सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 58, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 58

श्लो० १९-२२ ] अवलोकसमेतम् । ४७
पुनश्च—
द्वेधा ज्येष्ठा कनिष्ठा चेत्यमुग्धा द्वादशोदिताः ।
मध्याप्रगल्भाभेदानां प्रत्येकं ज्येष्ठाकनिष्ठत्वभेदेन द्वादश भेदा भवन्ति ।
मुग्धा त्वेकरूपैव ।
ज्येष्ठाकनिष्ठे यथामरुशतके (श्लो० १९)—
'दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा-
देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा-
मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥'
न चानयोर्दाक्षिण्यप्रेमभ्यामेव व्यवहारः । अपि तु प्रेम्णापि । यथा चैतत्त-
थोक्तं दक्षिणलक्षणावसरे । [ एषां च धीरमध्या-अधीरमध्या-धीराधीरमध्या-
धीरप्रगल्भा-अधीरप्रगल्भा-धीराधीरप्रगल्भाभेदानां प्रत्येकं ज्येष्ठा-कनिष्ठाभेदाद्द्वा-
दशानां वासवदत्ता-रत्नावलीवत् प्रबन्धनायिकानामुदाहरणानि महाकविप्रबन्धेष्व-
नुसर्तव्यानि । ]
अथान्यस्त्री—
अन्यस्त्री कन्यकोढा च नान्योढाङ्गिरसे क्वचित् ॥ २० ॥
कन्‍यानुरागमि¹च्छतः कुर्यादङ्गाङ्गिसंश्रयम् ।
नायकान्तरसम्बन्धिन्यन्योढा, यथा—
'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि
प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
· एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं
नीरन्ध्रास्तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ॥'
इयं त्वङ्गिनि प्रधाने रसे न क्वचिन्निवन्धनीयेति न प्रपञ्चिता । कन्यका तु
पित्राद्यायत्तत्वादपरिणीताप्यन्यस्त्रीत्युच्यते । तस्यां पित्रादिभ्योऽलभ्यमानायां
सुलभायामपि परोपरोधस्वकान्ताभयात् प्रच्छन्नं कामित्वं प्रवर्तते । यथा मालत्यां
माधवस्य सागरिकायां च वत्सराजस्येति, तदनुरागश्च स्वेच्छया प्रधानाप्रधान-
रससमाश्रयो निबन्धनीयः । यथा रत्नावली-नागानन्दयोः सागरिका-मलयव-
त्यनुराग इति ।
साधारणस्त्री गणिका कलाप्रागल्भ्यधौर्त्ययुक् ॥ २१ ॥
तद्व्यवहारो विस्तरतः शास्त्रान्तरे प्रदर्शितः । दिङ्मात्रं तु—
छन्नकामसुखार्थाज्ञस्वतन्त्राहंयुषण्डकान् ।
रक्तेव रञ्जयेद्वाह्यैर्निःस्वान्मात्रा विवासयेत् ॥ २२ ॥
छन्नं ये कामयन्ते ते छन्नकामाः श्रोत्रियवणिक्लिङ्गिप्रभृतयः, सुखार्थी=अप्र-
यासावाप्तधनः सुखप्रयोजनो वा, अज्ञः=मूर्खः, स्वतन्त्रः=निरङ्कुशः, अहंयुः=अहं-
१ 'अन्विच्छन्' इति पाठः.