सामग्री पर जाएँ
सर्वकोश
दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

दशरूपक (आचार्य धनञ्जय - धनिक प्रणीत अवलोक टीका एवं सविस्तार हिन्दी व्याख्या सटीक)

Dasarupaka of Dhananjaya with Avaloka Commentary

आचार्य धनञ्जय (टीकाकार: धनिक / डॉ. भोलाशंकर व्यास) द्वारा

DevanagariHindipublished168 पृष्ठ

पृष्ठ 52, कुल 168 में से

संदर्भ में पढ़ें
पृष्ठ 52

श्लो० ८–१२ ] अवलोकसमेतम् । ४१
अथ सात्त्विका नायकगुणाः—
शोभा विलासो माधुर्यं गाम्भीर्यं १धैर्यतेजसी ।
ललितौदार्यमित्यष्टौ २सत्त्वजाः पौरुषा गुणाः ॥ १० ॥
तत्र—
नीचे घृणाऽधिके स्पर्धा शोभायां शौर्यदक्षते ।
नीचे घृणा । यथा वीरचरिते ( १।३७ )—
‘उत्तालताडकोत्पातदर्शनेऽप्यप्रकम्पितः ।
नियुक्तस्तत्प्रमाथाय स्त्रैणेन विचिकित्सति ॥’
गुणाधिकैः स्पर्धा यथा—
‘एतां पश्य पुरःस्थलीमिह किल क्रीडाकिरातो हरः
कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः ।
इत्याकर्ण्य कथाद्भुतं हिमनिधावद्रौ सुभद्रापते-
र्मन्दं मन्दमकारि येन निजयोर्दोर्दण्डयोर्मण्डलम् ॥’
शौर्यशोभा यथा, ममैव—
‘अन्ध्रैः स्वैरपि संयताग्रचरणो मूर्च्छाविरामक्षणे
स्वाधीनव्रणिताङ्गशस्त्रनिचितो रोमोद्गमं वर्मयन् ।
भग्नानुद्वलयन्निजान्परभटांस्तर्जयन्निष्ठुरं
धन्यो धाम जयश्रियः पृथुरणस्तम्भे पताकायते ॥’
दक्षशोभा यथा वीरचरिते ( १।५३ )—
‘स्फूर्जद्वज्रसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतो
रामस्य त्रिपुरान्तकृद्विषद्विषदं तेजोभिरिद्धं धनुः ।
शुण्डारः कलमेन यद्वदचले वत्सेन दोर्दण्डक-
स्तस्मिन्नाहित एव गर्जितगुणं कृष्टं च भग्नं च तत् ॥’
अथ विलासः—
गतिः सधैर्या दृष्टिश्च विलासे सस्मितं वचः ॥ ११ ॥
यथा ( उ० च० ६।१९ )—
‘दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयेत्युत दर्प एव ॥’
अथ माधुर्यम्—
श्लक्ष्णो विकारो माधुर्ये संक्षोभे सुमहत्यपि ।
महत्यपि विकारहेतौ मधुरो विकारो माधुर्यम् । यथा ( हनु० ना० १।१९ )—
‘कपोले जानक्याः करिकलभदन्तद्युतिमुषि
स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् ।
मुहुः पश्यञ्शृण्वन्रजनिचरसेनाकलकलं
जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥’
१ ‘स्थैर्य’ इति पाठः. २ ‘सात्त्विकाः’ इति पाठः.