बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 431, कुल 760 में से
संदर्भ में पढ़ेंशाकुनाध्यायः ४०३
अधुना शकुनोपदेशेऽनागन्तूनां लक्षणमाह—
क्रूरोग्रदोषदुष्टैश्च प्रधाननृपवृत्तकैः ।
चिरकालेन दीप्ताद्यास्वागमो दिक्षु तन्नृणाम् ॥६८॥
दीप्त दिशा में स्थित शकुन क्रूर के साथ किसी पुरुष का आगमन, धूमित दिशा में
स्थित शकुन दण्ड के साथ किसी पुरुष का आगमन, शान्त दिशा में स्थित शकुन दोष-
युक्त पुरुष के साथ किसी पुरुष का आगमन, इसके बाद दुष्ट पुरुष के साथ, इसके बाद
प्रधान पुरुष के साथ, इसके बाद राजा के साथ, इसके बाद श्रावक के साथ और इसके
बाद अङ्गारित दिशा में स्थित शकुन बहुत देर के बाद किसी पुरुष के आगमन को
सूचित करता है॥६८॥
दीप्ताद्यास्वष्टसु दिक्षु स्थिते शकुने क्रूराद्युपलक्षितानां नॄणां पुरुषाणामागमो भवति।
तन्नॄणां तन्नृशकुनोपलक्षितानाम्। तेन दीप्तायां दिशि स्थितः शकुनः कस्यचित् पुरुषस्य
क्रूरेण हिंस्रेण संयुक्तस्यागमं करोति। धूमितायां दिशि स्थितः शकुनः कस्यचिदुग्रेण दण्डेन
सह नरस्यागमं करोति। तत्परं शान्तायां दिशि स्थितः कस्यचिद्दोषयुक्तेन नरेण सहितस्यागमं
करोति। तत्परं दुष्टेन संयुक्तस्य। तत्परं प्रधानेन युक्तस्य। तत्परं नृपेण राज्ञा संयुक्तस्य।
तत्परं वृत्तकेन श्रावकेण संयुक्तस्य। तत्परमङ्गारितायां दिशि स्थितः शकुनश्चिरकालेन
प्रभूतसमयेन सहितस्य नरस्यागमं करोति। एवं केचिद् व्याचक्षते। अन्ये चतस्रो दिश
इच्छन्ति। दीप्ता दीपिता शान्ताङ्गारिणी चेति। तत्र दीप्तदिक्स्थे शकुने क्रूरेण सहितस्य
नरस्यागमम्। धूमितदिक्स्थे उग्रेण तीव्रतरेण दोषेण दुष्टो यस्तेन सहितस्यागमम्। शान्त-
दिक्स्थे प्रधानस्य नृपस्य नहुषादेर्वृत्तं चरितं यः कथयति, तेन सहितस्य। अङ्गारितास्थे
चिरकालेन सहितस्येति सहयोगे तृतीया। एषैव व्याख्या ज्यायसी॥६८॥
अथ य आगच्छति तस्य सद्रव्यनिद्र्व्यत्वज्ञानमाह—
सद्रव्यो बलवांश्च स्यात् सद्रव्यस्यागमो भवेत् ।
द्युतिमान् विनतप्रेक्षी सौम्यो दारुणवृत्तकृत् ॥६९॥
जिस दिन किसी भक्ष्य द्रव्य के साथ बली शकुन दिखाई दे, उस दिन द्रव्य का
लाभ होता है। यदि दीप्तियुत और अधोमुख दृष्टि वाला शुभ शकुन भी दिखाई दे तो
भयानक वृत्तान्त को सूचित करता है॥६९॥
शकुनः सद्रव्यो येन केनचिद् भक्ष्यद्रव्येण संयुक्तः स च बलवांश्च बलयुक्तः स्याद्
भवेत्। तदा सद्रव्यस्यागमो भवेत् स्यात्। य आगच्छति तद्दिने स द्रव्ययुक्तः, अन्यथा
शून्यहस्तः। अथ शकुनो द्युतिमान् दीप्तियुक्तः स एव यदि विनतप्रेक्षी अधोदृष्टिर्भवति,
तदा सौम्योऽपि शुभोऽपि दारुणं तीव्रं वृत्तं करोति। वृत्तं कथनं यः सूचयति स वृत्तकृद्
दुष्टं फलं करोति। य आगच्छति सद्रव्यः पुमान् स उपद्रवं करोतीत्यर्थः॥६९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA