सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 60, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 60

श्लो० २३–२७ ] अवलोकसमेतम् । ४९
अथ विरहोत्कण्ठिता—
चिरयत्यव्यलीके तु विरहोत्कण्ठितोन्मनाः ।
यथा—
‘सखि स विजितो वीणावाद्यैः कथाप्यपरस्त्रिया
पणितमभवत्ताभ्यां तत्र क्षपाललितं ध्रुवम् ।
कथमितरथा शेफालीषु स्खलत्कुसुमास्वपि
प्रसरति नभोमध्येऽपीन्दौ प्रियेण विलम्ब्यते ॥’
अथ खण्डिता—
ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता ॥ २५ ॥
यथा ( शिशु० ११।३४ )—
‘नवनखपदमङ्गं गोपयस्यंशूकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥’
अथ कलहान्तरिता—
कलहान्तरितामर्षाद्विधूतेऽनुशयार्तियुक् ।
यथा ( अमरु० श्लो० ९२ )—
‘निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते
निद्रा नैति न दृश्यते प्रियसुखं नक्तंदिवं रुद्यते ।
अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥’
अथ विप्रलब्धा—
विप्रलब्धोक्तसमयमप्राप्तेऽतिविमानिता ॥ २६ ॥
यथा—
‘उत्तिष्ठ दूति यामो यामो यातस्तथापि नायातः ।
यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः ॥’
अथ प्रोषितप्रिया—
दूरदेशान्तरस्थे तु कार्यतः प्रोषितप्रिया ।
यथामरुशतके ( श्लो० ७६ )—
‘आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया
विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
दत्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणे
मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥’
अथाभिसारिका—
कामार्ताभिसरेत् कान्तं सारयेद्वाभिसारिका ॥ २७ ॥
१ ‘विरहोत्कण्ठिता मता’ इति पाठः. २ ‘विधुते’ इति पाठः.
द० ५