बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
तिथिकर्मगुणाध्यायः ५४१
मृगशिरा में जो कार्य कहा गया है वह पञ्चमी में, कृत्तिका में जो कार्य कहा गया है वह
षष्ठी में, ज्येष्ठा में जो कार्य कहा गया है वह सप्तमी में, हस्त में जो कार्य कहा गया है
वह द्वादशी में, पूर्वफाल्गुनी में जो कार्य कहा गया है वह चतुर्दशी में, उत्तराषाढ़ा में जो
कार्य कहा गया है वह पञ्चदशी में और मघा में जो कार्य कहा गया है वह अमावास्या
में करना चाहिये।
इसी प्रकार जिस नक्षत्र में जो कार्य कहा गया है वह उस नक्षत्र के देवता के करण
में भी करना चाहिये। जैसे—ज्येष्ठा में जो कार्य कहा गया है वह वव करण में, रोहिणी
में जो कार्य कहा गया है वह वालव में, अनुराधा में जो कार्य कहा गया है वह कौलव
में, उत्तरफाल्गुनी में जो कार्य कहा गया है वह तैतिल में, ज्येष्ठा में जो कार्य कहा गया
है वह गर में, श्रवण में जो कार्य कहा गया है वह वणिज में, भरणी में जो कार्य कहा
गया है वह विष्टि में, कृत्तिका में जो कार्य कहा गया है वह शकुनि में, रोहिणी में जो
कार्य कहा गया है वह चतुष्पद में, आश्लेषा में जो कार्य कहा गया है वह नाग में और
स्वाती में जो कार्य कहा गया है वह किंस्तुघ्न में करना चाहिये।
इसी प्रकार जिस नक्षत्र में जो कार्य कहा गया है, वह उस नक्षत्र के देवतासम्बन्धी
मुहूर्त्त में भी करना चाहिये। जैसे—आर्द्रा में जो कार्य कह गया है वह शिवमुहूर्त्त में,
श्लेषा में जो कार्य कहा गया है वह भुजग में, अनुराधा में जो कार्य कहा गया है वह
मित्र में, मघा में जो कार्य कहा गया है वह पिता में, धनिष्ठा में जो कार्य कहा गया है
वह वसु में, पूर्वाषाढ़ा में जो कार्य कहा कहा है वह जल में, उत्तराषाढ़ा में जो कार्य
कहा गया है वह विश्व में, अभिजित् में जो कार्य कहा गया है वह विरिञ्चि में, रोहिणी में
जो कार्य कहा गया है वह पङ्कजप्रभव में, विशाखा में जो कार्य कहा गया है वह
ऐन्द्राग्नि में, मूल में जो कार्य कहा गया है वह निर्ऋति में, शतभिषा में जो कार्य कहा
गया है वह वरुण में, उत्तरफाल्गुनी में जो कार्य कहा गया है वह अर्यमा में,
पूर्वफाल्गुनी में जो कार्य कहा गया है वह भाग्य में, पूर्वभाद्रपदा में जो कार्य कहा गया
है वह अजैकपाद में, उत्तरभाद्रपदा में जो कार्य कहा गया है वह अहिर्बुध्न्य में, रेवती
में जो कार्य कहा गया है वह पूषण में, अश्विनी में जो कार्य कहा गया है वह दस्र में,
भरणी में जो कार्य कहा गया है वह अन्तक में, कृत्तिका में जो कार्य कहा गया है वह
आग्नेय में, मृगशिरा में जो कार्य कहा गया है वह इन्दु में, पुनर्वसु में जो कार्य कहा गया
है वह अदिति में, पुष्य में जो कार्य कहा गया है वह गुरु में, श्रवण में जो कार्य कहा
गया है वह हरि में, हस्त में जो कार्य कहा गया है वह रवि में, चित्रा में जो कार्य कहा
गया है वह त्वष्टा में और स्वाती में जो कार्य कहा गया है वह अनिल मुहूर्त्त में करना
चाहिये।।१-३।।
इति 'विमला' हिन्दीटीकायान्तिथिकर्मगुणाध्यायो नवनवतितमः ॥९९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५४२ बृहत्संहिता
कमलजेति । कमलजादयः प्रतिपदादीनां तिथीनां पतयः । कमलजो ब्रह्मा प्रतिपद्य-
धिपतिः । विधाता द्वितीयस्याम् । हरिविष्णुस्तृतीयस्याम् । यमश्चतुर्थ्याम् । शशाङ्कश्चन्द्रमाः
पञ्चम्याम् । षड्वक्त्रः कुमारः षष्ठ्याम् । शक्र इन्द्रः सप्तम्याम् । वसवोऽष्टम्याम् । भुजगः
सर्पो नवम्याम् । धर्मो दशम्याम् । ईशो रुद्र एकादश्याम् । सविता आदित्यो द्वादश्याम् ।
मन्मथः कामस्त्रयोदश्याम् । कलिश्चतुर्दश्याम् । विश्वेदेवाः पञ्चदश्यां पौर्णमास्यामित्यर्थः ।
एवं शुक्लपक्षे ।
कृष्णपक्षे एतास्वेव तिथिषु एत एवाधिपतयः, किन्तु पितरोऽमावस्यायाम् । अमावास्यायां
पितरः । तैस्तिथिस्वामिभिः संज्ञासदृशा नामतुल्याः क्रियाः कार्याः । यथा प्रतिपदि ब्रह्मकर्म
विवाहादि । द्वितीयस्यां भवननिवेशादि । तृतीयस्यां चौलकरणदमनादि । चतुर्थ्यां शत्रुमथ
सप्तम्याम्। हस्ते द्वादश्याम्। पूर्वफल्गुन्यां त्रयोदश्याम्। श्लेषायां चतुर्दश्याम्। उत्तराषाढायां
पञ्चदश्याम्। मघास्वमावास्यायामिति। तथा च गर्गः—
नन्दा प्रतिपदित्युक्ता प्रशस्ता ध्रुवकर्मसु।
ज्ञानस्य च समारम्भे प्रवासे च विगर्हिता।।
नाद्यादन्नं तपः कुर्यात् पुष्टिंसौभाग्यमेव च।
जन्म चात्रोत्तमं विन्द्यात् स्वयम्भूर्देवता यतः।।
भद्रेत्युक्ता द्वितीया तु शिल्पिव्यायामिनां हिता।
आरम्भे भेषजानां च प्रवासे च प्रवासिनाम्।।
आवाहांश्च विवाहांश्च वास्तुक्षेत्रगृहाणि च।
पुष्टिकर्मकरश्रेष्ठा देवता च बृहस्पतिः।।
बलेत्युक्ता तृतीया तु बलसम्पच्च कारयेत्।
गोऽश्वकुञ्जरभृत्यानां दमनं मानसानि च।।
कुर्यादासवकर्माणि बीजान्यपि च वापयेत्।
बलकर्मारभेत्तैव विष्णुं विन्द्याच्च दैवतम्।।
रिक्ता प्रोक्ता चतुर्थी च क्षुद्रकर्म प्रयोजयेत्।
गोग्रहं दारुणं कुर्यात् कूटशास्त्रं समारभेत्।।
अत्र सम्मारणं कुर्यादभिघाताश्रयाणि च।
ध्रुवसेनाबधं कुर्याद्यमं विन्द्याच्च दैवतम्।।
पूर्णा च पञ्चमी प्रोक्ता प्रशस्ता ध्रुवकर्मणि।
नवान्नाग्रयणानां च शयनासनवेश्मनाम्।।
जन्मक्षेत्रविभूषार्था व्यवहारौषधिक्रिया।
प्रशान्तं पौष्टिकं कर्म सोमं विन्द्याच्च दैवतम्।।
षष्ठी मा सा तिथिर्नाम प्रशस्ता ध्रुवकर्मसु।
क्षेत्रारम्भं गृहं कुर्याद् देवतायतनानि च।।
कारयेत् संक्रमद्वारगोपुराद्यालयानि च।
आधानं च न कर्तव्यं कुमारश्चात्र दैवतम्।।
सप्तमी मित्रनामा तु मित्रकार्याध्रुवाणि च।
कुर्याद्राज्ञो ध्वजं छत्रमासनं शयनानि च।।
रत्नानि मणिमुक्तादिवरूण्याण्याभरणानि च।
कारयेद् भूषणाद्यांश्च देवाः सप्तर्षयस्तथा।।
महाबलाष्टमी चैव कुर्याद् बालनिदर्शनम्।
अधिकारान् प्रयुञ्जीत यन्त्राकारधनूंषि च।।
कुर्याच्च नगरे गुप्तिं सुरङ्गान् परिखास्तथा।
हस्त्यश्वांश्च प्रयुञ्जीत वसवश्चात्र दैवतम्।।
५४४ बृहत्संहिता
उग्रसेना तु नवमी बन्धने वधबन्धने।
अमित्रदमनार्थे च हिता शत्रुवधाय च।।
अध्वानं च न गच्छेत प्रोष्यं न प्रविशेद् गृहम्।
संहरेत विषादीनि रुद्राणी चात्र दैवतम्।।
सुधन्वा दशमीं प्राह ध्रुवं विन्द्याद्यशस्करम्।
कूपान् खनेन्नदींश्चैव कूपं पुष्करणीयुतम्।।
आरामान् नगरींश्चैव क्षेत्राणि च गृहाणि च।
पुण्यशालां सभां कुर्याद्धर्मं विन्द्याच्च दैवतम्।।
सुनन्दैकादशीमाह ध्रुवं निन्द्यान्महानसम्।
निवेशनगरग्रामयज्ञविप्रसभास्तथा ।।
स्त्रीषु चोग्रं प्रवर्तेत दासकर्मकरेषु च।
गूढार्थं न प्रयुञ्जीत कामशत्रुश्च देवता।।
द्वादशीं तु यमामाह ध्रुवं विन्द्याद्यशस्करम्।
मङ्गल्यान्यत्र कुर्वीत चूडोपनयनानि च।।
कोष्ठागाराणि कुर्वीत निधानं च निधापयेत्।
ऋणं चात्र न गृह्णीयादादित्यश्चात्र देवता।।
जया त्रयोदशीमाह कर्तव्यं कर्म शोभनम्।
वस्त्रमाल्यमलङ्कारविप्राण्याभरणानि च।।
सौभाग्यकरणं स्त्रीणां कन्यावरणमेव च।
मुण्डनं युग्मवसनं कामं विन्द्याच्च देवताम्।।
उग्रां चतुर्दशीं विन्द्याद्दारुणान्यत्र कारयेत्।
बन्धनं रोधनं चैव घातनं च विशेषतः।।
पूर्वाभिहननं चैव दारुणं वधघातनम्।
ग्रामसेनावधं कुर्याद् विन्द्याद्रुद्रोऽत्र देवताम्।।
अमावस्या तु सिद्धार्था पितृयज्ञोऽत्र शस्यते।
देवकार्याणि कुर्वीत गोकुलं तु निवेशयेत्।।
पुरोहिताय वरणं कुर्याद् यज्ञक्रियां तथा।
बलिं चैवोपहारांश्च पितरश्चात्र देवता।।
कल्याणी पौर्णमासी तु देवकर्माधिकारिणी।
विप्रकार्येऽग्निकार्ये च गवां घोषे निवेशयेत्।।
राज्ञः पुरोहितं कुर्याद् यज्ञानि विविधानि च।
शुभं कर्म च कर्तव्यं सोमं विन्द्याच्च देवताम्।। इति।
करणमुहूर्त्तेष्वपि तत् सिद्धिकरं देवतासदृशं कार्यं सिद्धिकरम्। येन नक्षत्रेण यत्
कार्यमभिहितं तस्य नक्षत्रस्य या देवता सैव यस्य करणस्य तस्मिंस्तत् कार्यम्। यथा
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
तिथिकर्मगुणाध्यायः ५४५
ज्येष्ठायां यत् कार्यमभिहितं तद्बवेऽपि कर्तव्यम्। यतस्तस्य देवता शक्रः। एवं रोहिण्यां
बालवस्य। अनुराधायां कौलवस्य। उत्तरफल्गुन्यां तैतिलस्य। गरस्य ज्येष्ठायाम्। श्रवणे
वणिजः। विष्टेर्भरण्याम्। श्लेषायां शकुनेः। रोहिण्यां चतुष्पदस्य। नागस्य पुनराश्लेषायाम्।
स्वातौ किंस्तुघ्नस्येति। तथा च पराशरः—
'शकुनौ शकुनिग्रहणप्रहरणभृत्ययोद्धृयुद्धोपकरणक्रियाः सर्वमुग्रं कुर्यात्। चतुष्पदे
नृपतिविजयाभिषेकपितृदेवधर्मक्रियाचतुष्पददानानि। नागे सलिलोपकरणावेशनप्रवेशागदगदौ-
षधधारणानि। किंस्तुघ्ने सुरगुरुतीर्थव्रतदीक्षाभिगमनस्नपनानि। ववे मणिकनकरजतालङ्कार-
वास्तुक्रियाभिप्रयाणासवकुसुमगन्धाधिकारणि। बालवे व्रतोपवासनियमसत्रयज्ञद्विजगुरु-
सेवनानि। कौलवे पुरक्षेत्रलेख्यगन्धगान्धर्वपितृदेवधर्मक्रियाः। तैतिले निष्कर्मसाहसद्यूत-
युद्धाभिषेकमङ्गलव्रतदीक्षागृहप्रवेशाः। गरे दारूद्यानवनाधिकारिकोपभोगा वैवाहिकादिकरणानि।
वणिजि वणिकप्रयोगोऽध्ययनशिल्पसम्बन्धार्थाभिवादावनवलिकर्मविधिभिर्यद्यथारभ्यते क्रिया
काचित्। विष्ट्यां न किमपि समृद्धिमेति बीजमिव यथोषरप्राप्तम्' इति।
एवं मुहूर्तेष्वित्यपि। यस्मिन् नक्षत्रे यत् कार्यमुक्तं तस्य नक्षत्रस्य या देवता तस्या
यो मुहूर्तस्तस्मिंस्तदेव कार्यं कर्तव्यम्। यथाऽऽर्द्रायां यत् कार्यं क्रियते तच्छिवे मुहूर्तेऽपि
कार्यम्। यतस्तयोरेका देवता रुद्रः। एवं श्लेषायां भुजगे। अनुराधायां मित्रे। मघायां पितरि।
धनिष्ठायां वसौ। पूर्वाषाढायां जले। उत्तराषाढायां विश्वे। अभिजिति विरञ्चौ। रोहिण्यां पङ्कज-
प्रभवे। विशाखायामैन्द्राग्नौ। मूले नैर्ऋते। शतभिषजि वारुणे। उत्तरफल्गुन्यामर्यम्णि। पूर्व-
फल्गुन्यां भाग्ये। पूर्वभद्रपदायामजैकपादे। उत्तरभद्रपदायामहिर्बुध्न्ये। रेवत्यां पूषणि। अश्विन्यां
दस्रे। भरण्यामन्तके। कृत्तिकायामाग्नेये। मृगशिरसीन्दौ। पुनर्वसौ अदितौ। पुष्ये गुरौ।
श्रवणे हरौ। हस्ते रवौ। चित्रायां त्वष्टरि। स्वातावनिलाख्ये। उक्तं च—
शिवभुजगमित्रपितृवसुजलविश्वविरञ्चिपङ्कजप्रभवाः।
इन्द्राग्नीन्द्रनिशाचरवरुणार्यमयोनयश्चाह्नि ॥
रुद्राजाहिर्बुध्न्याः पूषा दस्रान्तकाग्निधातारः।
इन्द्रादितिगुरुहरिरवित्वष्ट्रनिलाख्याः क्षणा रात्रौ।।
अहः पञ्चदशोंऽशो रात्रेश्चैवं मुहूर्त इति।
