दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 41, कुल 168 में से
संदर्भ में पढ़ेंकृतगुरुमहदादिक्षोभसंभूतभूतिं गुणिनमुदयनाशास्थानहेतुं प्रजानाम् ।
अजममरमचिन्त्यं चिन्तयित्वापि न त्वां भवति जगति दुःखी किं पुनर्दैव दृष्ट्वा ॥'
(वे० सं० ६।४२) इत्यनेन युधिष्ठिरदुःखापगमं दर्शयति ।
अथ कृतिः—
कृतिर्लब्धार्थशमनं
यथा रत्नावल्याम् (पृ० १९८)—'राजा—को देव्याः प्रसादं न बहु मन्यते ।
वासवदत्ता—अँजउत्त, दूरे से माउउलं । ता तथा करेसु जथा बंधुअणं न
सुमरेदि ।' इत्यन्योन्यवचसा लब्धायां रत्नावल्यां राज्ञः सुस्थितये उपशमनात्
कृतिरिति ।
यथा च वेणीसंहारे (पृ० २०४)—'कृष्णः—एते खलु भगवन्तो व्यास-
वाल्मीकि—' इत्यादिना 'अभिषेकमारब्धवन्तस्तिष्ठन्ति ।' इत्यनेन प्राप्तराज्यस्याभि-
षेकमङ्गलैः स्थिरीकरणं कृतिः ।
अथ भाषणम्—
मानावाप्तिश्च भाषणम् ।
यथा रत्नावल्याम् (पृ० २००)—'राजा—अतःपरमपि प्रियमस्ति ।
यातो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले
सारं सागरिका ससागरमहीप्राप्त्येकहेतुः प्रिया ।
देवी प्रीतिमुपागता च भगिनीलाभाज्जिताः कोशलाः
किं नास्ति त्वयि सत्यमात्यवृषभे यस्मै करोमि स्पृहाम् ॥' (रत्ना० ४।२०)
इत्यनेन कामार्थमानादिलाभाद्भाषणमिति ।
अथ पूर्वभावोपगूहने—
कार्यदृष्ट्यद्भुतप्राप्ती पूर्वभावोपगूहने ॥ ५३ ॥
कार्यदर्शनं=पूर्वभावः । यथा रत्नावल्याम् (पृ० १९८)—'यौगन्धरायणः—
एवं विज्ञाय भगिन्याः संप्रति करणीये देवी प्रमाणम् । वासवदत्ता—फुँडं जेव
किं ण भणेसि ? पडिवाएहि से रअणमालं त्ति ।' इत्यनेन 'वत्सराजाय रत्नावली
दीयताम् ।' इति कार्यस्य यौगन्धरायणाभिप्रायानुप्रविष्टस्य वासवदत्तया दर्शनात्
पूर्वभाव इति ।
अद्भुतप्राप्तिः=उपगूहनम् । यथा वेणीसंहारे (पृ० २०२)—'(नेपथ्ये ।)
महासमरानलदग्धशेषाय स्वस्ति भवते राजन्यलोकाय,—
क्रोधान्धैर्यस्य मोक्षात्क्षतनरपतिभिः पाण्डुपुत्रैः कृतानि
प्रत्याशं मुक्तकेशान्यनुदिनमधुना पार्थिवान्तःपुराणि ।
१ 'आर्यपुत्र, दूरेऽस्या मातृकुलम् । तत्तथा कुरुष्व यथा बन्धुजनं न स्मरति ।' इति
च्छाया. २ 'नीतः' इति पाठः । ३ 'स्फुटमेव किं न भणसि ? प्रतिपादयास्यै रत्नमा-
लाम् ।' इति च्छाया.