सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

शाकुनाध्यायः ३९३
अथान्येषामपि वामदक्षिणभागानां शुभाशुभफलमतिदिशन्नाह—
क्ष्वेडास्फोटितपुण्याहगीतशङ्खाम्बुनिःस्वनाः ।
सतूर्याध्ययनाः पुंवत् स्त्रीवदन्या गिरः शुभाः ॥३९॥
क्ष्वेड ( मुख का शब्द ), आस्फोट ( हाथों का शब्द ), पुण्याह शब्द, शंख का
शब्द, जल का शब्द, तुरही का शब्द और वेदध्वनि—ये सभी पुरुष की तरह ( वाम-
भागस्थित ) शुभ होते हैं तथा अन्य मांगलिक शब्द स्त्रीवत् ( दक्षिण भागस्थित ) शुभ
होते हैं॥३९॥
क्ष्वेडो मुखशब्दः, शोडनिकेति प्रसिद्धा। आस्फोटितं करशब्दः। करास्फोटः, वक्षः-
स्थस्य बाहोर्द्वितीयहस्तेन ताडनम्। पुण्याहशब्दः प्रशस्तवादः। शङ्खः प्रसिद्ध एव। अम्बु
जलम्। एषां सर्वेषां निःस्वनाः शब्दाः सतूर्याध्ययनाः, तूर्येण च सहिताः। अध्ययनशब्दा
वेदनिर्घोषाः। एते सर्व एव पुंवच्छुभाः। वामभागस्था इत्यर्थः। स्त्रीवदन्या गिरः शुभाः।
अन्याः सर्वा गिरो वाचः स्त्रीवच्छुभाः। माङ्गलिकवाचा दक्षिणभागस्थाः शुभा इत्यर्थः।
उक्तं च—
आक्ष्वेडितस्फोटितशङ्खतूर्यपुण्याहगीतध्वनिगीतशब्दाः ।
वामाः प्रशस्ताः शुभदा नराणामाक्रन्दितो दक्षिणतः परेषाम्॥ इति॥३९॥
अधुना ग्रामस्वराणां शुभाशुभत्वमाह—
ग्रामौ मध्यमषड्जौ तु गान्धारश्चेति शोभनाः।
षड्जमध्यमगान्धारा ऋषभश्च स्वरा हिताः ॥४०॥
यात्रा में मध्यम, षड्ज, गान्धार—ये तीनों स्वर शुभ और षड्ज, मध्यम, गान्धार,
ऋषभ—ये चार स्वर हितकारी होते हैं॥४०॥
याने यात्रायां ग्रामौ मध्यमषड्जौ तु शस्तौ शोभनौ। गान्धारश्चेति शोभन एव। इति-
शब्दः प्रकारार्थः। स च गान्धारो देवेषु गीयते। मानुषेषु तथा षड्जमध्यमगान्धारा ऋषभश्चेति
स्वराः शस्ताः। उक्तं च—
गान्धारषड्जऋषभः खलु मध्यमश्च याने स्वराः शुभकरा न तु येऽवशेषाः।
ग्रामौ शुभावपि हि मध्यमषड्जसंज्ञौ गान्धारगीतमपि भद्रमुशन्ति देवाः॥४०॥
अथान्यच्छुभाशुभशकुनमाह—
रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः ।
धन्या नकुलचाषौ च सरटः पापदोऽग्रतः ॥४१॥
भारद्वाज, बकरा, मयूर—इनका शब्द, नामकीर्तन और देखना धन्य है तथा नेवला,
चाष और सरट—इनका आगे में आना अशुभ है॥४१॥
भरद्वाजः पक्षिविशेषः। लाटेति प्रसिद्धः। अजश्छागः। बर्ही मयूरः। एते सर्वे रुतेन

३९४ बृहत्संहिता
शब्देन कीर्तनेन नामसङ्कीर्तनेन दृष्टेन दर्शनेन च धन्याः शुभाः। नकुलचाषौ, नकुलः प्राणी,
चाषः पक्षिविशेषः। एतावपि च शब्दौ धन्यावेव रुतकीर्तनदृष्टेष्विति। सरटः प्राणी पक्षिभेदः।
कृकलास इति केचित्। स चाग्रतः पुरतः पापदोऽनिष्टफलः।।४१।।
अथान्यदप्याह—
जाहकाहिशशक्रोडगोधानां कीर्तनं शुभम्।
रुतं सन्दर्शनं नेष्टं प्रतीपं वानरर्क्षयोः ॥४२॥
यात्रा के समय में जाहक, सर्प, खरगोश, सूअर और गोह का नाम लेना शुभकारी
है। इससे उलटा वानर तथा भालू का फल होता है। अर्थात् यात्रा-समय में वानर तथा
भालू का नाम लेना अशुभ तथा शब्द और दर्शन शुभ है।।४२।।
जाहकः प्राणी। अहिः सर्पः। शशः प्राणी। क्रोडः सूकरः। गोधा प्राणिविशेषः। एतेषां
कीर्तनं नामग्रहणं शुभम्। एतेषामेव रुतं शब्दः सन्दर्शनमवलोकनं नेष्टं शुभम्। प्रतीपं
वानरर्क्षयोः, वानरः कपिः, ऋक्षः प्राणी। एतयोः प्रतीपमेतद्विपरीतम्। एतयो रुतं सन्दर्शन-
मिष्टम्, न कीर्तनमित्यर्थः। उक्तञ्च—
भारद्वाज्यज्वन्तिचाषनकुलाः सङ्कीर्तनाद् दर्शनात्
क्रोशन्तश्च शुभप्रदा न सरटो दृष्टः शिवाय क्वचित्।
गोधासूकरजाहकाहिशशकाः पापा रुतालोकने
धन्यं कीर्तनमृक्षवानरकलं तद्व्यत्ययाच्छोभनम्।। इति।।४२।।
अन्यदप्याह—
ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः।
चाषः सनकुलो वामो भृगुराहापराह्णतः ॥४३॥
विषमसंख्यक (१, ३, ५, ७ आदि) मृग, नकुल और अण्डज प्राणी वाम पार्श्व
से आगे आकर दक्षिण पार्श्व में आ जायँ तथा नकुल के साथ चाप पक्षी दक्षिण पार्श्व से
आकर वाम पार्श्व में आ जायँ तो शुभ होते हैं। भृगु का मत है कि ये सभी अपराह्न में
शुभकारी होते हैं, पूर्वाह्न में नहीं।।४३।।
मृगा हरिणाः। सनकुलाण्डजा नकुलाः प्राणिनः। अण्डजाः पक्षिणः। ते चोजा विषम-
सङ्ख्याः। एकस्त्रयः पञ्च सप्त नव इत्यादि। प्रादक्षिण्येन शस्ता शुभाः। यातुर्वामपार्श्वादग्रत
आगत्य प्रदक्षिणेन पार्श्वेन क्रामति यत् तत् प्रदक्षिणं सव्यं च। एतद्विपरीतं दक्षिण-
पार्श्वाद्वमपार्श्वगमनं यत् तदपसव्यम्। एतत्सर्वं शाकुने विज्ञेयम्। यस्मादाचार्य एव
ज्ञापकः—
ऐन्द्रानलदिशोर्मध्ये त्रिभागेषु व्यवस्थिताः।
कोषाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम्।। इति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनाध्यायः ३९५
चाषः सनकुलो वाम इति। चाषः सनकुलो नकुलेन सहितो वामो वामभागगतो
धन्यः। भृगुराहापराह्नतः, भृगुर्नाम मुनिरेवमाहोक्तवान्। यथाऽपराह्नतोऽपराह्नात् परतो वामगौ
धन्यौ, न पूर्वाह्ने। तथा भृगुः—
वामगौ चाषनकुलावपराह्ने शुभप्रदौ।
श्वशृगालयोरिदं व्यत्यासेन फलं प्रशस्यते। चाषौ नकुलश्च वामगो दिवसाधार्त् परतः
शुभप्रदः।।४३।।
अथान्येषामप्याह—
छिक्करः कूटपूरी च पिरिली चाह्नि दक्षिणाः ।
अपसव्याः सदा शस्ता दंष्ट्रिणः सबिलेशयाः ॥४४॥
दिन में सियार, करायिका और पिरली पक्षी दक्षिण भाग में शुभ होते हैं तथा दंष्ट्री
( सूअर आदि ) और बिल में रहने वाले प्राणी वाम भाग में शुभ होते हैं।।४४।।
छिक्करः शृगालः, कूटपूरी करायिका, पिरिली पक्षिविशेषः, तेऽह्नि दिवसे दक्षिणाः
शस्ताः। दंष्ट्रिणो वराहादयः। बिले शेते ते बिलेशयाः श्वाविन्नकुलादयः। दंष्ट्रिणो बिलेशयैः
सह अपसव्या वामभागगताः शस्ताः शोभनाः।।४४।।
अधुना दिग्वशेन शाकुनानां शुभाशुभमाह—
श्रेष्ठे ह्यसिते प्राच्यां शवमांसे च दक्षिणे ।
कन्यकादधिनौ पश्चादुदग्गोविप्रसाधवः ॥४५॥
पूर्व में घोड़ा और सफेद वस्तु, दक्षिण में शव और मांस, पश्चिम में कन्या और दही
तथा उत्तर में गाय, ब्राह्मण और सज्जन पुरुष श्रेष्ठ होते हैं।।४५।।
हयोऽश्वः। सितः श्वेतवर्णो यः कश्चिद्वस्तुरूपः। एते प्राच्यां पूर्वदिशि यातुः श्रेष्ठे
शोभने। शवो मृतपुरुषः। मांसमामिषम्। एते दक्षिणे दक्षिणस्यां दिशि शुभे। कन्यका