स च विज्ञेयस्तज्ज्ञैश्छायायन्त्राम्बुभिर्युक्त्या।।
नक्षत्रतत्क्षणानां परिघातादीशैश्रैः समं चिन्त्यम्।
फलमपि तदेव दृष्टं गर्गाद्यपराशरश्लोकैः।
अहोरात्रं च सम्पूर्णं चन्द्रनक्षत्रयोजितम्।
तन्नक्षत्रमुहूर्ताश्च समकर्मगुणाः स्मृताः।। इति।
तथा च पराशरः—
'रौद्रमित्रमैत्रसाधनसारभटात्मसहवैश्वदेवाभिजिद्रोहिणीन्द्रबलजयपित्र्यभाग्यवरुणनैर्ऋताग्ने-
ययाम्यगन्धर्वध्यानपदराक्षसेन्द्राग्नेयप्राजापत्याश्विनेन्द्रब्रह्मगुरुसावित्र्यवैष्णवपौष्णाः। तेषां
बृ० सं० द्वि०-३५
५४६ बृहत्संहिता
यत्समानदैवतनक्षत्रं तन्नक्षत्रवत् कर्माणयारभेत। विशेषोपदेशमुपदेश्यामः—तत्र श्वेतमैत्रात्म-
सहरोहिणीषु रोहिणीव सर्वं साधनम्। इष्टिव्रताधानाध्ययनानि। सारभटे अभिचारवधवादान्।
अभिजिति सर्वकर्माणि। बले नृपतिबलसमारम्भाः। जयेऽन्नप्रमाणम्। गन्धर्वे गान्धर्वरति-
विवाहाः। ध्यानपदेऽभिषेकभूषणमङ्गल्यानि। सन्ध्ययोस्तु पूर्वाऽग्निदेवता पश्चिमा रौद्री तयोर्न
किञ्चित् कर्मारम्भो नान्यत्र नियमात् प्रयतमुपतिष्ठन्नोपासीत। पश्चिमायां विशेषतश्चाग्नौ न
प्रविशेन्नाश्नीयान्न मैथुनमभिगच्छेत्'।।१-३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ तिथिकर्मगुणो
नामैकोनशततमोऽध्यायः ॥९९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ करणगुणाध्यायः
अथ करणगुणाध्यायो व्याख्यायते। तत्रादावेव सप्त चलकरणानि भवन्ति, तेषां
नामान्यधिपतींश्चाह—
वववालवकौलवतैतिलाख्यगरवणिजविष्टिसंज्ञानाम्।
पतयः स्युरिन्द्रकमलजमित्रार्यमभूश्रियः सयमाः ॥१॥
वव, वालव, कौलव, तैतिल, गर, वणिज, विष्टि—ये सात चल करण हैं। इनके
क्रम से इन्द्र, ब्रह्मा, मित्र, अर्यमा, भूमि, श्री और यम स्वामी होते हैं।।१।।
ववादीनां करणानामिन्द्रादयः सयमाः पतयः स्वामिनः, तद्यथा—ववस्येन्द्रोऽधिपतिः।
वालवस्य कमलजो ब्रह्मा। कौलवस्य मित्रः। तैतिलाख्यस्यार्यमा। गरस्य भूर्भूमिः।
वणिजस्य श्रीर्लक्ष्मीः। विष्टेर्यमः।।१।।
अथ स्थिरकरणानां नामान्यधिपतींश्चाह—
कृष्णचतुर्दश्यर्धाद् ध्रुवाणि शकुनिश्चतुष्पदं नागम्।
किंस्तुघ्नमिति च तेषां कलिवृषफणिमारुताः पतयः ॥२॥
कृष्ण पक्ष की चतुर्दशी के उत्तरार्ध में शकुनि, अमावास्या के पूर्वार्ध में नाग, उत्तरार्ध
में चतुष्पद और शुक्ल पक्ष की प्रतिपदा के पूर्वार्ध में किंस्तुघ्न करण होता है। ये चार
स्थिर करण हैं। इनके स्वामी क्रम से कलि, वृष, सर्प और पवन हैं।।२।।
कृष्णचतुर्दशीद्वितीयार्द्धादारभ्य ध्रुवाणि स्थिराणि करणानि शकुन्यादीनि भवन्ति,
तद्यथा—कृष्णचतुर्दश्यामपरभागे शकुनिः। चतुष्पदनागावमावास्यायाम्। किंस्तुघ्नः प्रति-
पत्पूर्वभागे। एतानि स्थिराणि मासेन सकृदेव भवन्ति। प्रतिपद्यपरभागे ववः। वालवकौलवौ
द्वितीयायाम्। तैतिलगरौ तृतीयायाम्। वणिग्विष्टी चतुर्थ्याम्। पुनरपि वववालवौ पञ्चम्याम्।
अतः करणे द्वे प्रतिदिनं यावदष्टमीपूर्वभागे विष्टिः। अपरभागे ववः। नवम्यां वालवकौलवौ,
दशम्यां तैतिलाख्यगरौ। एकादश्यां वणिग्विष्टी। द्वादश्यां वववालवौ। त्रयोदश्यां कौलव-
तैतिलौ। चतुर्दश्यां गरवणिजौ। पौर्णमास्यां प्राग्भागे विष्टिः। अपरे ववः। ततः प्रतिपदादि
प्रत्यहं द्वे द्वे करणे यावत्तृतीयायामपरभागे विष्टिः। ततः क्रमेण करणषट्कम्। सप्तम्यां
प्राग्भागे विष्टिः। ततो ववादिकरणषट्कं यावत् त्रयोदशीम्। चतुर्दशीपूर्वभागे विष्टिः।
अपरभागे शकुनिरिति। एवमेतानि चलकरणानि मासमध्ये प्रत्येकमष्टौ वारान् भवन्ति।
स्थिरकरणानि मासेन सकृदेव। नियताः पतय इति। तेषां शकुनिचतुष्पदनागकिंस्तुघ्नानां
यथाक्रमेण कलिवृषफणिमारुताः पतयो भवन्ति, तद्यथा—शकुनेः कलिः। चतुष्पदस्य
वृषः। नागस्य फणी सर्पः। किंस्तुघ्नस्य मारुतो वायुः।।२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५४८ बृहत्संहिता
अथैतैर्यत् कर्तव्यं तदाह—
कुर्याद्ववे शुभचरस्थिरपौष्टिकानि
धर्मक्रियाद्विजहितानि च वालवाख्ये।
सम्प्रीतिमित्रवरणानि च कौलवे स्युः
सौभाग्यसंश्रयगृहाणि च तैतिलाख्ये ॥३॥
कृषीबीजगृहाश्रयजानि गरे वणिजि ध्रुवकार्यवणिग्युतयः ।
न हि विष्टिकृतं विदधाति शुभं परघातविषादिषु सिद्धिकरम् ॥४॥
वव करण में शुभ ( धर्म आदि ), चर ( अल्प समय में होने वाला ), स्थिर ( बहुत
देर तक ठहरने वाला ) और पुष्टि ( शरीर-पुष्टिकारक ) कार्य करना शुभ होता है।
वालव करण में धर्मक्रिया और ब्राह्मणों के हित का कार्य करना शुभ है। कौलव करण
में प्रीति ( किसी के साथ स्नेह ), मित्र और वरण ( कन्यावरण ) करना शुभ है। तैतिल
करण में सौभाग्य ( जिस कार्य को करने से सबका प्रिय हो ), संश्रय और गृहसम्बन्धी
कार्य करना शुभ है। गर करण में खेती, बीज और आश्रमसम्बन्धी कार्य करना शुभ है।
वणिज करण में स्थिर कार्य, वाणिज्य और युतिं ( किसी के साथ संयोग ) सम्बन्धी
कार्य करना शुभ है। विष्टि करण में किया हुआ कोई भी कार्य शुभ नहीं होता है; किन्तु
केवल शत्रुओं का नाश, विष आदि का प्रयोग और अग्निदाह आदि कार्य करना शुभ
है॥३-४॥
कुर्याद्वव इति । वत्रे ववाख्ये करणे। शुभानि प्रशस्तानि यानि धर्मादीनि कार्याणि।
