सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 50, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 50

श्लो० ५–७ ] अवलोकसमेतम् । ३९
अथ शृङ्गारनेत्रवस्थाः—
स दक्षिणः शठो धृष्टः पूर्वां प्रत्यन्यया हृतः ॥ ६ ॥
नायकप्रकरणात्पूर्वां नायिकां प्रत्यन्ययाऽपूर्वनायिकयापहृतचित्तस्त्र्यवस्थो वक्ष्य-
माणभेदेन स चतुरवस्थः । तदेवं पूर्वोक्तानां चतुर्णां प्रत्येकं चतुरवस्थत्वेन
षोडशधा नायकः ।
तत्र—
दक्षिणोऽस्यां सहृदयः
योऽस्यां ज्येष्ठायां हृदयेन सह व्यवहरति स दक्षिणः । यथा ममैव—
'प्रसीदत्यालोके किमपि किमपि प्रेमगुरवो
रतिक्रीडाः कोऽपि प्रतिदिनमपूर्वोऽस्य विनयः ।
सविश्रम्भः कश्चित्कथयति च किंचित्परिजने
न चाहं प्रत्येमि प्रियसखि किमप्यस्य विकृतिम् ॥'
यथा वा (मालवि० ३।३)—
'उचितः प्रणयो वरं विहन्तुं बहवः खण्डनहेतवो हि दृष्टाः ।
उपचारविधिर्मनस्विनीनां ननु पूर्वाभ्यधिकोऽपि भावशून्यः ॥'
अथ शठः—
गूढविप्रियकृच्छठः ।
दक्षिणस्यापि नायिकान्तरापहृतचित्ततया विप्रियकारित्वाविशेषेऽपि सहृद-
यत्वेन शठाद्विशेषः । यथा—
'शठोऽन्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा
यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः ।
तदेतत्काचक्षे घृतमधुमयं लद्बहुवचो-
विषेणाघूर्णन्ती किमपि न सखी मे गणयति ॥' (अमरु० श्लो० १०९)
अथ धृष्टः—
व्यक्ताङ्गवैकृतो धृष्टो
यथामरुशतके (श्लो० ६०)—
'लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले
वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः ।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो
लीलतामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥”
भेदान्तरमाह—
ऽनुकूलस्त्वेकनायिकः ॥ ७ ॥
यथा—
'अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु य-
द्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः ।