सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 54, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 54

श्लो० १२-१६ ] अवलोकसमेतम् । ४३
तत्र स्वीयाया विभागगर्भं सामान्यलक्षणमाह—
मुग्धा मध्या प्रगल्भेति स्वीया शीलार्जवादियुक् ॥ १५ ॥
शीलं=सुवृत्तम् । पतिव्रताऽकुटिला लज्जावती पुरुपोपचारनिपुणा स्वीया नायिका ।
तत्र शीलवती यथा—
‘२कुलवालिआए पेच्छह जोव्वणलावण्णविब्भमविलासा ।
पसवंति व्व पवसिए एंति व्व पिये घरं एत्ते ॥’
आर्जवादियोगिनी यथा—
‘३हँसिअमविआरमुद्धं भमिअं विरहिअविलाससुच्छाअं ।
भणिअं सहावसरलं धण्णाणं घरे कलत्ताणं ॥’
लज्जावती यथा—
‘४लँजापज्जत्तपसाहणाईं परितित्तिणिप्पवासाईं ।
अविणअदुम्मेहाईं धण्णाणं घरे कलत्ताईं ॥’
सा चैवंविधा स्वीया मुग्धा-मध्या-प्रगल्भाभेदात्त्रिविधा ।
तत्र—
मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि ॥
प्रथमावतीर्णतारुण्यमन्मथा रमणे वामशीला सुखोपायप्रसादना मुग्धना-
यिका ।
तत्र वयोमुग्धा यथा—
‘विस्तारी स्तनभार एष गमितो न स्वोचितामुन्नतिं
रेखोद्भासिकृतं वलित्रयमिदं न स्पष्टनिम्नोन्नतम् ।
मध्येऽस्या ऋजुरायतार्धकपिशा रोमावली निर्मिता
रम्यं यौवनशैशवव्यतिकरोन्मिश्रं वयो वर्तते ॥’
यथा च ममैव—
‘उच्छ्वसन्मण्डलप्रान्तरेखमाबद्धकुड्मलम् ।
अपर्याप्तमुरोवृद्धेः शंसत्यस्याः स्तनद्वयम् ॥’
काममुग्धा यथा—
‘दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा
श्रोत्रे प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि ।
१ 'स्वापि इति पाठः.
२ 'कुलबालिकायाः प्रेक्षध्वं यौवनलावण्यविभ्रमविलासाः ।
प्रवसन्तीव प्रवसिते आगच्छन्तीव प्रिये गृहमागते ॥' इति च्छाया.
३ 'हसितमविचारमुग्धं भ्रमितं विरहितविलाससुच्छायम् ।
भणितं स्वभावसरलं धन्यानां गृहे कलत्राणाम् ॥' इति च्छाया.
४ 'लज्जापर्याप्तप्रसाधनानि परितृप्तिनिष्पिपासानि ।
अविनयदुर्मेधांसि धन्यानां गृहे कलत्राणि ॥' इति च्छाया.