तथा चराणि स्वल्पकालसाध्यानि क्षिप्रोपयोगीनि। स्थिराणि कालान्तरस्थायीनि। तथा
पौष्टिकानि शरीरपुष्टिं यानि जनयन्ति। तानि कुर्यात्। वालवाख्ये धर्मक्रिया धर्मसमायुक्ताः
क्रियाः। तथा द्विजानां ब्राह्मणानां च हितान्यनुकूलानि कार्याणि। सम्प्रीतिः केनचित् स्नेहः।
मित्रं सुहृत्। वरणं कन्यावरणम्। एतानि च कार्याणि कौलवे स्युर्भवेयुः। सौभाग्यं सुभगत्वं
येन कर्मणा सर्वजनवाल्लभ्यं भवति तत्सौभाग्यम्। संश्रयः कश्चित् पधानजन· संश्लिष्यते।
गृहं भवनम्। एतानि तैतिलाख्ये कार्याणि।
कृषिबीजेति । कृषिः कर्षणम्। बीजानि प्रसिद्धानि यान्युप्यन्ते। गृहाश्रयजम्। गृहं
वेश्म आश्रित्य यज्जायत उत्पद्यते। एतानि सर्वाणि गरे कार्याणि। ध्रुवाणि स्थिराणि
यानि कार्याणि। वणिग् वाणिज्यम्। युतिः केनचित् सह संयोगः। एतान्येव वणिजि
कार्याणि। विष्टिकृतं न हि शुभं श्रेयस्करं फलं विदधाति करोति; केवलं पराणां शत्रूणां
घाते निपाते विषादिषु विषप्रयोगेऽग्निदाहादौ च सिद्धिकरम्॥३-४॥
तथा स्थिरकरणैर्यत् कर्तव्यं तदाह—
कार्यं पौष्टिकमौषधादि शकुनौ मूलानि मन्त्रास्तथा
गोकार्याणि चतुष्पदे द्विजपितॄनुद्दिश्य राज्यानि च।
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA
करणगुणाध्यायः ५४९
नागे स्थावरदारुणानि हरणं दौर्भाग्यकर्माप्यतः
किंस्तुघ्ने शुभमिष्टिपूष्टिकरणं मङ्गल्यसिद्धिक्रियाः ॥५॥
शकुनि करण में पौष्टिक कार्य, औषधिसंवन आदि, मूल (जड़ को लेना, रोपना,
खाना) और मन्त्रसाधनसम्बन्धी कार्य करना शुभ है। चतुष्पद करण में गाय, ब्राह्मण,
पितर और राज्यसम्बन्धी कार्य करना शुभ है। नाग करण में स्थावर, दारुण, हरण और
दौर्भाग्य (जिस कार्य को करने से दूसरे से द्वेष उत्पन्न हो, उसके) सम्बन्धी कार्य
करना शुभ है तथा किंस्तुघ्न करण में धर्म, इष्टि (पुत्रकाम्य आदि), पुष्टि (शरीरपुष्टि),
मंगल (विवाह आदि) और सिद्धिक्रिया (जिस क्रिया को करने से कार्य की सिद्धि
हो, उसके) सम्बन्धी कार्य करना शुभ है॥५॥
कार्यं पौष्टिकमिति । पौष्टिकं शरीरपुष्टिकराम् । औषधं यद्व्याधिविनाशायोपयुज्यते ।
आदिग्रहणादन्यौषधादीनां ग्रहणं पचनं पाचनम्। मूलानि मूलकर्माणि। मूलानां ग्रहणं
रोपणं भक्षणं च। तथा मन्त्रा मन्त्रसाधनानि। एतत् सर्वं शकुनौ कार्यम्। गोकार्याणि गवां
सम्बन्धीनि यानि कार्याणि शुभं ग्रहणं दानेन तत्पालनं च। तथा द्विजान् ब्राह्मणान् पितृनु-
द्दिश्य तदर्थं यानि तानि चतुष्पदे कार्याणि। राज्यानि राजकार्याणि। स्थावरं स्थावराश्रयं
कार्यम्। दारुणानि क्रूराणि च यानि कार्याणि परोपतापकराणि। हरणं परधनदारस्थावरादीनाम्।
दौर्भाग्यकर्माणि दुर्भगत्वं सर्वजनद्वेष्यं यैरवाप्यते तानि नागे कार्याणि। शुभं धर्मसंयुक्तं
कर्म। इष्टयः पुत्रकाम्यादयः। पुष्टिकरणं शरीरपोषणम्। मङ्गल्यानि विवाहादीनि। सिद्धिक्रिया
याभिः क्रियाभिरेते सिद्ध्यन्ति। सर्वमेतत् किंस्तुघ्ने कार्यम्। तथा च गर्गः—
आद्यं तु शकुनिर्नाम रात्रौ कृष्णचतुर्दशी।
आदानग्रहणे चैवमिष्टमन्त्र पलायनम्॥
योधानां शकुनानां च ग्रहणं पोषणं तथा।
चिकित्सा चैव युद्धं च सर्वमेतत् प्रशस्यते॥
ततश्चतुष्पदं नाम कृष्णपञ्चदशी दिवा।
चतुष्पदानां सर्वेषां कर्मारम्भेषु शस्यते॥
पितृंश्च पूजयेद्देव प्रेतकार्यं च कारयेत्।
नष्टं दृष्टिपथाल्लब्धं ब्रूयादत्र न संशयः॥
नागं तु करणं रात्रौ कृष्णपञ्चदशी भवेत्।
तत्रावमर्दसाध्यानि प्रसह्य हरणानि च॥
भेदनानि च कर्माणि मूलानि च फलानि च।
कर्माणि चोदनीयानि सर्वाण्येव प्रकल्पयेत्॥
अतः परं प्रवक्ष्यामि किंस्तुघ्नं करणं ध्रुवम्।
तत्तु शुक्लप्रतिपदि दिवसे प्रतिपद्यते॥
५५० बृहत्संहिता
तस्मिन् दिव्यानि कार्याणि वैश्वदेवमथानलम्।
प्राजापत्यं च यत् कर्म सर्वमत्र प्रयोजयेत्।।
इत्येतानि निबद्धानि ध्रुवाणि करणानि च।
अतः परं प्रवक्ष्यामि ववान्यान्यानि सप्त वै।।
ववं च बालवं चैव कौलवं तैतिलं तथा।
गराख्यं वणिजं चैव विष्टिर्ज्ञेया तु सप्तमी।।
ववे तु ध्रुवकर्माणि क्षिप्राण्यपि च कारयेत्।
निर्याणे च प्रवेशे च तद्धि सर्वार्थसाधकम्।।
बालवं ब्राह्मणानां तु सर्वारम्भेषु शस्यते।
अनारम्भोऽत्र वर्णानां शेषाणामिति निश्चयः।।
मित्रयुक्तञ्च यत्कर्म यच्च स्यात्सिद्धिकारकम्।
स्थावराणि च सर्वाणि कौलवे सम्प्रयोजयेत्।।
तैतिलेन च कर्तव्यं राजद्वारिकमेव यत्।
अलङ्कारांश्च विविधान् सर्वाधिकरणानि च।।
गरादिना च कर्तव्यं कर्म गृहसमुद्भवम्।
कृषिं प्रवेशं वस्तूनां ग्रहणं क्षेत्रकर्मणाम्।।
सर्वकार्याणि वणिजि विवादोत्थानि कारयेत्।
पण्यविक्रयणं चैव शस्त्रारम्भं च कारयेत्।।
विष्टिर्नामेह करणं येन कर्म न कारयेत्।
यत्नेनापि कृतं कर्म भवत्यल्पफलोदयम्।। इति।।५।।
अथ कर्णवेधनक्षत्राण्याह—
लाभे तृतीये च शुभैः समेते पापैर्विहीने शुभराशिलग्ने।
वेध्यौ च कर्णावमरेज्यलग्ने पुष्येन्दुचित्राहरिपौष्णभेषु ।।६।।
लग्न से ग्यारहवें और तीसरे में शुभ ग्रह हों, शुभ ग्रह की राशि ( वृष, मिथुन,
कन्या, तुला, धनु और मीन ) लग्न में हो, पाप ग्रह ( सूर्य, मंगल और शनि ) से रहित
