सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 43, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 43

३२ दशरूपकं [ प्रकाशः १
विष्कम्भचूलिकाङ्कास्याङ्कावतारप्रवेशकैः ॥ ५८ ॥
तत्र विष्कम्भः—
वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥ ५९ ॥
अतीतानां भाविनां च कथावयवानां ज्ञापको मध्यमेन मध्यमाभ्यां वा
पात्राभ्यां प्रयोजितो विष्कम्भक इति ।
स द्विविधः—शुद्धः, संकीर्णश्चेत्याह—
एकानेककृतः शुद्धः संकीर्णो नीचमध्यमैः ।
एकेन द्वाभ्यां वा मध्यमपात्राभ्यां शुद्धो भवति । मध्यमाधमपात्रैर्युगपत्प्रयो-
जितः संकीर्ण इति ।
अथ प्रवेशकः—
तद्वदेवानुदात्तोक्त्या नीचपात्रप्रयोजितः ॥ ६० ॥
प्रवेशोऽङ्कद्वयस्यान्तः शेषार्थस्योपसूचकः ।
तद्वदेवेति भूतभविष्यदर्थज्ञापकत्वमतिदिश्यते । अनुदात्तोक्त्या नीचेन नीचैर्वा
पात्रैः प्रयोजित इति विष्कम्भलक्षणापवादः । अङ्कद्वयस्यान्ते इति प्रथमाङ्के
प्रतिषेध इति ।
अथ चूलिका—
अन्तर्जवनिकासंस्थैश्चूलिकार्थस्य सूचना ॥ ६१ ॥
नेपथ्यपात्रेणार्थसूचनं=चूलिका । यथोत्तरचरिते द्वितीयाङ्कस्यादौ (पृ० ५१)—
‘(नेपथ्ये ।) स्वागतं तपोधनायाः । (ततः प्रविशति तपोधना ।)’ इति नेपथ्यपात्रेण
वासन्तिकयात्रेयीसूचनात् चूलिका ।
यथा वा वीरचरिते चतुर्थाङ्कस्यादौ (पृ० ११७) ‘(नेपथ्ये ।) भो भो
वैमानिकाः, प्रवर्त्यन्तां प्रवर्त्यन्तां मङ्गलानि,—
कृशाश्वान्तेवासी जयति भगवान्कौशिकमुनिः
सहस्रांशोर्वंशे जगति विजयी क्षत्रमधुना ।
विनेता क्षत्रारेर्जगदभयदानव्रतधरः
शरण्यो लोकानां दिनकरकुलेन्दुर्विजयते ॥’ (वीर० ४।१)
इत्यत्र नेपथ्यपात्रैर्देवै रामेण परशुरामो जित इति सूचनात् चूलिका ।
अथाङ्कास्यम्—
अङ्कान्तपात्रैरङ्कास्यं छिन्नाङ्कस्यार्थसूचनात् ।
अङ्कान्त एव पात्रमङ्कान्तपात्रम् । तेन विच्छिन्नस्योत्तराङ्कमुखस्य सूचनं तद्व-
शेनोत्तराङ्कावतारोऽङ्कास्यमिति । यथा वीरचरिते द्वितीयाङ्कान्ते (पृ० ८२)—
१ ‘अन्ते’ इति पाठः. २ ‘अन्तर्यवनिका’ इति पाठः.