दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)
Dasarupaka of Dhananjaya with Avaloka Commentary
आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा
DevanagariHindipublished168 पृष्ठ
पृष्ठ 47, कुल 168 में से
संदर्भ में पढ़ेंपृष्ठ 47
वाग्मी । यथा हनुमन्नाटके ( १।३८)—
‘बाह्वोर्बलं न विदितं न च कार्मुकस्य त्रैयम्बकस्य तनिमा तत एष दोषः ।
तच्चापलं परशुराम मम क्षमस्व डिम्भस्य दुर्विलसितानि मुदे गुरूणाम् ॥’
रूढवंशो यथा—
‘ये चत्वारो दिनकरकुलक्षत्रसंतानमल्ली-
मालामम्लानस्तवकमधुपा जज्ञिरे राजपुत्राः ।
रामस्तेषामचरमभवस्ताडकाकालरात्रि-
प्रत्युषोऽयं सुचरितकथाकन्दलीमूलकन्दः ॥ ]’
स्थिरः=वाङ्मनःक्रियाभिरचञ्चलः । यथा वीरचरिते ( ३।८ )—
‘प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ॥’
यथा वा भर्तृहरिशतके ( नीति० श्लो० २६ )—
‘प्रारभ्यते न खलु विघ्नभयेन नी