कुमारी। दधि क्षीरविकारः। एते पश्चिमे पश्चिमायां दिशि शोभने। गौः प्रसिद्धा। विप्रो
ब्राह्मणः। साधुः सज्जनः। एत उदग् उत्तरस्यां दिशि शोभनाः। उक्तं च—
द्रव्याणि श्वेतानि तुरङ्गमश्च पूर्वेण याम्येन शवं समांसम्।
पश्चात् कुमारी दधि चातिशस्तं सौम्येन गोब्राह्मणसाधवश्च।। इति।।४५।।
अथाशुभानाह—
जालश्वचरणौ नेष्टौ प्राग्याम्यौ शस्त्रघातकौ ।
पश्चादासवरषण्ढौ च खलासनहलान्युदक् ॥४६॥
पूर्व में जाल के साथ चलने वाले और कुत्ते के साथ चलने वाले, दक्षिण में शस्त्र
और वधिक, पश्चिम में आसव ( मद्य आदि ) और नपुंसक तथा उत्तर में आसन और
हल अशुभ होते हैं।।४६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३९६ बृहत्संहिता
जालः प्रसिद्धः। सूत्रतन्तुविरचितो जालः पक्षिणो यत्र बध्यन्ते। जालेन चरति शुना
चरतीति जालश्वचरणौ। एतौ प्राक् पूर्वस्यां दिशि नेष्टावशुभौ। शस्त्रमायुधवर्जितमन्यद्यत्
किञ्चित्। घातको बाधकः। एतौ याम्यायां दक्षिणस्यां दिशि न शुभौ। आसवः पानविशेषः।
षण्ढः क्लीबः। एतौ पश्चात् पश्चिमायां दिशि न शुभौ। खलो दुर्जनः। आसनं प्रसिद्धम्।
पर्यङ्कादि। हलं लाङ्गलम्। एतान्युदगुत्तरस्यां दिशि न शोभनानि। उक्तं च—
जालकरश्वकरौ न शुभौ प्राग् घातकशस्त्रकरौ यमदिक्स्थौ।
षण्ढकमद्यकरावपि पश्चादासनशीरखलैः सह चोदक्।। इति।।४६।।
अधुना कर्मादौ शकुनानां विशेषमाह—
कर्मसङ्गमयुद्धेषु प्रवेशे नष्टमार्गणे।
यानव्यस्तगता ग्राह्या विशेषश्चात्र वक्ष्यते ॥४७॥
कर्मर ( जो करते हैं ), संगम ( किसी वृद्ध आदि के साथ संयोग ) युद्ध, प्रवेश
( गृहप्रवेश आदि ) और नष्ट द्रव्य के अन्वेषण में यात्रा में कथित प्रदेश से विरुद्ध
प्रदेश में स्थित शकुन शुभ होता है। जैसे यात्रा में जो दक्षिण में शुभ हैं वे यहाँ पर वाम
में, यात्रा में जो वाम में शुभ हैं वे यहाँ पर दक्षिण में, यात्रा में जो आगे में शुभ हैं वे
यहाँ पर पीछे में, यात्रा में जो पीछे में शुभ हैं वे यहाँ पर आगे में, यात्रा में जो पूर्व दिशा
में शुभ हैं वे यहाँ पर पश्चिम में, यात्रा में जो पश्चिम में शुभ हैं वे यहाँ पर पूर्व में, यात्रा
में जो दक्षिण में शुभ हैं वे यहाँ पर उत्तर में और यात्रा में जो उत्तर में शुभ हैं वे यहाँ पर
दक्षिण में शुभ होते हैं।।४७।।
कर्म यत् किञ्चित् क्रियते। सङ्गमः केनचिद्वृद्धादिना सह संयोगः। युद्धः संग्रामम्।
एतेषु। तथा प्रवेशे गृहप्रवेशादौ। नष्टमार्गणे नष्टस्यापहृतस्य वस्तुनो मार्गणेऽन्वेषणे।
एतेषु सर्वेषु यानव्यस्तगता ग्राह्याः। याने यात्रायां येन प्रकारेणोक्तास्तद्व्यत्ययेनैतेषु ग्राह्याः।
एतदुक्तं भवति—यात्रायां ये दक्षिणे शस्तास्तेऽत्र वामतः। यात्रायां वामतस्तेऽत्र दक्षिणतः।
यात्रायां ये च पुरस्तात् तेऽत्र पृष्ठतः। यात्रायां ये च पृष्ठतस्तेऽत्राग्रत इति। दिक्ष्वप्येवमेव
विपर्यया विज्ञातव्याः। तेन यात्रायां ये पूर्वस्यां दिशि तेऽत्र पश्चिमायाम्। ये च पश्चिमायां
ते च पूर्वस्याम्। ये च दक्षिणस्यां त उत्तरस्याम्। य उत्तरस्यां ते दक्षिणस्यामिति। अत्रा-
स्मिन्नर्थे कर्मसङ्गमादिके यो विशेषः स वक्ष्यते कथयिष्यते। उक्तं च—
नष्टावलोकनसमागमयुद्धकर्मवेश्मप्रवेशमनुजेश्वरदर्शनेषु।
......................................................यानप्रतीपविधिना शुभदा भवन्ति।। इति।।४७।।
अथात्रैव विशेषमाह—
दिवा प्रस्थानवद्ग्राह्याः कुरङ्गरुरुवानराः।
अहश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः ॥४८॥
पश्चिमे शर्वरीभागे नप्तृकोलूकपिङ्गलाः।
सर्व एव विपर्यस्ता ग्राह्याः सार्थेषु योषिताम् ॥४९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनाध्यायः ३९७
दिन में पूर्वोक्त कर्म आदि करना हो तो वहाँ पर कुरङ्ग, रुरु (मृगजाति) और
वानर को; पूर्वाह्न में चाष, वञ्जुल और मुर्गा को तथा रात्रि के अन्त भाग में नप्तृक, उल्लू
और पिङ्गला को यात्रा की तरह ग्रहण करना चाहिये; किन्तु स्त्रियों के लिये उपर्युक्त
समस्त शकुन विपरीतक्रम से ग्रहण करना चाहिये॥४८-४९॥
दिवा प्रस्थानवदिति। कर्मादिषु दिवा दिवसे। कुरङ्गरुरुवानराः, कुरङ्गो हरिणः,
रुरुर्मृगजातिः, वानरः कपिः, एते प्रस्थानवद् ग्राह्याः। यथा प्रस्थाने यात्रायां गृह्यते तथात्रापि।
अह्नो दिवसस्य प्रथमे भागे चाषवञ्जुलकुक्कुटाः सर्व एते पक्षिणः प्रस्थानवद् ग्राह्याः।
शर्वरी रात्रिः, तस्याः पश्चिमेऽन्त्ये भागे। नप्तृका उलूका पिङ्गला एते सर्व एव
पक्षिणः। पिङ्गलोलूकचेटिका, एते प्रस्थानवद् ग्राह्याः। योषितां स्त्रीणां केवलानां सार्थेषु
सर्व एव विपर्यस्ता विपरीतगता ग्राह्याः। यात्रायां कर्मसङ्गमादिष्वपि सर्वत्र विपरीता
ग्राह्या इति॥४८-४९॥
अन्यदप्याह—
नृपसन्दर्शने ग्राह्यः प्रवेशेऽपि प्रयाणवत्।
गिर्यरण्यप्रवेशेषु नदीनां चावगाहने॥५०॥
वामदक्षिणगौ शस्तौ यौ तु तावग्रपृष्ठगौ।
यात्रा में जो वाम और दक्षिणगत शकुन शुभ हैं, वे राजा के दर्शन, गृहप्रवेश आदि,
पर्वतप्रवेश, वनप्रवेश और नदी के पार होने में क्रम से आगे और पीछे में शुभ होते हैं।
जैसे—यात्रा में जो वाम में शुभ हैं, वे यहाँ पर आगे में और यात्रा में जो दक्षिण में शुभ
हैं, वे यहाँ पर पीछे में शुभ होते हैं॥५०-१/२॥
नृपो राजा तस्य सन्दर्शनेऽवलोकने। यद्यपि प्रवेशो राजगृहे भवति, तथापि प्रयाणवद्
ग्राह्यः। एवं यद्यपि प्रवेशस्तथापि तस्मिन् प्रयाणवद् ग्राह्यः। उक्तं च—
केचिज्जगुर्गमनवन्नृपदर्शनेषु -------------------------। इति।
गिरिप्रवेशे पर्वतप्रवेशे। अरण्यप्रवेशे अटव्याम्। नदीनां सरितामेवावगाहने उत्तरणे।
यौ शकुनौ यात्रायां वामदक्षिणगौ शस्तौ तावग्रपृष्ठगाविति प्रवेशादिशि शस्तौ।
यात्रायां ये वामतः शस्तास्तेऽत्राग्रतः पुरतः। यात्रायां ये दक्षिणतस्तेऽत्र पृष्ठत इति॥५०॥
अथान्येष्व्वाह—
क्रियादीप्तौ विनाशाय यातुः परिघसंज्ञितौ॥५१॥
तावेव तु यथाभागं प्रशान्तरुतचेष्टितौ।
शकुनौ शकुनद्वारसंज्ञितावर्थसिद्धये॥५२॥
क्रियादीप्ति में गमन करने वाले के दोनों पार्श्व में शकुन दिखाई दे तो 'परिघ'संज्ञक