होकर लग्न बृहस्पति से युत हो तथा पुष्य, मृगशिरा, चित्रा, श्रवण और रेवती नक्षत्रों में
कर्णवेध शुभ होता है।।६।।
लाभस्थानमेकादशम्। तृतीयं प्रसिद्धम्। लाभे तृतीये च स्थाने शुभैः शुभग्रहैर्बुध-
जीवशुक्रैः। समेते संयुक्ते। शुभराशिलग्ने पापैर्विहीने। शुभा राशयो वृषमिथुनकन्या-
तुलाधन्विमीनाः। शुक्लपक्षे कर्कटश्च। एतेषामन्यतमे लग्ने। पापैः पापग्रहैरादित्याङ्गारक-
शनैश्चरैर्विहीने रहिते। अमरेज्यो बृहस्पतिस्तस्मिन् लग्ने लग्नगते। कर्णावत्र वेध्यौ वेधनार्हौ।
एवं लग्नशुद्धिमभिधायाधुना नक्षत्राण्याह—पुष्येन्दुचित्राहरिपौष्णभेष्विति। पुष्यस्तिष्यः।
इन्दुर्मृगशिरः। चित्रा। हरिः श्रवणः। पौष्णभं रेवती। एतेषु नक्षत्रेषु कर्णौ वेध्याविति।।६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
करणगुणाध्यायः ५५१
इदानीं संक्षेपेणावसरप्राप्तं विवाहपटलमाह—
रोहिण्युत्तररेवतीमृगशिरोमूलानुराधामघा-
हस्तस्वातिषु षष्ठतौलिमिथुनेषूद्यत्सु पाणिग्रहः ।
सप्ताष्टान्त्यबहिःशुभैरुडुपतावेकादशद्वित्रिगे
क्रूरैस्त्र्यायषडष्टगैर्न तु भृगौ षष्ठे कुजे चाष्टमे ॥७॥
दम्पत्योर्द्विनवाष्टराशिरहिते चारानुकूले रवौ
चन्द्रे चार्ककुजार्किशुक्रवियुते मध्येऽथवा पापयोः ।
त्यक्त्वा च व्यतिपातवैधृतिदिनं विष्टिं च रिक्तां तिथिं
क्रूराहायनपौषचैत्रविरहे लग्नांशके मानुषे ॥८॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां करणगुणो
नाम शततमोऽध्यायः ॥१००॥
रोहिणी, तीनों उत्तरा, रेवती, मृगशिरा, मूल, अनुराधा, मघा, हस्त और स्वाती
नक्षत्रों में; कन्या, तुला और मिथुन लग्नों में एवं सप्तम, अष्टम और द्वादश स्थानों से
भिन्न स्थानों में शुभ ग्रह हों, एकादश, द्वितीय या तृतीय स्थानों में चन्द्र हो, तृतीय, षष्ठ
और एकादश में पाप ग्रह हों तथा षष्ठ में शुक्र और अष्टम में मंगल न हो तो विवाह शुभ
होता है। वर, कन्या दोनों में से किसी एक की राशि से दूसरे की राशि दूसरी, नवीं और
आठवीं न हो अर्थात् द्विर्द्वादश, नवमपञ्चम और षट्काष्टक राशि से रहित राशि हो, सूर्य
चारानुकूल ( तृतीय, षष्ठ, दशम या एकादश स्थान में स्थित ) हो, सूर्य, मंगल, शनि
या शुक्र से वियुत या दो पापग्रहों के मध्य में चन्द्र हो तथा व्यतिपात और वैधृति योग,
विष्टि करण, रिक्ता तिथि, पाप वार, क्रूरायन ( दक्षिणायन ), चैत्र और पौष मास—इन
सबों को छोड़ कर मानुष ( द्विपदसंज्ञक लग्न = मिथुन, कन्या और तुला ) में विवाह
शुभ होता है। यहाँ पर पौष और चैत्र मास का निषेध कर रहे हैं; किन्तु दक्षिणायन में ही
पौष को होने के कारण दक्षिणायन के निषेध से ही पौष का निषेध हो जाता है; फिर पौष
का निषेध क्यों किया? यहाँ आचार्य का अभिप्राय यह है कि दक्षिणायन में स्थित
कार्त्तिक और मार्गशीर्ष में विवाह करना चाहिये; लेकिन उत्तरायन में स्थित चैत्र में
विवाह नहीं करना चाहिये॥७-८॥
इति 'विमला'हिन्दीटीकायां करणगुणाध्यायः शततमः ॥१००॥
रोहिण्युत्तररेवतीति । रोहिणी। उत्तरत्रयम्। उत्तरफल्गुन्युत्तराषाढोत्तरभद्रपदा चेति।
रेवती। मृगशिरः। मूलम्। अनुराधा। मघा। हस्तः। स्वातिः। एतेषु नक्षत्रेषु पाणिग्रहो विवाहः
कार्यः। तथा षष्ठतौलिमिथुनेषूद्यत्सु । षष्ठः कन्या। तौली तुलः। मिथुनः प्रसिद्धः । एते-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५५२ बृहत्संहिता
षूद्यत्सूदयं गच्छत्सु लग्नतां प्राप्तेष्वित्यर्थः। उक्तं च—
हस्तोत्तरास्वातिमघानुराधाप्राजेशपौष्णोन्दवनैर्ऋतेषु ।
उद्वाहसौभाग्यसुखानि कन्या प्राप्नोति शेषैः सुतभर्तृशोकम् ।।
कन्यातुलाजन्ममिथुनेषु साध्वी शेषेष्वसाध्वी धनवर्जिता च।
अन्येषु भेषु द्विपदांश इष्टः कन्यादिलग्नेषु न चान्त्यभागः ।। इति।
एतानि नक्षत्राणि लग्नानि चाभिधाय ग्रहकुण्डलिकामह—सप्ताष्टान्त्यबहिःशुभै-
रिति। शुभग्रहैर्बुधजीवशुक्रैः। सप्ताष्टान्त्यबहिःस्थितैः। सप्तममष्टममन्त्यं च द्वादशस्थानं
बहिःकृत्वा वर्जयित्वान्यत्र स्थितैः। लग्नद्वितीयतृतीयचतुर्थपञ्चमषष्ठनवमदशमैकादशस्थानेषु
स्थितैरित्यर्थः। उडुपतौ चन्द्रे एकादशद्वितीयतृतीयस्थानानामन्यतमस्थानगते। क्रूरैः पापग्रहैरा-
दित्याङ्गारकशनैश्चरैः। त्र्यायषडष्टगैः। त्रिस्तृतीयम्। आयमेकादशम्। षडष्टके षष्ठाष्टमस्थाने
प्रसिद्धे। एतेषु स्थानेषु एतैः संस्थितैः पापैः, न तु भृगौ षष्ठे सौम्यत्वाच्छुक्रस्य षष्ठे
शुभं फलं प्रागभिहितं तस्यानेन प्रतिषेधः कार्यः। कुजेऽष्टमे च। उक्तं च—
सौम्यान् व्ययास्तनिधनेष्वरिभे च शुक्लं
हित्वा स्थितस्त्रिधनलाभगतः शशाङ्कः ।
पापास्त्रिषड्निधनलाभगता विवाहे
हित्वाऽष्टमं क्षितिजमिष्टफलानि दद्युः ।। इति।
अथ कन्याकुमारयोः परस्परमानुकूल्यमह—दम्पत्योर्द्विनवाष्टराशिरहित इति।
दम्पत्योर्जायापत्योः। द्विद्वादशनवमपञ्चमाष्टषष्ठराशिभी रहिते वर्जिते। परस्परं यदि द्विद्वादशे
नवमपञ्चमे षष्ठाष्टमे न भवतः। एकराशी तृतीयैकादशराशी चतुर्थदशमराशी सप्तमराशी
भवतस्तदा कार्य इत्यर्थः। उक्तं च—
त्रिकोणषष्ठाष्टधनव्ययेषु पापप्रदानं शुभमन्यभेषु।
चारानुकूले रवौ। रवावादित्ये चारानुकूले चारस्य जन्मराशेस्तृतीयषष्ठदशमैका-
