दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 56, कुल 168 में से
संदर्भ में पढ़ेंश्लो० १६-१८ ] अवलोकसमेतम् । ४५
अथास्या मानसंवृत्तिः—
धीरा सोत्प्रासवक्रोक्त्या मध्या साश्रु कृतागसम् ।
खेदयेद्दयितं कोपादधीरा परुषाक्षरम् ॥ १७ ॥
मध्याधीरा कृतापराधं प्रियं सोत्प्रासवक्रोक्त्या खेदयेत् । यथा माघे (६।१९)—
‘न खलु वयममुष्य दानयोग्याः पिबति च पाति च यामसौ रहस्त्वाम् ।
व्रज विटपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥’
धीराधीरा साश्रु सोत्प्रासवक्रोक्त्या खेदयेत् । यथामरुशतके (श्लो० ५७)—
‘बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं
खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि ।
तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते
नन्वेत्तन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥’
अधीरा साश्रु परुषाक्षरम् । यथा--
‘यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि मादरं कृथाः ।
खण्डिताधरकलङ्कितं प्रियं शक्नुमो न नयनैर्निरीक्षितुम् ॥’
एवमपरेऽपि व्रीडानुषहिताः स्वयमनभियोगकारिणो मध्याव्यवहारा भवन्ति ।
यथा—
‘खेद्दाम्भःकणिकाञ्चितेऽपि वदने जातेऽपि रोमोद्गमे
विश्रम्भेऽपि गुरौ पयोधरभरोत्कम्पेऽपि वृद्धिं गते ।
दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रिय-
स्तन्वङ्ग्या हठकेशकर्षणघनाश्लेषामृते लुब्धया ॥’
क्षतोऽनभियोजकत्वं हठकेशकर्षणघनाश्लेषामृते लुब्धयेवेत्युत्प्रेक्षाप्रतीतेः ।
अथ प्रगल्भा—
यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्कके ।
विलीयमानेवानन्दाद्रतारम्भेऽप्यचेतना ॥ १८ ॥
गाढयौवना, यथा ममैव—
‘अभ्युन्नतस्तनमुरो नयने च दीर्घे वक्त्रे भ्रुवावतितरां वचनं ततोऽपि ।
मध्योऽधिकं तनुरतीव गुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः ॥’
यथा च—
‘स्तनतटमिदमुत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् ।
विषमे मृगशावाक्ष्या वपुषि नवे क इव न स्खलति ॥’
भावप्रगल्भा यथा—
‘न जाने संमुखायाते प्रियाणि वदति प्रिये ।
सर्वाण्यङ्गानि किं यान्ति नेत्रतामुत कर्णताम् ॥’ ( अमरु० श्लो० ६४ )
रतप्रगल्भा ( अमरु० श्लो० १०१ ) यथा—
‘कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना-
द्वासः प्रश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।