शकुन होता है। परिघसंज्ञक शकुन होने पर गमन करने वाले का नाश होता है; किन्तु वे
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३९८ बृहत्संहिता
दोनों शकुन यथाभाग ( दक्षिण भाग वाले दक्षिण भाग में और वाम भाग वाले वाम
भाग में ) स्थित होकर शान्तिपूर्वक शब्द करें तो 'शकुनद्वार' संज्ञक होते हैं। इनमें गमन
करने वाले के अभीष्ट अर्थ की सिद्धि होती है।।५१-५२।।
क्रियादीप्तस्य लक्षणं प्रागुक्तम्—'क्रियादीप्तो गतस्थानभावस्वरविचेष्टितैः' इति।
क्रियादीप्तौ शकुनौ यातुर्जिगमिषोर्यदि परिघसंस्थितौ उभयपार्श्वस्थितौ भवतस्तदा विनाशाय
यातुरेव भवतस्तावेव शकुनौ परिघसंज्ञितौ।
यथाभागं यथास्थितौ भवतः। यः शकुनो दक्षिणस्थितः स च तत्रैव शुभः, यश्च वाम-
भागस्थः स च वामभाग एव शुभः। तौ च प्रशान्तरुतचेष्टितौ, प्रशान्तं रुतं शब्दश्चेष्टितं
च ययोस्तौ तथाभूतौ शकुनौ शकुनानां शुभानामर्थानां द्वारसंज्ञितौ मार्गभूतावर्थानां च
सिद्धये भवतः।।५१-५२।।
अधुना मतान्तरेण शकुनद्वारमाह—
केचित्तु शकुनद्वारमिच्छन्त्युभयतः स्थितैः।
शकुनैरेकजातीयैः शान्तचेष्टाविराविभिः ॥५३॥
किसी का मत है कि एक जाति वाले, शान्त चेष्टा से शब्द करने वाले, दोनों पार्श्व
में स्थित शकुनों से शकुनद्वार संज्ञक शकुन बनता है।।५३।।
चेष्टालक्षणं वक्ष्यति—'तिथिवार्व्वर्कभस्थानचेष्टादीप्ता यथाक्रमम्।' एवं शान्तचेष्टा
विरावः शब्दश्च येषां तैः शकुनैरेकजातीयैरेकयोन्युद्भवैरुभयतः स्थितैः पार्श्वद्वयगतैः केचित्
शकुनद्वारमिच्छन्ति कथयन्ति। तथा च नन्दिः—
एकयोन्युद्भवैः शान्तैः शान्तचेष्टैर्व्यवस्थितैः।
यथाभागगतैस्तैश्च शकुनद्वारमिष्यते।। इति।।५३।।
अन्यदप्याह—
विसर्जयति यद्येक एकश्च प्रतिषेधति।
स विरोधोऽशुभो यातुर्ग्राह्यो यो बलवत्तरः ॥५४॥
यदि यात्रा के समय एक शकुन यात्रा करने की आज्ञा दे और दूसरा निषेध करे तो
वह 'विरोध' संज्ञक शकुन अशुभ फल देने वाला होता है अथवा उन दोनों में जो बली
हो, उसका ग्रहण करना चाहिये।।५४।।
एकः शकुनो यदि विसर्जयति यश्चात्र सिद्धिमाचष्टे। एकश्चान्यः प्रतिषेधति विरोधमाचष्टे
स च यातुर्गच्छतो विरोधसंज्ञः, अशुभश्च, अथवा तयोर्द्वयोर्बलवत्तरोऽतिशयेन बली स
ग्राह्यः। बलं च प्रागेवोक्तम्—'जवजातिबलस्थानम्' इति।।५४।।
अन्यदप्याह—
पूर्वं प्रावेशिको भूत्वा पुनः प्रास्थानिको भवेत्।
सुखेन सिद्धिमाचष्टे प्रवेशे तद्विपर्ययात् ॥५५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनाध्यायः ३९९
यदि यात्राकाल में पहले प्रवेशकालिक शकुन होकर बाद में यात्राकालिक शकुन
हो तो सुखपूर्वक कार्य की सिद्धि होती है तथा गृहप्रवेश आदि काल में इसके विपरीत
( पहले यात्राकालिक शकुन होकर बाद में प्रवेशकालिक शकुन ) हो तो सुखपूर्वक
कार्य की सिद्धि होती है।।५५।।
पूर्वं प्रथमं शकुनः प्रावेशिको भूत्वा पुनः पश्चात् प्रास्थानिकः प्रायाणिको यदि भवति,
प्रयाणे यद्धितं तत् करोति। प्रवेशे नष्टमार्गणे यानव्यस्तगतो ग्राह्य इति। एवमादौ प्रावेशिकः।
तदा स शकुनः सुखेनाक्लेशेन यातुः सिद्धिमाचष्टे कथयति। प्रवेशे तद्विपर्ययात्। प्रवेशो
यात्रायां निर्वर्त्य स्वगृहे याता प्रविशति, तस्मिन् प्रवेशे तद्विपर्ययादुक्तविपर्ययाद् ग्राह्यः।
पूर्वं प्रायाणिकः पश्चात् प्रावेशिको यदि भवति, तदा सुखेन सिद्धिमाचष्ट इति।।५५।।
अथान्यदप्याह—
विसर्ज्य शकुनः पूर्वं स एव निरुणद्धि चेत्।
प्राह यातुररेर्मृत्युं डमरं रोगमेव वा ॥५६॥
जो शकुन पहले शुभ चेष्टा करके बाद में यात्रा का निषेध करे तो वह शत्रु द्वारा
गमन करने वाले की मृत्यु, शस्त्रकलह या रोग को सूचित करता है।।५६।।
शकुनः प्रथमं पूर्वं विसर्ज्य यात्रायां शुभचेष्टितं कृत्वा स एव पुनर्यदि निरुणद्धि
यात्रां प्रतिषेधयति, तदा यातुर्गच्छतः, अरेः शत्रोः सकाशान्मृत्युं मरणं प्राह कथयति।
अथवा डमरं शस्त्रकलहं रोगमेव वा कथयति।।५६।।
अथान्यदप्याह—
अपसव्यास्तु शकुना दीप्ता भयनिवेदिनः।
आरम्भे शकुनो दीप्तो वर्षान्तस्तद्भयङ्करः ॥५७॥
दीप्त दिशा में स्थित होकर बाईं तरफ शकुन हो तो भय को सूचित करता है तथा
कार्य के प्रारम्भ में ही दीप्त शकुन दिखाई दे तो एक वर्ष तक उस कार्य में भय को
अभिव्यक्त करता है।।५७।।
अपसव्या अप्रदक्षिणाः शकुनास्ते च दीप्तदिक्स्थाः सूर्याभिमुखं भयवेदिनो भयं
निवेदयन्ति कथयन्ति। आरम्भे कार्यप्रारम्भे शकुनो दीप्तो वर्षान्तर्वर्षमध्ये तद्भयङ्करः।
तस्मिन्नेव कार्ये तद्भयं करोति।।५७।।
अधुना चेष्टादीप्तस्य लक्षणं तत्फलं चाह—
तिथिवारर्क्ष भस्थानचेष्टादीप्ता यथाक्रमम्।
धनसैन्यबलाङ्गेष्टकर्मणां स्युर्भयङ्कराः ॥५८॥
तिथि, वायु, नक्षत्र, सूर्य, स्थान और चेष्टा दीप्त हों तो क्रम से धन, सैन्य, बल,
अंग, इष्ट और कर्म के लिये भयकारी होते हैं।।५८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४०० बृहत्संहिता
तिथिदीप्तः। वायुदीप्तः। अर्कदीप्तः। नक्षत्रदीप्तः। स्थानदीप्तः। चेष्टादीप्तः। एतेषां
लक्षणं प्रागेवोक्तम्। कस्यचिद्विघातं कर्तुमिच्छुः। एवंविधा दीप्ताः। यथाक्रमं धनसैन्य-
बलाङ्गेष्टकर्मणां भयङ्कराः स्युर्भवेयुः। तद्यथा—तिथिदीप्तः शकुनो धनभयं करोति। वायुदीप्तः
सैन्यस्य। अर्कदीप्तो बलस्य। नक्षत्रदीप्तोऽङ्गस्य शरीरावयवस्य। स्थानदीप्त इष्टस्याभिप्रेतस्य
वल्लभस्य वा। चेष्टादीप्तः कर्मणः।।५८।।
अन्यदप्याह—
जीमूतध्वनिदीप्तेषु भयं भवति मारुतात्।
उभयोः सन्ध्ययोर्दीप्ताः शस्त्रोद्भवभयङ्कराः॥५९॥
मेघ की ध्वनि से दीप्त शकुन वायु से भय और दोनों सन्ध्याओं में दीप्त शकुन
शस्त्र से भय उत्पन्न करता है॥५९॥
जीमूतो मेघः। जीमूतध्वनिना मेघशब्देन दीप्तेषु शकुनेषु मारुताद्वायोर्भयं भवति।
उभयोर्द्वयोः सन्ध्ययोः सूर्योदयास्तमययोर्दीप्ताः शकुनाः शस्त्रोद्भवं शस्त्रसमुत्थं भयं कुर्वन्ति।
अथान्यदप्याह—
चितिकेशकपालेषु मृत्युबन्धवधप्रदाः।
कण्टकीकाष्ठभस्मस्थाः कलहायासदुःखदाः॥६०॥
अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताः।
कुर्वन्ति शकुना दीप्ताः शान्ता याप्यफलास्तु ते॥६१॥
यदि शकुन चिता, केश और कपाल पर बैठे हों तो क्रम से मृत्यु, बन्धन और वध
को करने वाले होते हैं तथा काँटेदार वृक्ष, काष्ठ और भस्म पर बैठे हों तो क्रम से कलह,
उपद्रव और दुःख देने वाले होते हैं। यदि शकुन निस्सार वस्तु पर बैठे हों तो कार्य की
असिद्धि और पत्थर पर बैठे हों तो भय करते हैं। ये सब दीप्त शकुनों के फल हैं। शान्त
शकुन बहुत कम अशुभ फल देने वाले होते हैं॥६०-६१॥
चितिकेशकपालेष्विति। चितौ शवदाहाग्निसमीपे मृत्युं मरणं ददाति। केशेषु
मूर्धजेषु स्थितो बन्धं ददाति। कपालेऽस्थिशकले स्थितो वधं मरणं तथा कण्टकीवृक्षे
स्थितः शकुनः कलहं ददाति। काष्ठे स्थितः आयासमुपद्रवं ददाति। भस्मनि स्थितो दुःखम्।
तथा निःसाराश्मव्यवस्थिताः अप्रसिद्धिं भयं वापि कुर्वन्ति। निःसारेऽन्तःसुषिरे स्थितः
कार्याणामप्रसिद्धिं करोति। अश्मनि पाषाणे स्थितो भयं करोति। कुर्वन्ति शकुना दीप्ता
इति। यदेतत् प्रागुक्तं चितिकेशकपालेषु, तद्दीप्ताः शकुनाः कुर्वन्ति, शान्तास्तु ते पुनर्याप्य-
फला भवन्ति। याप्यमीषत् फलं भवति॥६१॥
अन्यदप्याह—
असिद्धिसिद्धी ज्ञेयौ निर्हाराहारकारिणौ।
स्थानाद्भवन् व्रजेद्यात्रां शंसते त्वन्यथागमम्॥६२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनाध्यायः ४०१
मल का त्याग करने वाले और भोजन करने वाले शकुन क्रम से कार्य की असिद्धि
और सिद्धि करने वाले होते हैं। यदि शब्द करते हुये शकुन अपने स्थान से चले जायें
तो गमन और पुनः अपने स्थान पर आकर बैठ जायें तो किसी के आगमन को सूचित
करते हैं।।६२।।
निर्हाराहारकारिणौ शकुनौ यथासङ्ख्यमसिद्धिसिद्धिदौ ज्ञेयौ ज्ञातव्यौ। निर्हारं पुरीषोत्सर्गः।
निर्हारकारी शकुनोऽसिद्धिं कार्याणां करोति। आहारकारी भोजनकृल्लीलासिद्धिकरः। स्थाना-
द्रुवन्निति । यस्मिन् स्थाने स्थितस्तस्माद्रुवन् शब्दं कुर्वन् यदि व्रजेद् गच्छेत्, तदा यात्रां
गमनं शंसते कथयति। अथया विपर्ययं आगमं शंसते कथयति। एतदुक्तं भवति—वाच्य-
मानः स्थानमागत्य उपविशति तदा शकुनः कस्यचिदागमं शंसते।।६२।।
अथान्यदप्याह—
कलहः स्वरदीप्तेषु स्थानदीप्तेषु विग्रहः ।
उच्चमादौ स्वरं कृत्वा नीचं पश्चाच्च दोषकृत् ॥६३॥
स्वरदीप्त शकुन में कलह, स्थानदीप्त में विग्रह और पहले जोर से शब्द करके
बाद में मन्द हो जायें तो दोष करने वाले होते हैं।।६३।।
स्वरो दीप्तो येषां तेषु शकुनेषु कलहो भवति। स्थाने दीप्ता ये स्थितास्तेषु विग्रहो
भवति। आदौ प्रथममुच्चं स्वरं कृत्वा पश्चात्रीचमल्पं करोति, तदा दोषकृद्दोषं करोति।।६३।।
अन्यदप्याह—
एकस्थाने रुवन् दीप्तः सप्ताहाद् ग्रामघातकः ।
पुरदेशनरेन्द्राणामृत्वर्धायनवत्सरात् ॥६४॥
यदि एक स्थान पर स्थित शकुन दीप्त होकर सात दिन तक शब्द करता रहे तो
गाँव के नाश को, दो मास तक शब्द करता रहे तो पुर के घात को, तीन मास तक शब्द
करता रहे तो देश के घात को और एक वर्ष तक शब्द करता रहे तो राजा के घात को
सूचित करता है।।६४।।
दीप्तः शकुन एकस्मिन् स्थाने रुवन् क्रोशन् सकलमेव दिनं तिष्ठति, तदा सप्ताहात्
सप्तभिर्दिनैः पुरतो ग्रामघातको ग्रामविनाशं करोति। न केवलं यावत् पुरदेशनरेन्द्राणामृत्वर्धा-
यनवत्सराद् विनाशं करोति। पुरं नगरं तत्र चैकस्थाने रुवन् ऋतुना मासद्वयेन घातं करोति।
एवमर्धायनेन त्रिभिर्मासैर्देशघातं करोति। नृपस्य राज्ञो वत्सराद् वर्षाद् घातं करोति। एक-
स्थाने रुवन्निति सर्वत्रानुवृत्तिः।।६४।।
अन्यदप्याह—
सर्वे दुर्भिक्षकर्त्तारः स्वजातिपिशिताशिनः ।
सर्पमूषकमार्जरपृथुलोमविवर्जिताः ॥६५॥
बृ० सं० द्वि०-२६
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४०२ बृहत्संहिता
सर्प, चूहा, बिल्ली और मछली के अतिरिक्त कोई भी शकुन यदि अपनी ही जाति
का मांसभक्षण करने लगे तो दुर्भिक्षकारी होता है।।६५।।
सर्वे शकुनाः स्वजातिपिशिताशिनः स्वजातीनां पिशितं मांसमश्नन्ति भक्षयन्ति,
तथाभूता दुर्भिक्षं कुर्वन्ति, किन्तु सर्प उरगः, मूषक आखुः, मार्जारो बिडालः, पृथुलोमा मत्स्यः।
एतान् वर्जयित्वा एषां सर्वेषां पिशिताशित्वं स्वभाव एव अन्येषामुत्पातः। उक्तं च—
विहाय सर्पाखुविडालमत्स्यान् स्वजातिमांसान्युपभुञ्जते वा।
व्रजन्ति वा मैथुनमन्यजात्याम्....................................................।। इति।।६५।।
अन्यदप्याह—
परयोनिषु गच्छन्तो मैथुनं देशनाशनाः ।
अन्यत्र वेसरोत्पत्तेर्नृणां चाजातिमैथुनात् ॥६६॥
खच्चर की उत्पत्ति को (घोड़े के साथ गदहे के मैथुन से खच्चर की उत्पत्ति होती
है, उसको) तथा मनुष्यों के अजाति मैथुन को छोड़कर कोई शकुन अन्य जाति के
साथ मैथुन करे तो देश का नाश होता है।।६६।।
परयोनिष्वन्ययोनिषु मैथुनं व्रजन्तो गच्छन्तो देशनाशं कुर्वन्ति, किन्तु अन्यत्र वेसरो-
त्पत्तेरिति। वेसरोऽश्वतरस्तदुत्पत्तेस्तत्सम्भवादन्यत्र तां वर्जयित्वा तत्राश्वायां गर्दभो याति।
नृणां पुंसां चाजातिमैथुनादन्यत्र। यतो नरा मनुष्या अजातौ वडवादिशु यान्ति। एवमादिकं
वर्जयित्वा यतस्तदुत्पत्तिरूपं न भवति।।६६।।
अन्यदप्याह—
बन्धघातभयानि स्युः पादोरूमस्तकान्तिगैः ।
शष्पापःपिशितान्नादैर्दोषवर्षक्षयग्रहाः ॥६७॥
पाद, ऊरु और शिर के निकट होकर शकुन चला जाय तो क्रम से बन्धन, घात
और भय को सूचित करता है। घास खाता हुआ शकुन दिखाई दे तो दोष उत्पन्न करने
वाला, जल पीता हुआ दिखाई दे तो वर्षा करने वाला, मांस खाता हुआ दिखाई दे तो
अंगक्षत करने वाला और अन्न खाता हुआ शकुन दिखाई दे तो किसी बन्धु का समागम
कराने वाला होता है।।६७।।
पादोरुमस्तकान्तिगैः शकुनैर्यथाक्रमं बन्धघातभयानि स्युर्भवेयुः, यदा शकुनः पादान्तिगः
पादनिकटे याति तदा बन्धं करोति। अथोरुप्रदेशे ऊर्वोर्निकटे याति, तदा घातमभिघातं
करोति। अथ मस्तके याति, तदा भयं करोति। शष्पापःपिशितान्नादैरिति । शष्पा-
पस्तृणाशी शकुनः नृणां नाशेन दोषं करोति। अपोऽदो जलाशी शकुनो वर्षं वृष्टिं
करोति। पिशितादो मांसभक्षी क्षतमङ्गक्षतं करोति। अन्नादोऽन्नभक्षी ग्रहं संयोगं केनचिद्बन्धुना
सह करोति।।६७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनाध्यायः ४०३