दशस्थानानामन्यतमस्थ इत्यर्थः। कन्यायाश्चन्द्रे गोचरानुकूले। उक्तं च—
गोचरशुद्धाविन्दुं कन्याया यत्नतः शुभं वीक्ष्य।
तिग्मकिरणं च पुंसां शेषैर्बलैरपि विवाहः ।।
अथ समागमफलं प्रदर्शयति—चन्द्रे चार्ककुजार्किशुक्रवियुत इति। अर्क
आदित्यः। कुजोऽङ्गारकः। आर्किः सौरः। शुक्नो भार्गवः। एतैर्वियुते रहिते चन्द्रे। एतेषा-
मन्यतमेन सह मार्गस्थो यदि न भवति। अथैदिवं बुधगुरुयुक्तश्चन्द्रमाः शुभः। उक्तं च—
नान्यैः समेतः शुभकृच्छशाङ्कः केषाञ्चिदिष्टो बुधजीवयुक्तः।। इति।
मध्येऽथवा पापयोः। पापग्रहयोर्मध्येऽन्तश्चन्द्रो यदि न भवति। उक्तं च—
मध्ये पापग्रहयोः पाणिग्रहणे शशी न सौख्यकरः।
तस्माद्यत्नात् चन्द्रः कन्यायाः सुस्थितो देयः ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
करणगुणाध्यायः ५५३
एकः पापश्चन्द्राद् द्वितीयेऽन्यो द्वादशे यदि भवति तदा स पापयोर्मध्यगतो भवति।
त्यक्त्वा च व्यतिपातवैधृतिदिनमिति। यस्मिन् दिने व्यतिपातो भवति। तद् व्यतिपात-
दिनम्। यस्मिन् दिने वैधृतिर्भवति तद्वैधृतिदिनम्। एवं व्यतिपातवैधृतिदिनं त्यक्त्वा
विहाय। उक्तं च—
न वैधृतिदिने कुर्याद्व्यतीपातयुतेऽहनि।
विष्टिं करणं रिक्तां च तिथिं चतुर्थी नवमीं चतुर्दशीं च त्यक्त्वा विहाय। उक्तं च—
रिक्तासु च न कर्तव्यं न विष्टिदिवसे तथा।
क्रूराहायनेति। क्रूरस्याहः क्रूराहः पापग्रहवासरः। तस्मिन् पापदिने न कर्तव्यम्।
अर्थादिवं शुभग्रहदिने कर्तव्यम्। उक्तं च—
आग्नेयग्रहवासरेषु कलहः प्रीतिस्तु सत्सूतमा।
केचित् स्थैर्यमुशन्ति सौरदिवसं चन्द्रे ससापत्न्यकम्।। इति।
क्रूरमयनं दक्षिणायनम्। तत्र न कार्यम्। उत्तरायणेऽर्थादेव कार्यम्। उक्तं च—
उत्तरां भजमानेन काष्ठां वै सप्तसप्तिना।
चतुर्णामपि वर्णानां विवाहः श्रेष्ठ उच्यते।।
पौषचैत्रविरह इति। पौषमासं चैत्रं च वर्जयित्वा पौषचैत्रयोर्न कार्यः। नन्वत्र पौषो
दक्षिणायने भवति; दक्षिणायननिषेधात् पौषस्यापि निषेधं प्राप्नोति। तत्किमर्थमुक्तं पौषविरह
इति। अथोच्यते, अयमभिप्राय आचार्यस्य। यथा दक्षिणायनेऽपि कार्तिकमार्गशीर्षयोः कर्तव्यः।
उत्तरायणे सिद्धेऽपि विवाहविधौ चैत्रो न कार्यः। तथा च—
माघफाल्गुनवैशाखा ऐन्द्रसौम्यनिलास्तथा।
षडेते पूजिता मासाश्चातुर्वर्ण्येऽपि नित्यशः।।
एषूढा सुभगा साध्वी पुत्रिणी धर्मवत्सला।
धनिनी देवभक्ता च यथासङ्ख्यं प्रकीर्तिता।।
आषाढचैत्रपौषाश्च नभस्यः श्रावणस्तथा।
कुत्सिताः सर्ववर्णानां विवाहेषु मनीषिभिः।।
आषाढे नष्टशौचा तु खला सन्तानवर्जिता।
वैशाखे सर्वसामान्या चैत्रे चातृप्तमैथुना।।
पौषे भर्तृविहीना स्यान्नभस्येऽपि च दुर्भगा।
एवमाश्वयुजोढा तु श्रावणे तु मृतप्रजा।।
लग्नांशके मानुषे। द्विपदाख्ये मिथुनकन्यातुलानामन्यतमे कार्यः। अनेनैतत् प्रतिपादितं
भवति—यथा सर्व एव राशयो द्विपदनवांशकोदयगताः पाणिग्रहणे शस्ताः। तस्मिंश्च
मानुषांशके स्वामिदृष्टे। उक्तं च—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५५४ बृहत्संहिता
द्विपदभवनं प्राप्तो योंऽशः शुभाऽन्यगृहोदये।
द्विपदभवनेष्वप्यन्यांशा भवन्त्यशुभावहाः।।
तथा च—
विलग्नांशः स्वनाथेन यद्युद्वाहे न दृश्यते।
पुंविनाशस्ततोऽस्तांशो यद्येवं योषितस्ततः।।
लग्नांशकादस्तांशकस्यापि स्वामिदृष्टिर्विधेयेति।।७-८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ करणगुणो
नाम शततमोऽध्यायः ।।१००।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ नक्षत्रजातकाध्यायः
अथ नक्षत्रजातकाध्यायो व्याख्यायते। तत्रादावेवाश्विनीभरण्योर्जातस्य स्वभावमाह—
प्रियभूषणः स्वरूपः सुभगो दक्षोऽश्विनीषु मतिमांश्च।
कृतनिश्चयसत्यारुग्दक्षः सुखितश्च भरणीषु ॥१॥
जिस मनुष्य का अश्विनी नक्षत्र में जन्म हो, वह अलङ्करण का स्नेही, सुन्दर, सबों
का प्रिय, सब कार्य करने में चतुर और बुद्धिमान होता है। भरणी नक्षत्र में उत्पन्न जातक
जिस कार्य का प्रारम्भ करे, उसको सिद्ध करने वाला, सत्य बोलने वाला, नीरोग, चतुर
और सुखी होता है।।१।।
प्रियभूषणोऽलङ्करणवल्लभः। स्वरूपः शोभनाकृतिः। सुभगः सर्वजनवल्लभः। दक्षः
शीघ्रकारी। मतिमान् बुद्धिमान्। अष्टाङ्गबुद्धियुक्तः।
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा।
ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः।। इति।
एवंविधोऽश्विनीजातो भवति। तारकापेक्षया च बहुवचनम्। तथा च पराशरः—
विज्ञानवानरोगो भिषक् प्रदातार्थभृत्यवनितेशः।
दक्षः क्षितिपतिसेवी जातः स्यादाश्विने शूरः।।
कृतनिश्चय इति। कृतनिश्चयः कार्याणामन्तगः। सत्यः सत्यवाक्। अरुक् स्वच्छदेहः।
दक्षः शीघ्रकारी। सुखितः सञ्जातसुखः। एवंविधो भरणीषु जातो भवति। तथा च पराशरः—
धीरः क्रूरोऽनृतवाक् परवित्तहरो नरश्चपलबुद्धिः।
बहुशत्रुपुत्रभृत्यो याम्ये प्रियमांसमद्यश्च।। इति।।१।।
अथ कृत्तिकारोहिण्योर्जातस्य स्वरूपमाह—
बहुभुक् परदाररतस्तेजस्वी कृत्तिकासु विख्यातः।
रोहिण्यां सत्यशुचिः प्रियंवदः स्थिरः स्वरूपश्च ॥२॥
कृत्तिका नक्षत्र में उत्पन्न जातक बहुत भोजन करने वाला, दूसरों की स्त्रियों के
