रियेण विलम्ब्यते ॥’
अथ खण्डिता—
ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता ॥ २५ ॥
यथा ( शिशु० ११।३४ )—
‘नवनखपदमङ्गं गोपयस्यंशूकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥’
अथ कलहान्तरिता—
कलहान्तरितामर्षाद्विधूतेऽनुशयार्तियुक् ।
यथा ( अमरु० श्लो० ९२ )—
‘निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते
निद्रा नैति न दृश्यते प्रियसुखं नक्तंदिवं रुद्यते ।
अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥’
अथ विप्रलब्धा—
विप्रलब्धोक्तसमयमप्राप्तेऽतिविमानिता ॥ २६ ॥
यथा—
‘उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः ।
यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः ॥’
अथ प्रोषितप्रिया—
दूरदेशान्तरस्थे तु कार्यतः प्रोषितप्रिया ।
यथामरुशतके ( श्लो० ७६ )—
‘आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया
विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
दत्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणे
मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥’
अथाभिसारिका—
कामार्ताभिसरेत् कान्तं सारयेद्वाभिसारिका ॥ २७ ॥
१ ‘विरहोत्कण्ठिता मता’ इति पाठः. २ ‘विधुते’ इति पाठः.
द० ५