सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 48, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 48

श्लो० ३-४ ] अवलोकसमेतम् । ३७
ऽपि विप्रादीनां शान्ततैव न लालित्यम् । यथा मालतीमाधव-मृच्छकटिकादौ
माधव-चारुदत्तादिः ।
'तत उदयगिरेरिवैक एव स्फुरितगुणद्युतिसुन्दरः कलावान् ।
इह जगति महोत्‍सवस्य हेतुर्नयनवतामुदियाय बालचन्द्रः ॥' (माल० २।१०)
इत्यादि । यथा वा—
'मखशतपरिपूतं गोत्रमुद्भासितं यत्सदसि निबिडचैत्यब्रह्मघोषैः पुरस्तात् ।
मम निधनदशायां वर्तमानस्य पापैस्तदसद्दशमनुष्यैर्घोष्यते घोषणायाम् ॥'
अथ धीरोदात्तः—
महासत्त्वोऽतिगम्भीरः क्षमावानविकत्थनः ॥ ४ ॥
स्थिरो निगूढाहंकारो धीरोदात्तो दृढव्रतः ।
महासत्त्वः=शोकक्रोधाद्यनभिभूतान्तःसत्त्वः । अविकत्थनः=अनात्मश्लाघनः ।
निगूढाहंकारः=विनयच्छन्नावलेपः । दृढव्रतः=अङ्गीकृतनिर्वाहको धीरोदात्तः ।
यथा नागानन्दे (५।१६)—जीमूतवाहनः—
'शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति ।
तृप्तिं न पश्यामि तवैव तावत्किं भक्षणात्त्वं विरतो गरुत्मन् ॥'
यथा च रामं प्रति—
'आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥'
यच्च केषांचित्स्थैर्यादीनां सामान्यगुणानामपि विशेषलक्षणे क्वचित्संकीर्तनं
तत्तेषां तत्राधिक्यप्रतिपादनार्थम् । ननु च कथं जीमूतवाहनादिर्नागानन्दादा-
वुदात्त इत्युच्यते । औदात्यं हि नाम सर्वोत्कर्षेण वृत्तिः । तच्च विजिगीषोरे-
वोपपद्यते । जीमूतवाहनस्तु निर्जिगीषुतयैव कविना प्रतिपादितः । यथा—
'तिष्ठन्भाति पितुः पुरो भुवि यथा सिंहासने किं तथा
यत्संवाहयतः सुखं हि चरणौ तातस्य किं राज्यतः ।
किं भुक्ते भुवनत्रये धृतिरसौ भुक्तोज्झिते या गुरो-
रायासः खलु राज्यमुज्झितगुरोस्तन्नास्ति कश्चिद्गुणः ॥' (नागा० १।७ )
इत्यनेन ।
'पित्रोर्विधातुं शुश्रूषां त्यक्त्वैश्वर्यं क्रमागतम् ।
वनं याम्यहमप्येष यथा जीमूतवाहनः ॥' ( नागा० १।४ )
इत्यनेन च । अतोऽस्यात्यन्तशमप्रधानत्वात् परमकारुणिकत्वाच्च वीतरागवच्छा-
न्तता । अन्यच्चात्रायुक्तं यत्तथाभूतं राज्यसुखादौ निरभिलापं नायकमुपादाया-
न्तरा तथाभूतमलयवत्यनुरागोपवर्णनम्, यच्चोक्तं सामान्यगुणयोगी द्विजादिर्धी-
रशान्त इति, तदपि पारिभाषिकत्वादवास्तवमित्यभेदकम् । अतो वस्तुस्थित्या
बुद्ध-युधिष्ठिर-जीमूतवाहनादिव्यवहाराः शान्ततामाविर्भावयन्ति । अत्रोच्यते—
द० ४