साथ रमण करने वाला, तेजस्वी ( किसी का नहीं सहने वाला ) और विख्यात होता
है। रोहिणी नक्षत्र में उत्पन्न जातक सत्य बोलने वाला, पवित्र, प्रिय बोलने वाला, स्थिर
बुद्धि वाला और सुन्दर रूप वाला होता है।।२।।
बहुभुक्, यः प्रभूतं भुङ्क्ते। परदाररतः परस्त्रीषु रतः। तेजस्वी सहिष्णुः। विख्यातः
कीर्तियुक्तः। एवंविधः कृत्तिकासु जातो भवति। तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५५६ बृहत्संहिता
धर्ममतिर्बहुवित् स्वाध्यायाभिजनरूपसम्पन्नः।
अकृपणमतिः शशियुते जातः स्यादग्निदैवत्ये।।
रोहिण्यामिति । सत्यः सत्यवाक्। शुचिः शास्त्रोक्तशौचानुष्ठानपरो धनाद्यलुब्धश्च।
प्रियंवदोऽभिमतवक्ता। स्थिर एकमतिः। स्वरूपः शोभनाकृतिः। एवंविधो रोहिण्यां जातो
भवति। तथा च पराशरः—
सुतधनपशुमान् विद्वान् दाता धीरोऽल्पवाक् स्थिरमतिश्च।
वृषभगतिस्तेजस्वी प्राजापत्ये नरो जातः।। इति।।२।।
चपलश्चतुरो भीरुः पटुरुत्साही धनी मृगे भोगी ।
शठगर्वितचण्डकृतघ्नहिंस्रपापश्च रौद्रर्क्षे ॥३॥
मृगशिरा में उत्पन्न जातक चञ्चल, चतुर, भय से पीड़ित, पटु, उत्साही, धनी और
भोगी होता है। आर्द्रा नक्षत्र में उत्पन्न जातक शठ ( परोपकार से रहित ), अभिमानी,
दूसरे के कृत्यों का नाश करने वाला, जन्तुओं का वध करने वाला और पापी होता
है।।३।।
चपलोऽनेकमतिः। चतुरो दक्षः। भीरुर्भयार्तः। पटुः प्रवक्ता। उत्साही सोद्यमः। धनी
धनवान्। भोगी भोगसंयुक्तः। एवंविधो मृगशिरसि जातो भवति। तथा च पराशरः—
अतिशीलरूपदृष्टः सौम्यमतिः सोद्यमः श्रुतिरहस्यः।
चपलमत्तिः सुविनीतो जातः स्यादिन्दुदैवत्ये।।
शठगर्वितैतेति । शठः परकार्यविमुखः। गर्वितो मानी। चण्डः प्रकोपनः। कृतघ्नो
निरुपकारशीलः। हिंस्रः क्रूरः। पापः पापसमेतः। एवंविधो रौद्रर्क्षे आर्द्रायां जातो भवति।
तथा च पराशरः—
रौद्रः क्रूरः क्रोधी परदारार्थापहारशीलश्च।
वाग् निष्ठुरोऽतिधीरो जातः स्याद् रुद्रदैवत्ये।। इति।।३।।
अथ पुनर्वसुजातस्य स्वरूपमाह—
दान्तः सुखी सुशीलो दुर्मेधा रोगभाक् पिपासुश्च ।
अल्पेन च सन्तुष्टः पुनर्वसौ जायते मनुजः ॥४॥
पुनर्वसु नक्षत्र में उत्पन्न जातक इन्द्रियों को वश में रखने वाला, सुखी, सुन्दर
स्वभाव वाला, दुर्बुद्धि, रोगी, तृष्णा से युत और थोड़े ही से प्रसन्न होने वाला होता
है।।४।।
दान्तो दमसंयुक्तो जितेन्द्रियः। सुखी सुखितः। सुशीलः शोभनचरित्रः। दुर्मेधा
दुष्टमतिः। रोगभाग् रोगपीडितः। पिपासुस्तृषार्तः। अल्पेन स्तोकमात्रेण सन्तुष्टो हृष्टः।
एवंविधो मनुष्यः पुनर्वसौ जायत उत्पद्यते। तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
नक्षत्रजातकाध्यायः ५५७
क्षयवृद्धिभावनायां यशांसि विदिशो भवन्ति कृच्छ्राणि।
व्याधिबहुलो बहुसुतः पुनर्वसौ जायते मनुजः॥ इति॥४॥
अथ तिष्याश्लेषयोर्जातस्य स्वरूपमाह—
शान्तात्मा सुभगः पण्डितो धनी धर्मसंश्रितः पुष्ये।
शठसर्वभक्ष्यपापः कृतघ्नधूर्तश्च भौजङ्गे ॥५॥
पुष्य नक्षत्र में उत्पन्न जातक शान्त प्रकृति वाला, सबों का प्रिय, पण्डित, धनी और
धर्म से युत होता है। आश्लेषा में उत्पन्न जातक शठ, खाद्य और अखाद्य सबों को खाने
वाला, पापी, अन्य के कृत्यों को नाश करने वाला एवं धूर्त होता है॥५॥
शान्तात्मा जितेन्द्रियः। सुभगः सर्वजनप्रियः। पण्डितः शास्त्रवित्। धनी वित्तवान्।
धर्मसंश्रितो धार्मिकः। एवंविधः पुष्ये जातो भवति। तथा च पराशरः—
द्युतिकान्तिसत्त्वयुक्तो बहुश्रुतो दारदासधनचेष्टः।
विपुलकुलवंशकर्ता व
५५८ बृहत्संहिता
बहुभाग्योऽल्पापत्यः सुभगः प्रियदर्शनो नरोऽल्पधनः।
नातिप्रबुद्धबुद्धिः परभाग्यविभुर्भवति भाग्ये।। इति।।६।।
अथोत्तरफल्गुनीहस्तयोर्जातस्य स्वरूपमाह—
सुभगो विद्याप्तधनो भोगी सुखभाग् द्वितीयफल्गुन्याम्।
उत्साही धृष्टः पानपोऽघृणी तस्करो हस्ते ॥७॥
उत्तरफाल्गुनी नक्षत्र में उत्पन्न जातक सबों का प्रिय, विद्या से धनोपार्जन करने
वाला, भोगी और सुखी होता है। हस्त नक्षत्र में उत्पन्न जातक उत्साही, प्रतिभा से युक्त,
निर्लज्ज, मद्यपान करने वाला, अघृणी (निर्दयी) और तस्कर (चोर) होता है।।४।।
सुभगः सर्वजनप्रियः। विद्याप्तधनो विद्यायाऽऽप्तं धनं वित्तं येन। भोगी भोगवान्।
सुखभाक् सुखी। एवंविधो द्वितीयफल्गुन्यामुत्तरफल्गुन्यां जातो भवति। तथा च पराशरः—
हयगजरथप्रयायी दाता भोक्ता विहाररतिशीलः।
मृदुवाग्गीतरतिः स्यादार्यम्णे मानवो विद्वान्।।
उत्साही धृष्ट इति। उत्साही सोद्यमः। धृष्टः प्रगल्भः। पानपः पानसक्तः। अघृणी
निर्दयः। तस्करश्चौरः। एवंविधो हस्ते जातो भवति। तथा च पराशरः—
उपचितकरचरणभुजो बहुविधधनधान्यताग्रणीः सेर्ष्यः।
धर्मार्थकामभागी हस्ते सुतवान् नरो जातः।। इति।।७।।
अथ चित्रास्वात्योर्जातस्य स्वरूपमाह—
चित्राम्बरमाल्यधरः सुलोचनाङ्गश्च चित्रायाम्।
दान्तो वणिक् तृषालुः प्रियवाग्धर्माश्रितः स्वातौ ॥८॥
चित्रा नक्षत्र में उत्पन्न जातक अनेक रंग के वस्त्र और माला को धारण करने वाला,
सुन्दर नेत्र और सुन्दर शरीर वाला होता है। स्वाती नक्षत्र में उत्पन्न जातक इन्द्रियों को
वश में रखने वाला, व्यापार करने वाला, दयालु, प्रिय बोलने वाला और धर्म के
