सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 55, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 55

५४ दशरूपकं [ प्रकाशः. २
पुंसामङ्कमुपेतशङ्कमधुना नारोहति प्राग्यथा
धात्रीणां नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥'
रतवामा यथा—
‘व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका ।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥’ ( कुमार० ८।२ )
मृदुकोपे यथा—
'प्रथमजनिते बाला मन्यौ विकारमजानती
कितवचरिते नासज्याङ्के विनम्रमुखैव सा ।
चिवुकमलिकं चोन्नम्योच्चैरकृत्रिमविभ्रमा
नयनसलिलस्यन्दिन्योष्ठे रुदन्यपि चुम्बिता ॥'
एवमन्येऽपि लज्जासंवृत्तानुरागनिबन्धना मुग्धाव्यवहारा निबन्धनीयाः ।
यथा—
'न मध्ये संस्कारं कुसुममपि बाला विषहते
न निश्वासैः सुभ्रूर्जनयति तरङ्गव्यतिकरम् ।
नवोढा पश्यन्ती लिखितमिव भर्तुः प्रतिमुखं
प्ररोहद्रोमाञ्चा न पिबति न पात्रं चलयति ॥'
अथ मध्या—
मध्योद्भवद्यौवनानङ्गा मोहान्तसुरतक्षमा ॥ १६ ॥
संप्राप्ततारुण्यकामा मोहान्तरतयोग्या मध्या ।
तत्र यौवनवती यथा—
'आलापान्भ्रूविलासो विरलयति लसद्बाहुविक्षिप्तिशीतं
नीवीग्रन्थिं प्रथिम्ना प्रतनयति मनाङ्मध्यनिम्नो नितम्बः ।
उत्पुष्पत्तार्ममूर्च्छत्कुचशिखरमुरो नूनमन्तः स्मरेण
स्पृष्टा कोदण्डकोट्या हरिणशिशुदृशो दृश्यते यौवनश्रीः ॥'
कामवती यथा—
'स्मरनवनदीपूरेणोढाः पुनर्गुरुसेतुभि-
र्यदपि विधृतास्तिष्ठन्त्यारादपूर्णमनोरथाः ।
तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा
नयननलिनीनालाकृष्टं पिबन्ति रसं प्रियाः ॥'
( अमरु० श्लो० १०४ )
मध्यासंभोगो यथा—
'तोव चिअ वइसमए महिलाणं विब्भमा विराअंति ।
जाव ण कुवलयदलसच्छहाइ मउलेंति णअणाइं ॥'
एवं धीरायामधीरायां धीराधीरायामप्युदाहार्यम् ।
१ 'तावदेव रतिसमये महिलानां विभ्रमा विराजन्ते ।
यावन्न कुवलयदलस्वच्छभानि मुकुलयन्ति नयनानि ॥' इति च्छाया.