दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
पृष्ठ 45, कुल 168 में से
संदर्भ में पढ़ें३४ दशरूपकं [ प्रकाशः- १
अथापवारितम्—
रहस्यं कथ्यतेऽन्यस्य परावृत्यापवारितम् ॥ ६६ ॥
परावृत्यान्यस्य रहस्यकथनमपवारितमिति ।
नाट्यधर्मप्रसङ्गादाकाशभाषितमाह—
किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् ।
श्रुत्वेवानुक्तमप्येकस्तत्स्यादाकाशभाषितम् ॥ ६७ ॥
स्पष्टार्थः ।
अन्यान्यपि नाट्यधर्माणि प्रथमकल्पादीनि कैश्चिदुदाहृतानि तेषामभारती-
यत्वानाममालाप्रसिद्धानां केषांचिद्देशभाषात्मकत्वान्नाट्यधर्मत्वाभावाल्लक्षणं नोक्त-
मित्यपसंहरति—
इत्याद्यशेषमिह वस्तुविभेदजातं
रामायणादि च विभाव्य वृहत्कथां च ।
आसूत्रयेत्तदनु नेतृरसानुगुण्या-
च्चित्रां कथामुचितचारुवचःप्रपञ्चैः ॥ ६८ ॥
[ वस्तुविभेदजातं—वस्तु=वर्णनीयं, तस्य विभेदजातं=नामभेदः । रामायणादि-
बृहत्कथां च गुणाढ्यनिर्मितां विभाव्य आलोच्य । तदनु एतदुत्तरम् । नेत्रिति ।
नेता वक्ष्यमाणलक्षणः, रसाश्च तेषामानुगुण्याच्चित्रां चित्ररूपां कथामाख्यायि-
काम् । चारूणि यानि वचांसि तेषां प्रपञ्चैर्विस्तारैरासूत्रयेदनुग्रथयेत् । तत्र
बृहत्कथामूलं मुद्राराक्षसम् (बृ० क० २।२१६ )—
‘चाणक्यनाम्ना तेनाथ शकटालगृहे रहः ।
कृत्यां विधाय सहसा सपुत्रो निहतो नृपः ॥
योगानन्दयशःशेषे पूर्वनन्दसुतस्ततः ।
चन्द्रगुप्तः कृतो राजा चाणक्येन महौजसा ॥’
इति बृहत्कथायां सूचितं श्रीरामायणोक्तं रामकथादि ज्ञेयम् ॥]
इति श्रीविष्णुसूनोधनिकस्य कृतौ दशरूपावलोके
प्रथमः प्रकाशः समाप्तः ।