आश्रय में रहने वाला होता है।।८।।
चित्राणि नानाप्रकाराणि अम्बराणि वस्त्राणि माल्यानि च धारयति। सुलोचनाङ्गः
शुभे लोचने अक्षिणी अङ्गान्यवयवानि च यस्य। एवंविधश्चित्रायां जातो भवति। तथा च
पराशरः—
वेदार्थशास्त्रकुशलः पशुमानत्यन्तशिल्पकर्मा च।
चित्राक्षश्चित्रायां सुभगश्च नरस्त्रिपुत्रश्च।।
दान्तो वणिगिति। दान्तो जितेन्द्रियः। वणिक् क्रयविक्रयकुशलः। तृषालुस्तृषार्तस्तृषां
न सहते। अन्ये कृपालुर्दयालुरितीच्छन्ति। प्रियवागभिमतवक्ता। धर्माश्रितो धर्मपरः।
एवंविधः स्वातौ जातो भवति। तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
नक्षत्रजातकाध्यायः ५५९
बहुजनभर्ता वक्ता त्रिवर्गभोक्ता प्रियो महोत्साहः ।
वामाचारोऽल्परिपुः स्वातौ जातः कुलाग्र्यश्च ।। इति ।। ८ ।।
अथ विशाखानुराधयोर्जातस्य स्वरूपमाह—
ईर्षुर्लुब्धो द्युतिमान् वचनपटुः कलहकृद्विशाखासु ।
आढ्यो विदेशवासी क्षुधालुरटनोऽनुराधासु ॥ ९॥
विशाखा नक्षत्र में उत्पन्न जातक दूसरे की उन्नति में मत्सर, कान्तिमान, बोलने में
चतुर और झगड़ालू होता है। अनुराधा नक्षत्र में उत्पन्न जातक धनवान, परदेश में रहने
वाला, अधिक क्षुधा से पीड़ित और भ्रमण करने वाला होता है।। ९ ।।
ईर्षुः परद्विट् मत्सरः। लब्धो लोभाभिभूतः। द्युतिमान् कान्तियुक्तः। वचनपटुः सम्भाषण-
दक्षः। कलहकृत् कलहशीलः। एवंविधो विशाखासु जातो भवति। तथा च पराशरः—
श्रीमानीज्याभिरतः प्राज्ञोऽनुपसाधुकृत् कृतार्थपतिः।
तीक्ष्णोऽभिमानयुक्तश्चैन्द्राग्नौ ख्यातकीर्तिश्च ।।
आढ्य इति । आढ्य ईश्वरः। विदेशवासी परदेशनिवसनशीलः। क्षुधालुः क्षुधां
बुभुक्षां न सहते। अटनः परिभ्रमणशीलः। एवंविधोऽनुराधासु जातो भवति। तथा च पराशरः—
स्थिरमित्रस्तेजस्वी सुतवानत्यन्तसौख्यभागी च।
ज्ञातिष्वग्र्योऽर्थपरो जातः स्याद् मित्रदैवत्ये।। इति ।। ९ ।।
अथ ज्येष्ठामूलयोर्जातस्य स्वरूपमाह—
ज्येष्ठासु न बहुमित्रः सन्तुष्टो धर्मकृत् प्रचुरकोपः ।
मूले मानी धनवान् सुखी न हिंस्रः स्थिरो भोगी ॥ १० ॥
ज्येष्ठा नक्षत्र में उत्पन्न जातक अधिक मित्रों से रहित, सन्तुष्ट, धर्म करने वाला और
अधिक क्रोध करने वाला होता है। मूल नक्षत्र में उत्पन्न जातक मानी, धनवान, सुखी,
हिंसा कर्म से रहित, स्थिर बुद्धि वाला और भोगी होता है।। १० ।।
न बहुमित्रः स्वल्पसुहृत्। सन्तुष्टः सन्तोषशीलः। धर्मकृद्धर्मानुरतः। प्रचुरकोपः
क्रोधशीलः। एवंविधो ज्येष्ठासु जातो भवति। तथा च पराशरः—
ज्ञातिषु गुणेषु राजसु पूजां प्राप्नोति नाशयति शत्रून्।
तेजोऽधिकोऽर्थभागी जातः स्यादिन्द्रदैवत्ये।।
मूले मानी धनवानिति । मानी गर्वितः। धनवान् वित्तवान्। सुखी सुखितः। न
हिंस्रोऽक्रूरः। स्थिर एकमतिः। भोगी भोगवान्। एवंविधो मूले जातो भवति। तथा च पराशरः—
धनधान्याढ्यो दाता परवित्तहरो नरः कलहशीलः।
क्रूरः परोपतापी मूले मूलोपजीवी च।। इति ।। १० ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५६० बृहत्संहिता
अथ पूर्वाषाढोत्तराषाढयोर्जातस्य स्वरूपमाह—
इष्टानन्दकलत्रो वीरो दृढसौहृदश्च जलदेवे।
वैश्वे विनीतधार्मिकबहुमित्रकृतज्ञसुभगश्च ॥११॥
पूर्वाषाढ़ा नक्षत्र में उत्पन्न जातक अपने अभीष्ट आनन्द देने वाली स्त्री से युत,
अभिमानी और अच्छे मित्रों से युत होता है। उत्तराषाढ़ा नक्षत्र में उत्पन्न जातक विशेष
नम्र स्वभाव वाला, धार्मिक, बहुत मित्रों से युत, दूसरे से किये गये उपकार को मानने
वाला और सबका प्रिय होता है॥११॥
इष्टं वल्लभं सानन्दं कलत्रं भार्या यस्य। वीरः सङ्ग्रामशूरः। केचिद् मानी गर्वीती-
च्छन्ति। दृढसौहृदः स्थिरमित्रः। एवंविधो जलदेवे पूर्वाषाढायां जातो भवति। तथा च
पराशरः—
सलिलपथकर्मसिद्धः क्लेशसहिष्णुः परस्य दारेच्छुः।
नित्यमकल्पशरीरः प्रियमद्यः पूर्वाषाढासु॥
वैश्वे विनीत इति। विनीतो विनयोपेतः। धार्मिको धर्मपरः। बहुमित्रः प्रभूतसुहृत्।
कृतज्ञः प्रत्युपकारनिरतः। सुभगः सर्वजनप्रियः। एवंविधो वैश्वे उत्तराषाढायां जातो
भवति। तथा च पराशरः—
यानोद्यानवनरतिः प्रवाससुरतीर्थसाधुसेवी च।
बहुशिल्पार्थः प्रियवाग् जातः स्याद् वैश्वदेवे च॥
अथ श्रवणधनिष्ठयोर्जातस्य स्वरूपमाह—
श्रीमान् श्रवणे श्रुतवानुदारदारो धनान्वितः ख्यातः।
दाताऽऽढ्यशूरगीतप्रियो धनिष्ठासु धनलुब्धः ॥१२॥
श्रवण नक्षत्र में उत्पन्न जातक श्रीमान्, पण्डित, उदार, स्त्री से युत, धनी और विख्यात
होता है। धनिष्ठा नक्षत्र में उत्पन्न जातक दानी, धनी, गीत-वाद्यादि का प्रेमी और लोभी
होता है॥१२॥
श्रीमानीश्वरः। श्रुतवाक् पण्डितः। उदारदार उदारेषु दारः। अथवोदारा दारा यस्य।
उदारा दातारः। धनान्वितो धनसंयुक्तः। ख्यातः कीर्तियुक्तः। एवंविधो श्रवणे जातो
भवति। तथा च पराशरः—
ज्ञातिश्रेष्ठो धनवान् दानरुचिर्भवति दक्षिणो दक्षः।
नित्यमरोगशरीरः श्रवणे हतशत्रुपक्षश्च॥
दाताऽऽढ्यशूरेति। दाता दानशीलः। आढ्य ईश्वरः। शूरः सङ्ग्रामप्रियः। गीतप्रियो
स्वरगीतरतिः। धनलुब्धो वित्तलोभाभिभूतः। एवंविधो धनिष्ठासु जातो भवति। तथा च
पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA