सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 44, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 44

श्लो० ५८-६५ ] अवलोकसमेतम् । ३३
'( प्रविश्य । ) सुमन्त्रः—भगवन्तौ वसिष्ठविश्वामित्रौ भवतः सभार्गवानाह्वयतः ।
इतरे—क्व भगवन्तौ ? सुमन्त्रः—महाराजदशरथस्यान्तिके । इतरे—तदनु-
रोधात्तत्रैव गच्छामः ।' इत्यङ्कसमाप्तौ '( ततः प्रविशन्त्युपविष्टा वसिष्ठविश्वामित्र-
परशुरामाः । )' इत्यत्र पूर्वाङ्कान्त एव प्रविष्टेन सुमन्त्रपात्रेण शतानन्दजनककथार्थ-
विच्छेद उत्तराङ्कमुखसूचनादङ्कास्यमिति ।
अथाङ्कावतारः—
अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः ॥ ६२ ॥
एभिः संसूचयेत्सूच्यं दृश्यमङ्कैः प्रदर्शयेत् ।
यत्र प्रविष्टमात्रेण सूचितमेव पूर्वाङ्काविच्छिन्नार्थतयैवाङ्कान्तरमापतति प्रवेशक-
विष्कम्भकादिशून्यं सोऽङ्कावतारः । यथा मालविकाग्निमित्रे प्रथमाङ्कान्ते ( पृ०
२१ )—'विदूषकः—तेणं हि दुवेवि देवीए पेक्खागेहं गढुअ संगीदोवअरणं
करिअ तत्तभवदो दूदं विसज्जेध । अथवा मुदंगसद्दो जेव णं उत्थावयिस्सदि ।'
इत्युपक्रमे मृदङ्गशब्दश्रवणादनन्तरं सर्वाण्येव पात्राणि प्रथमाङ्कप्रक्रान्तपात्रसंक्रा-
न्तिदर्शनं द्वितीयाङ्कादावारभन्त इति प्रथमाङ्कार्थाविच्छेदेनैव द्वितीयाङ्कस्यावत-
रणादङ्कावतार इति ।
पुनस्त्रिधा वस्तुविभागमाह—
नाट्यधर्ममपेक्ष्यैतत्पुनर्वस्तु त्रिधेष्यते ॥ ६३ ॥
केन प्रकारेण त्रैधं तदाह—
सर्वेषां नियतस्यैव श्राव्यमश्राव्यमेव च ।
तत्र,—
सर्वश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम् ॥ ६४ ॥
सर्वश्राव्यं यद्वस्तु तत्प्रकाशमित्युच्यते । यत्तु सर्वस्याश्राव्यं तत्स्वगतमिति
शब्दाभिधेयम् ।
नियतश्राव्यमाह—
द्विधान्यन्नाट्यधर्माख्यं जनान्तमपवारितम् ।
अन्यत्तु नियतश्राव्यं द्विप्रकारं जनान्तिकापवारितभेदेन ।
तत्र जनान्तिकमाह—
त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् ॥ ६५ ॥
अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ।
यस्य न श्राव्यं तस्यान्तर ऊर्ध्वसर्वाङ्गुलं वक्रानामिकत्रिपताकालक्षणं करं
कृत्वान्येन सह यन्मन्त्र्यते तज्जनान्तिकमिति ।
१ 'पात्राङ्कस्य' इति पाठः. २ 'तेन हि द्वावपि देव्याः प्रेक्षागेहं गत्वा संगीतकोप-
करणं कृत्वा तत्रभवतो दूतं विसर्जयेतम् । अथवा मृदङ्गशब्द एवैनमुत्थापयिष्यति ।'
इति च्छाया.