अधुना शकुनोपदेशेऽनागन्तूनां लक्षणमाह—
क्रूरोग्रदोषदुष्टैश्च प्रधाननृपवृत्तकैः ।
चिरकालेन दीप्ताद्यास्वागमो दिक्षु तन्नृणाम् ॥६८॥
दीप्त दिशा में स्थित शकुन क्रूर के साथ किसी पुरुष का आगमन, धूमित दिशा में
स्थित शकुन दण्ड के साथ किसी पुरुष का आगमन, शान्त दिशा में स्थित शकुन दोष-
युक्त पुरुष के साथ किसी पुरुष का आगमन, इसके बाद दुष्ट पुरुष के साथ, इसके बाद
प्रधान पुरुष के साथ, इसके बाद राजा के साथ, इसके बाद श्रावक के साथ और इसके
बाद अङ्गारित दिशा में स्थित शकुन बहुत देर के बाद किसी पुरुष के आगमन को
सूचित करता है॥६८॥
दीप्ताद्यास्वष्टसु दिक्षु स्थिते शकुने क्रूराद्युपलक्षितानां नॄणां पुरुषाणामागमो भवति।
तन्नॄणां तन्नृशकुनोपलक्षितानाम्। तेन दीप्तायां दिशि स्थितः शकुनः कस्यचित् पुरुषस्य
क्रूरेण हिंस्रेण संयुक्तस्यागमं करोति। धूमितायां दिशि स्थितः शकुनः कस्यचिदुग्रेण दण्डेन
सह नरस्यागमं करोति। तत्परं शान्तायां दिशि स्थितः कस्यचिद्दोषयुक्तेन नरेण सहितस्यागमं
करोति। तत्परं दुष्टेन संयुक्तस्य। तत्परं प्रधानेन युक्तस्य। तत्परं नृपेण राज्ञा संयुक्तस्य।
तत्परं वृत्तकेन श्रावकेण संयुक्तस्य। तत्परमङ्गारितायां दिशि स्थितः शकुनश्चिरकालेन
प्रभूतसमयेन सहितस्य नरस्यागमं करोति। एवं केचिद् व्याचक्षते। अन्ये चतस्रो दिश
इच्छन्ति। दीप्ता दीपिता शान्ताङ्गारिणी चेति। तत्र दीप्तदिक्स्थे शकुने क्रूरेण सहितस्य
नरस्यागमम्। धूमितदिक्स्थे उग्रेण तीव्रतरेण दोषेण दुष्टो यस्तेन सहितस्यागमम्। शान्त-
दिक्स्थे प्रधानस्य नृपस्य नहुषादेर्वृत्तं चरितं यः कथयति, तेन सहितस्य। अङ्गारितास्थे
चिरकालेन सहितस्येति सहयोगे तृतीया। एषैव व्याख्या ज्यायसी॥६८॥
अथ य आगच्छति तस्य सद्रव्यनिद्र्व्यत्वज्ञानमाह—
सद्रव्यो बलवांश्च स्यात् सद्रव्यस्यागमो भवेत् ।
द्युतिमान् विनतप्रेक्षी सौम्यो दारुणवृत्तकृत् ॥६९॥
जिस दिन किसी भक्ष्य द्रव्य के साथ बली शकुन दिखाई दे, उस दिन द्रव्य का
लाभ होता है। यदि दीप्तियुत और अधोमुख दृष्टि वाला शुभ शकुन भी दिखाई दे तो
भयानक वृत्तान्त को सूचित करता है॥६९॥
शकुनः सद्रव्यो येन केनचिद् भक्ष्यद्रव्येण संयुक्तः स च बलवांश्च बलयुक्तः स्याद्
भवेत्। तदा सद्रव्यस्यागमो भवेत् स्यात्। य आगच्छति तद्दिने स द्रव्ययुक्तः, अन्यथा
शून्यहस्तः। अथ शकुनो द्युतिमान् दीप्तियुक्तः स एव यदि विनतप्रेक्षी अधोदृष्टिर्भवति,
तदा सौम्योऽपि शुभोऽपि दारुणं तीव्रं वृत्तं करोति। वृत्तं कथनं यः सूचयति स वृत्तकृद्
दुष्टं फलं करोति। य आगच्छति सद्रव्यः पुमान् स उपद्रवं करोतीत्यर्थः॥६९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४०४ बृहत्संहिता
अन्यदप्याह—
विदिक्स्थः शकुनो दीप्तो वामस्थेनानुवाशितः ।
स्त्रियाः संग्रहणं प्राह तद्दिगाख्यातयोनितः ॥७०॥
यदि विदिशा में स्थित दीप्त शकुन वाम भाग में स्थित अन्य शकुन के द्वारा शब्द
करे तो उस दिशा में उक्त पुरुष के द्वारा किसी स्त्री का संयोग सूचित करता है॥७०॥
शकुनो विदिक्स्थो विदिशि स्थितो दीप्तः सूर्याभिमुखः स च वामस्थेन वामभाग-
समवस्थितेनान्येन शकुनेनानुवाशितो यदि भवति, तदा तद्दिगाख्यातयोनितः तस्यां दिशि
आख्याता उक्ता योनिरुत्पत्तिर्यस्य नरस्य तस्य सकाशात् स्त्रिया योषितः संग्रहणं संयोगं
प्राह कथयति। पुरुषस्तां स्त्रियं ददातीत्यर्थः। अथवा तस्यां विदिशि यस्याः स्त्रिया आख्याता
योनिरतस्याः संयोगमाहेति ॥७०॥
अन्यदप्याह—
शान्तः पञ्चमदीप्तेन विरुतो विजयावहः ।
दिग्नरागमकारी वा दोषकृत् तद्विपर्यये ॥७१॥
शान्त शकुन अपने से पाँचवीं दीप्त दिशा में स्थित दीप्त शकुन द्वारा शब्दायमान
हो तो उस दिशा में स्थित पुरुष का आगमन कहता है। उससे विपरीत ( दीप्त शकुन
अपने से पाँचवीं शान्त दिशा में स्थित शान्त शकुन द्वारा शब्दायमान ) हो तो दोष करने
वाला होता है॥७१॥
शान्तः शकुनः पञ्चमदीप्तेनान्येन विरुतः। तस्माच्छकुनाद्यः पञ्चम्यां दिशि दीप्तायां
स्थिता दीप्तः स एवार्काभिमुखस्तेन। विरुतः कृतशब्दो विजयावहो भवति विजयमावहति।
दिग्नरागमकारी वा। तस्यां दिशि यो नरः पुरुषस्तस्य वाऽऽगमं करोति। तत आगच्छतीत्यर्थः।
दोषकृत् तद्विपर्यये। यस्तस्मात् पूर्वोक्ताद् विपर्यये विपरीते स दोषकृत्। दीप्तः पञ्चमशान्तेन
विरुतस्तदा दोषकृद्भवति, दोषमशुभं करोतीत्यर्थः॥७१॥
अन्यदप्याह—
वामसव्यगतो मध्यः प्राह स्वपरयोर्भयम् ।
मरणं कथयन्त्येते सर्वे समविराविणः ॥७२॥
मध्य स्थित शकुन वाम पार्श्वगत शकुन के द्वारा शब्दायमान हो तो आत्मीय जनों
से और दक्षिण पार्श्वगत शकुन के द्वारा शब्दायमान हो तो शत्रुओं से भय को सूचित
करता है तथा ये सभी एक ही समय में यदि बराबर शब्द करें तो होने वाले मरण को
सूचित करते हैं॥७२॥
मध्यो मध्यमभागस्थः शकुनो वामसव्यगतो यथाक्रमं स्वपरयोर्भयं प्राह कथयति।
मध्यस्थः शकुनो वामभागस्थेन शकुनेन विरुतः स्वभयं स्वीयेभ्य आत्मीयेभ्यो भयं प्राह।
स एव मध्यमः सव्येन दक्षिणभागस्थेन विरुतः पराच्छत्रोर्भयं प्राह। अर्थादेवं द्वाभ्यां
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

शाकुनाध्यायः ४०५
विरुतो मध्यस्थः स्वपरयोरेव भयं प्राह। सर्व एते त्रयः समविराविणो युगपदुद्भवन्तो मरणं
कथयन्ति प्रवदन्ति।।७२।।
अन्यदप्याह—
वृक्षाग्रमध्यमूलेषु गजाश्वरथिकागमः।
दीर्घाब्जमुषिताग्रेषु नरनौशिबिकागमः ॥७३॥
यदि वृक्ष के अग्रभाग पर शकुन बैठा हो तो गजारूढ़ मनुष्य का, वृक्ष के मध्य में
शकुन बैठा हो तो अश्वारूढ़ मनुष्य का और वृक्ष के मूल में शकुन बैठा हो तो रथारूढ़
मनुष्य का आगमन सूचित करता है। यदि लम्बी वस्तु पर शकुन बैठा हो तो नरारूढ़
मनुष्य का, कमलपुष्प पर बैठा हो तो नाव का और छिन्नाग्र भाग वाले वस्तु पर बैठा हो
तो पालकी का आगमन सूचित करता है।।७३।।
वृक्षाग्रे स्थितः शकुनो गजारूढस्य नरस्यागमं करोति। वृक्षमध्ये स्थितोऽश्वारूढस्य।
वृक्षमूले रथिकस्य रथारूढस्य। दीर्घे आयामिनि वस्तुनि स्थितः शकुनो नरारूढस्य नर-
