सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 57, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 57

४६ दशरूपकं [ प्रकाशः २
एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः
कोऽसौ कास्मि रतं नु किं कथमिति स्वल्पापि मे न स्मृतिः ॥'
एवमन्येऽपि परित्यक्तह्रीयन्त्रणावैदग्ध्यप्रायाः प्रगल्भाव्यवहारा वेदितव्याः ।
यथा (अमरु० श्लो० १०७)—
'क्वचित्ताम्बूलाक्तः क्वचिदगुरुपङ्काङ्कमलिनः
क्वचिच्चूर्णोद्गारी क्वचिदपि च सालक्तकपदः ।
वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः
स्त्रियाः सर्वावस्थां कथयति रतं प्रच्छदपटः ॥'
अथास्याः कोपचेष्टा—
सावहित्थादरोदास्ते रतौ धीरेतरा क्रुधा ।
संतर्ज्य ताडयेन्मध्या मध्याधीरेव तं वदेत् ॥ १९ ॥
सहावहित्थेनाकारसंवरणेनादरेण चोपचाराधिक्येन वर्तते सा सावहित्था-
दरा । रतावुदासीना क्रुधा कोपेन भवति ।
सावहित्थादरा यथामरुशतके (श्लो० १८)—
'एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद्दूरतः
ताम्बूलाहरणच्छलेन रभसाश्लेषोऽपि संविघ्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥'
रतावुदासीना यथा (अमरु० श्लो० १०६)—
'आयस्ता कलहं पुरेव कुरुते न स्रंसने वाससो
भग्नभ्रूगतिखण्ड्यमानमधरं धत्ते न केशग्रहे ।
अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने
तन्व्या शिक्षित एष संप्रति कुतः कोपप्रकारोऽपरः ॥'
इतरा त्वधीरप्रगल्भा कुपिता सती संतर्ज्य ताडयति । यथामरुशतके
(श्लो० ९)—
'कोपात्कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढं
नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः ।
भूयोऽप्येवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एष निह्नुतिपरः प्रेयान् रुदन्त्या हसन् ॥'
धीराधीरप्रगल्भा मध्याधीरेव तं वदति सोत्प्रासवक्रोक्त्या । यथा तत्रैव—
'कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं
यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः ।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं
त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ॥' (अमरु० श्लो० ३८)
१ 'कान्तम्' इति पाठः.