स्यागमं करोति। अब्जे पद्मादौ स्थितो नाव आगमनं करोति। मुषिताग्रे छिन्नाग्रे स्थितः
शिबिकागमनं युग्यस्यागमनं करोति। युग्यस्थस्येत्यर्थः।।७३।।
अथान्यदप्याह—
शकटेनोन्नतस्थे वा छायास्थे छत्रसंयुते।
एकत्रिपञ्चसप्ताहात् पूर्वाद्यास्वन्तरासु च ॥७४॥
किसी उच्च प्रदेश ( पर्वत आदि ) पर शकुन बैठा हो तो शकटारूढ़ मनुष्य का
और छाया में शकुन बैठा हो तो छत्रसंयुक्त पुरुष का आगमन सूचित करता है। पूर्व आदि
दिशा और आग्नेय आदि विदिशा में पूर्वोक्त शकुन बैठे हों तो क्रम से एक, तीन, पाँच
और सात दिन में शुभाशुभ फल प्रदान करते हैं। जैसे पूर्व दिशा में शकुन बैठे हों तो
एक दिन में तथा उत्तर दिशा में बैठे हों तो सात दिन में शुभाशुभ फल देते हैं। आग्नेय
कोण में शकुन बैठे हों तो एक दिन में, नैर्ऋत्य कोण में बैठे हों तो तीन दिन में, वायव्य
कोण में बैठे हों तो पाँच दिन में और ईशान कोण में शकुन बैठे हों तो सात दिन में
शुभाशुभ फल प्रदान करते हैं।।७४।।
शकटेनोन्नतस्थे। उच्चभागसमवस्थिते पर्वतादौ व्यवस्थिते। शकटेन गन्त्या कश्चिदा-
गच्छति। छायास्थे शकुने छत्रसंयुत आतपत्रेण संयुक्त आगच्छति। तद्यथा—शकुने शुभमशुभं
चोक्तं गन्त्याद्यागमनं वा; तत् कस्मिन् काले भवतीत्याह—एकत्रिपञ्चसप्ताहादिति ।
प्राच्यादिषु दिक्ष्वन्तरासु च विदिक्ष्वेकत्रिपञ्चसप्ताहाद् भवति। पूर्वस्यां दिशि स्थितेन
शकुनेन यत् सूचितं शुभाशुभफलं कस्यचिद् वाऽऽगमनं केनचिद् वा संयोगस्तदेकाहादेकेनैव
दिवसेन भवति। एवं दक्षिणस्यां त्र्यहात्। पश्चिमायां पञ्चाहात्। उत्तरस्यां सप्ताहात्। अन्तरासु
च विदिक्षु, चशब्दादेवमेव। तेनाग्नेय्यामेकाहात्। नैर्ऋत्यां त्र्यहात्। वायव्यां पञ्चाहात्।
ऐशान्यां सप्ताहादिति।।७४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४०६ बृहत्संहिता
अधुनाऽत्रैव विशेषज्ञानार्थमाह—
सुरपतिहुतवहयमनिरृतिवरुणपवनेन्दुशङ्कराः क्रमशः।
प्राच्याद्यानां पतयो दिशः पुमांसोऽङ्गना विदिशः ॥७५॥
इन्द्र, अग्नि, यम, राक्षस, वरुण, वायु, चन्द्रमा, शिव—ये क्रम से पूर्व आदि आठ
दिशाओं के स्वामी होते हैं। उनमें पूर्व आदि दिशा पुरुषसंज्ञक और आग्नेय आदि
विदिशा स्त्रीसंज्ञक हैं।।७५।।
सुरपतिप्रभृतयो देवाः प्राच्याद्यानां दिशां पतयः स्वामिनः। सुरपतिरिन्द्रः, स पूर्वस्यां
दिश्यधिपतिः। हुतवहोऽग्निराग्नेय्यामधिपतिः। यमः पितृपतिर्दक्षिणस्याम्। निर्ऋती राक्षसा-
नामधिपतिर्नैर्ऋत्याम्। वरुणोऽपाम्पतिः पश्चिमायाम्। पवनो वायुर्वायव्याम्। इन्दुश्चन्द्रमा
उत्तरस्याम्। शङ्करो रुद्र ऐशान्याम्। प्रयोजनम्—आगतस्य नरस्य येन वा तद्दिने संयोगस्त-
स्येन्द्रादिपर्यायो नाम तस्य देवस्य भक्तिर्वा हतनष्टादौ चौरद्रव्यस्थानां वा शुभाशुभे शकुने
लाभालाभे स्थानं वा प्रश्ने चिन्तायां तत्र मनसा स्थितिर्वा आतुरे तत्सुरपूजनाच्छान्तिर्वेत्यादि।
दिशः पुमांसोऽङ्गना विदिश इति। दिशः पूर्वाद्याश्चतस्रः पुमांसो मनुष्याः। विदिशश्चत-
स्रोऽङ्गनाः स्त्रियः। तथा च पराशरः—
वर्णानां ब्राह्मणादीनामुत्तरादिदिशः स्मृताः।
ऐशान्याद्याश्च विदिशस्ताः स्त्रीणां परिकीर्तिताः ।।
प्रयोजनम्—दिक्षु स्थिते शकुने प्रष्टरि वा पुरुषकृता चिन्ता तज्जन्म वा। एवं विदिक्षु
स्त्रीजन्मनश्चिन्ता वा हतनष्टादौ चौरज्ञानं च। एषामागमः संयोगो भवति।।७५।।
अथ लेखज्ञानमाह—
तरुतालीविदलाम्बरसलिलजशरचर्मपट्टलेखाः स्युः।
द्वात्रिंशत्प्रविभक्ते दिक्चक्रे तेषु कार्याणि ॥७६॥
अग्रिम अध्याय के 'नैर्ऋत्यां स्त्रीलाभस्तुरगालङ्कारपूतलेखाप्तिः' इत्यादि आठवें
श्लोक में लेख की प्राप्ति कही गई है। वहाँ उस लेख की प्राप्ति किस तरह के पत्र पर
होती है, उसको यहाँ पर स्पष्ट कर रहे हैं। पूर्व दिशा में शकुन हो तो वृक्ष के त्वचा या
पत्ते पर, आग्नेय कोण में शकुन हो तो ताल वृक्ष के पत्ते पर, दक्षिण कोण में शकुन हो
तो खण्डित पत्ते पर, नैर्ऋत्य कोण में शकुन हो तो वस्त्र पर, पश्चिम में शकुन हो तो
कमल के पत्ते पर, वायव्य कोण में शकुन हो तो काण्ड पर, उत्तर कोण में शकुन हो तो
चमड़े पर और ईशान कोण में शकुन हो तो पट्ट पर लेख की प्राप्ति होती है। बत्तीस
भाग किये हुये दिक् चक्र में जो शकुन कहे गये हैं और जो आगे कहे जायेंगे, वे सभी
अपने-अपने लोक में होते हैं।।७६।।
पूर्वमैवेन्द्रानलदिशोर्मध्ये

च तानि तेषु लोकेषु भवन्ति। वक्ष्यति च—'नैर्ऋत्यां स्त्रीलाभस्तुरगालङ्कारदूतलेखाप्तिः'
इति। तत्र लेखपरिज्ञानं तरुतालीत्यादि। पूर्वस्यां दिशि स्थिते शकुने लेखस्तरौ वृक्षे लिखितः।
वृक्षावयवे त्वचि पर्णे वेत्यर्थः। एवमेवाग्नेय्यां तालवृक्षदले। दक्षिणस्यां विदले विगतार्थे
यत्र तत्र। नैर्ऋत्यामम्बरे वस्त्रे। पश्चिमायां सलिलजे पद्मपत्रादौ। वायव्यां शरे काण्डे। उत्तरस्यां
चर्मणि। ऐशान्यां पट्टे। पट्टः प्रसिद्धो नेत्रादिकः।।७६।।
अथान्यान्यपि संयोगस्थानान्याह—
व्यायामशिखिनिकूजितकलहाम्भोनिगडमन्त्रगोशब्दाः ।
वर्णास्तु रक्तपीतककृष्णासिताः कोणगा मिश्राः ।।७७।।
पूर्व आदि दिशाओं में दृष्ट शकुन का शुभाशुभ फल किस देश में प्राप्त होगा,
उसको अब स्पष्ट करते हैं। पूर्व दिशा में दृष्ट शकुन का फल युद्धादि में, आग्नेय दिशा
में दृष्ट शकुन का फल अग्नि के समीप में, दक्षिण दिशा में दृष्ट शकुन का फल किसी
प्रकार के शब्दयुत देश में, नैर्ऋत्य कोण में दृष्ट शकुन का फल लड़ाई के स्थान में,
पश्चिम दिशा में दृष्ट शकुन का फल जलस्थान में, वायव्य कोण में दृष्ट शकुन का फल
बन्धनादि प्रदेश में, उत्तर दिशा में दृष्ट शकुन का फल वेदध्वनिस्थान में और ईशान
कोण में दृष्ट शकुन का फल गायों के शब्दों से समन्वित स्थान में प्राप्त होता है। पूर्व में
लाल, दक्षिण में पीला, पश्चिम में काला और उत्तर में सफेद वर्ण समझना चाहिये तथा
विदिशा में मिश्रित वर्ण होते हैं। जैसे—आग्नेय कोण में रक्त-पीत, नैर्ऋत्य कोण में
पीत-कृष्ण, वायव्य में कृष्ण-सित और ईशान कोण में सित-रक्त वर्ण समझना
चाहिये।।७७।।
पूर्वस्यां दिशि स्थिते शकुनं यच्छुभं फलं सूचितम्, तत्प्राप्तिः कस्मिन् स्थाने भवति?
तत्र व्यायामे युद्धादौ। एवमाग्नेय्यां शिखिस्थानेऽग्निसमीपे। दक्षिणस्यां निकूजितं शब्दः
कस्यापि श्रूयते यत्र। नैर्ऋत्यां यत्र कलहः। पश्चिमायां यत्राम्भो जलम्। वायव्यां यत्र
निगडो बन्धनादिकः। उत्तरस्यां यत्र मन्त्रो वेदः पठ्यते। ऐशान्यां यत्र गावस्तेषां शब्दो रवो
यत्र। एतेषूपलक्षितेषु स्थानेषु शुभशकुने कार्यागमः संयोगो वा केनचित् सह। वर्णांस्त्विति ।
यत्किञ्चिदुक्तो वर्णो रक्तो लोहितं तत् पूर्वस्याम्। पीतवर्णो याम्यायाम्। कृष्णमसितं
पश्चिमायाम्। सितं श्वेतमुत्तरस्याम्। कोणगा मिश्राः। मिश्रवर्णाः कोणेषु विदिक्षु। तद्यथा—
आग्नेय्यां रक्तपीतः। नैर्ऋत्यां पीतकृष्णः। वायव्यां कृष्णसितः। ऐशान्यां सितरक्तः। प्रयो-
जनम्—सद्रव्ये शकुने सद्रव्यस्यागम उक्तः। तत्र द्रव्यज्ञानमेतत्। हतनष्टादौ द्रव्यवर्णज्ञानम्।
वस्त्रचिन्तायां वस्त्रवर्णज्ञानम्। एतद्वर्णदेवताविषये भक्तिर्वा।।७७।।
अथान्यच्छुभे शकुने स्थाननिर्देशार्थमाह—
चिह्नं ध्वजो दग्धमथ श्मशानं दरी जलं पर्वतयज्ञघोषाः ।
एतेषु संयोगभयानि विन्द्यादन्यानि वा स्थानविकल्पितानि ।।७८।।

४०८ बृहत्संहिता
पूर्व दिशा में शकुन हो तो ध्वजचिह्न विशिष्ट स्थान में, आग्नेय कोण में हो तो
अग्निदग्ध स्थान में, दक्षिण में हो तो श्मशान में, नैर्ऋत्य में हो तो गुहा में, पश्चिम में हो
तो जलप्राय स्थान में, वायव्य कोण में हो तो पर्वत पर और उत्तर में शकुन हो तो गह्वर
में संयोग ( शुभ शकुन में संयोग ) तथा भय ( अशुभ शकुन में भय ) जानना चाहिये।
अथवा शुभ शकुन-संसूचित कार्य शुभ स्थान में और अशुभ शकुन-संसूचित कार्य
अशुभ स्थान में होते हैं।।७८।।
पूर्वस्यां दिशि ध्वजश्चिह्नमुपलक्षणम्। आग्नेय्यां दग्धमग्निना दग्धं यत् किञ्चित्।
अथानन्तरं याम्यायां श्मशानं पितृवनम्। नैर्ऋत्यां दरी गुहा। पश्चिमायां जलमुदकम्।
वायव्यां पर्वतो गिरिः। उत्तरस्यां यज्ञो यागः। ऐशान्यां घोषो गह्वरम्। एतेषु स्थानेषु
संयोगभयानि विन्द्याज्जानीयात्। शुभे शकुने केनचित् सह संयोगः। वक्ष्यति च—
ऐन्द्र्यां दिशि शान्तायां विरुवन्नृपसंश्रितागमं वक्ति।
शकुनेष्वेतेषु भयं वक्ष्यति च—
शान्तासु दिक्षु फलमिदमुक्तं दीप्तास्वतोऽभिधास्यामि।
ऐन्द्र्यां भयं नरेन्द्रात् समागमश्चापि शत्रूणाम्।। इति।
अन्यानि वा स्थानविकल्पितानीति। अन्यान्यपराणि वा कार्याणि स्थानवशेन
परिकल्पनीयानि। एतदुक्तं भवति—शुभानि यानि कार्याणि शुभशकुनसंसूचितानि शुभेष्वेव
स्थानेषु भवन्ति। यान्यशुभानि तान्यशुभेष्विति।।७८।।
अन्यदप्याह—
स्त्रीणां विकल्पा बृहती कुमारी
व्यङ्गा विगन्धा त्वथ नीलवस्त्रा।
कुस्त्री प्रदीर्घा विधवा च ताश्च
संयोगचिन्तापरिवेदिकाः स्युः ॥७९॥
पूर्व में बड़ी, आग्नेय कोण में कुमारी, दक्षिण में अङ्गहीन, नैर्ऋत्य कोण में
दुर्गन्धा, पश्चिम में नील वस्त्र वाली, वायव्य कोण में निन्दनीय, उत्तर में लम्बी और
ईशान कोण में रण्डा स्त्री का निवास होता है। विदिशा स्त्रीसंज्ञक.है; अतः कोई आचार्य
ईशान कोण में नील वस्त्र वाली निन्दनीय और वायव्य कोण में लम्बी विधवा स्त्री रहती
है—ऐसा अर्थ करते हैं।
प्रयोजन—पूर्व आदि दिशाओं में शुभ समागम होने पर उन स्त्रियों के साथ चिन्ता
उत्पन्न कराती है, किसी वस्तु की चोरी होने पर चोर भी यही होती है।।७९।।
पूर्वस्यां स्त्रीणां विकल्पा बृहती बृहतकाया स्त्री। आग्नेय्यां कुमारी कन्यका। दक्षिणस्यां
व्यङ्गाऽङ्गहीना। नैर्ऋत्यां विगन्धा दुर्गन्धा। अथशब्द आनन्तर्ये। पश्चिमायां नीलवस्त्रा नीलाम्बरा।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनाध्यायः ४०९
वायव्यां कुस्त्री कुत्सिता योषित्। उत्तरस्यां प्रदीर्घात्युच्चा। ऐशान्यां विधवा विगतभर्तृका
रण्डा स्त्री। एवं केचिद्व्याचक्षते। अन्ये चतस्रो दिश इच्छन्ति। यत उक्तम्—अङ्गना विदिश
इति। ताश्च ऐशान्यां बृहती कुमारी। आग्नेय्यां व्यङ्गा विगन्धा। नैर्ऋत्यां नीलवस्त्रा कुस्त्री।
वायव्यां प्रदीर्घा विधवा। प्रयोजनम्—ताश्च संयोगचिन्तापरिवेदिकाः स्युरिति। ताभिः
सह प्रागाद्यासु दिक्षु शुभे संयोगे समागमे चिन्तां परिवेदयन्त्युत्पादयन्ति। हतनष्टादौ चौर्य
एता एव।।७९।।
अन्यदप्याह—
पृच्छासु रूप्यकनकातुरभामिनीनां
मेषाव्ययानमखगोकुलसंश्रयासु ।
न्यग्रोधरक्ततरुरोध्रककीचकाख्या-
श्चूतद्रुमाः खदिरबिल्वनगार्जुनश्च ॥८०॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां सर्वशाकुने मिश्रकं
नाम षडशीतितमोऽध्यायः ॥८६॥
प्रश्नकाल में शकुन या प्रश्नकर्ता पूर्व दिशा में हो तो रजत्, आग्नेय कोण में
सुवर्ण, दक्षिण में पीड़ित, नैर्ऋत्य में स्त्री, पश्चिम में बकरा, वायव्य में सवारी, उत्तर में
यज्ञ और ईशान कोण में शकुन या प्रश्नकर्ता हो तो गोकुलसम्बन्धी प्रश्न कहना
चाहिये। पूर्व में बड, आग्नेय कोण में लाल वृक्ष, दक्षिण में लोध्र, नैर्ऋत्य कोण में
छिद्रसहित बाँस, पश्चिम में आम, वायव्य कोण में खैर, उत्तर में बेल और ईशान कोण
में अर्जुन वृक्ष होता है।
प्रयोजन—पूर्व आदि में स्थित शुभ शकुन हो तो पूर्वोक्त स्थानों में रजत आदि
का लाभ और अशुभ हो तो हानि होती है।।८०।।
इति 'विमला' हिन्दीटीकायां शाकुनाध्यायः षडशीतितमः ॥८६॥
पृच्छासमये पूर्वस्यां दिशि स्थिते शकुने प्रष्टरि वा रूप्यसंश्रया रजतसमाश्रिता पृच्छा
वक्तव्या। एवमाग्नेय्यां कनकस्य सुवर्णस्य। याम्यायामातुरस्य व्याध्यर्दितस्य। नैर्ऋत्यां
भामिन्याः स्त्रियाः। पश्चिमायां मेषाव्यस्याजस्य। वायव्यां यानस्याश्वादिकस्य गमनस्य वा।
उत्तरस्यां मखस्य यज्ञस्य च। ऐशान्यां गोकुलसंश्रया वाटसमाश्रिता पृच्छा वक्तव्येति।
तथा न्यग्रोधो वृक्षः पूर्वस्याम्। रक्ततरुर्लोहितवर्णो वृक्ष आग्नेय्याम्। रोध्रवृक्षो दक्षिणस्याम्।
कीचकाख्यो वेणुर्नैर्ऋत्याम्। चूतद्रुम आम्रवृक्षः पश्चिमायाम्। खदिरो वायव्याम्। बिल्व-
तरुरुत्तरस्याम्। नग एवार्जुनवृक्ष ऐशान्याम्। अथवा नगः पर्वतोऽर्जुनवृक्षश्च। अथवा सर्व
एव न्यग्रोधादयो नगशब्दवाच्याः। नगो वृक्ष उच्यते स्थिरत्वात्। प्रयोजनम्—प्रागाद्यासु
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

४१० बृहत्संहिता
दिक्षु स्थिते शुभे शकुन एतेषु स्थानेषु रूप्यादीनां लब्धिरशुभे हानिः। संयोगो वियोगो
वा केनचित् सह चौरादिस्थानपरिग्रहमिति।।८०।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ सर्वशाकुने
मिश्रकं नाम षडशीतितमोऽध्यायः ॥८६॥

अथ शाकुनेऽन्तरचक्राध्यायः
अथ शाकुनेऽन्तरचक्रं व्याख्यायते। तत्रादौ प्राग्द्वात्रिंशद्भागप्रविभक्ते दिक्चक्रे शान्तासु
दिक्षु स्थिते शकुने फलान्याह—
ऐन्द्र्यां दिशि शान्तायां विरुवन्नृपसंश्रितागमं वक्ति।
शकुनः पूजालाभं मणिरत्नद्रव्यसम्प्राप्तिम् ॥१॥
यदि पूर्व दिशा में स्थित शकुन कोलाहल करे तो राजा के आश्रित पुरुष का आगमन
तथा पूजा-लाभार्थ मणि और रत्नों की प्राप्ति को सूचित करता है। यदि वह शकुन शुभ
हो तो उत्तम फल, मध्यम हो तो मध्यम फल और अशुभ हो तो किञ्चित् शुभ फल
प्रदान करता है॥१॥
ऐन्द्र्यां पूर्वस्यां दिश्याशायां शान्तायां विरुवन् क्रोशन् नृपसंश्रितस्य राजसमाश्रितस्यागमं
वक्ति कथयति। तथा तत एव पूजालाभार्थानां मणिरत्नानां प्रधानरत्नानां द्रव्याणामन्येषां
सुवर्णादीनां सम्प्राप्तिं लाभं च कथयति। याद च स शकुनः शुभः, अथ मध्यमस्तदा मध्यमं
फलं करोति। अथाशुभस्तदा किञ्चिच्छुभम्। एवं सर्वं परिज्ञेयम्॥१॥
अथान्यदाह—
तदनन्तरदिशि कनकागमो भवेद्वाञ्छितार्थसिद्धिश्च।
आयुधधनपूगफलागमस्तृतीये भवेद् भागे ॥२॥
पूर्व दिशा के बाद प्रदक्षिणक्रम से द्वितीय भाग में स्थित शकुन कोलाहल करे तो
सोने की प्राप्ति और अभीष्ट अर्थ की सिद्धि होती है। यदि तृतीय भाग में स्थित शकुन
कोलाहल करे तो शस्त्र, धन और सुपारी की प्राप्ति होती है॥२॥
तस्या एव पूर्वस्या अनन्तरदिशि प्रादक्षिण्येन द्वितीयदिशि स्थिते शकुने कनकागमः
सुवर्णलाभो भवति, वाञ्छितस्याभिलषितस्य च कार्यस्य सिद्धिर्भवति। तृतीये भागे आयुधस्य
च खड्गादेर्धनस्य वित्तस्य पूगफलानां वाऽऽगमो लाभो भवति॥२॥
अन्यदप्याह—
स्निग्धद्विजस्य सन्दर्शनं चतुर्थे तथाहिताग्नेश्च।
कोणेऽनुजीविभिक्षुप्रदर्शनं कनकलोहाप्तिः ॥३॥
चतुर्थ भाग में स्थित शकुन कोलाहल करे तो पवित्र ब्राह्मण और अग्निहोत्री का
दर्शन होता है। आग्नेय कोण में स्थित शकुन कोलाहल करे तो सुवर्ण और लोह ( शस्त्र )
की प्राप्ति तथा भिक्षुक का दर्शन होता है॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४१२ बृहत्संहिता
चतुर्थे भागे स्निग्धस्येष्टस्य द्विजस्य ब्राह्मणस्य तथाऽऽहिताग्नेर्याजकस्य सन्दर्शनं
कनकस्य सुवर्णस्य लोहस्य शस्त्रस्य च प्राप्तिर्लाभो भवतीत्यर्थः। आग्नेये कोणे अनु-
जीविनो भिक्षोः प्रदर्शनम्।।३।।
अथान्यदप्याह—
याम्येनाद्ये नृपपुत्रदर्शनं सिद्धिर्भिमतस्याप्तिः।
परतः स्त्रीधर्माप्तिः सर्षपयवलब्धिरप्युक्ता ।।४।।
दक्षिण दिशा के प्रथम भाग में स्थित शकुन कोलाहल करे तो राजकुमार का
दर्शन, कार्यों की सिद्धि और अभीष्ट अर्थ की प्राप्ति होती है। द्वितीय भाग में स्थित
शकुन कोलाहल करे तो स्त्री और धर्म एवं सरसों और जौ की भी प्राप्ति होती है।।४।।
याम्येन दक्षिणदिग्भागेन तदाद्येनोपलक्षित आद्यः, स च कोणाद् बहिः। आद्ये प्रथम-
भागे नृपपुत्रस्य राजपुत्रस्य दर्शनं सिद्धिश्च भवति कार्याणाम्। अभिमतस्याभीष्टस्यार्थस्य
चाप्तिर्लाभो भवति। परतोऽनन्तरं द्वितीये भागे स्त्रीप्राप्तिर्धर्मप्राप्तिश्च भवति। सर्षपाणां
यवानामपि लब्धिरुक्ता कथिता।।४।।
अन्यदप्याह—
कोणाच्चतुर्थखण्डे लब्धिर्द्रव्यस्य पूर्वनष्टस्य।
यद्वा तद्वा फलमपि यात्रायां प्राप्नुयाद्याता ।।५।।
आग्नेय कोण से चतुर्थ भाग में स्थित शकुन कोलाहल करे तो पूर्व में नष्ट द्रव्य का
लाभ होता है। गमन करने वाला गमनकाल में जो कुछ फल होता है, उसको जिस-
किसी भी प्रकार से प्राप्त करता है।।५।।
कोणादारभ्य यश्चतुर्थखण्डस्तस्मिन् पूर्वनष्टस्य प्रागपहृतस्य द्रव्यस्यार्थस्य लब्धिर्लाभो
भवति। याता यात्रायां यद्वा यत्तत् फलं तद्वा येन तेन प्रकारेणाप्नुयात् प्राप्नोतीत्यर्थः।।५।।
अन्यदप्याह—
यात्रासिद्धिः समदक्षिणेन शिखिमहिषकुक्कुटाप्तिश्च।
याम्याद् द्वितीयभागे चारणसङ्गः शुभं प्रीतिः ।।६।।
दक्षिण भाग में स्थित शकुन कोलाहल करे तो यात्रा की सिद्धि तथा मयूर, भैंस
और मुर्गे की प्राप्ति होती है। दक्षिण भाग से द्वितीय भाग में स्थित शकुन कोलाहल करे
तो चारण (नट-नर्त्तक) के साथ संयोग तथा शुभ कार्य और धर्मादि की प्राप्ति को
सूचित करता है।।६।।
समश्चासौ दक्षिणो भागः समदक्षिणः। तस्मिन् समदक्षिणे च यात्रासिद्धिर्भवति। शिखी
मयूरः। शिखिमहिषकुक्कुटानां चाप्तिर्लाभो भवति। याम्यात् समदक्षिणाद् द्वितीये भागे
चारणा नटनर्तकप्रभृतयः। तैः सह सङ्गः संयोगो भवति, शुभं धर्मादिप्रीतिश्च भवति।।६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA