बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 421, कुल 760 में से
संदर्भ में पढ़ेंशाकुनाध्यायः ३९३
अथान्येषामपि वामदक्षिणभागानां शुभाशुभफलमतिदिशन्नाह—
क्ष्वेडास्फोटितपुण्याहगीतशङ्खाम्बुनिःस्वनाः ।
सतूर्याध्ययनाः पुंवत् स्त्रीवदन्या गिरः शुभाः ॥३९॥
क्ष्वेड ( मुख का शब्द ), आस्फोट ( हाथों का शब्द ), पुण्याह शब्द, शंख का
शब्द, जल का शब्द, तुरही का शब्द और वेदध्वनि—ये सभी पुरुष की तरह ( वाम-
भागस्थित ) शुभ होते हैं तथा अन्य मांगलिक शब्द स्त्रीवत् ( दक्षिण भागस्थित ) शुभ
होते हैं॥३९॥
क्ष्वेडो मुखशब्दः, शोडनिकेति प्रसिद्धा। आस्फोटितं करशब्दः। करास्फोटः, वक्षः-
स्थस्य बाहोर्द्वितीयहस्तेन ताडनम्। पुण्याहशब्दः प्रशस्तवादः। शङ्खः प्रसिद्ध एव। अम्बु
जलम्। एषां सर्वेषां निःस्वनाः शब्दाः सतूर्याध्ययनाः, तूर्येण च सहिताः। अध्ययनशब्दा
वेदनिर्घोषाः। एते सर्व एव पुंवच्छुभाः। वामभागस्था इत्यर्थः। स्त्रीवदन्या गिरः शुभाः।
अन्याः सर्वा गिरो वाचः स्त्रीवच्छुभाः। माङ्गलिकवाचा दक्षिणभागस्थाः शुभा इत्यर्थः।
उक्तं च—
आक्ष्वेडितस्फोटितशङ्खतूर्यपुण्याहगीतध्वनिगीतशब्दाः ।
वामाः प्रशस्ताः शुभदा नराणामाक्रन्दितो दक्षिणतः परेषाम्॥ इति॥३९॥
अधुना ग्रामस्वराणां शुभाशुभत्वमाह—
ग्रामौ मध्यमषड्जौ तु गान्धारश्चेति शोभनाः।
षड्जमध्यमगान्धारा ऋषभश्च स्वरा हिताः ॥४०॥
यात्रा में मध्यम, षड्ज, गान्धार—ये तीनों स्वर शुभ और षड्ज, मध्यम, गान्धार,
ऋषभ—ये चार स्वर हितकारी होते हैं॥४०॥
याने यात्रायां ग्रामौ मध्यमषड्जौ तु शस्तौ शोभनौ। गान्धारश्चेति शोभन एव। इति-
शब्दः प्रकारार्थः। स च गान्धारो देवेषु गीयते। मानुषेषु तथा षड्जमध्यमगान्धारा ऋषभश्चेति
स्वराः शस्ताः। उक्तं च—
गान्धारषड्जऋषभः खलु मध्यमश्च याने स्वराः शुभकरा न तु येऽवशेषाः।
ग्रामौ शुभावपि हि मध्यमषड्जसंज्ञौ गान्धारगीतमपि भद्रमुशन्ति देवाः॥४०॥
अथान्यच्छुभाशुभशकुनमाह—
रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः ।
धन्या नकुलचाषौ च सरटः पापदोऽग्रतः ॥४१॥
भारद्वाज, बकरा, मयूर—इनका शब्द, नामकीर्तन और देखना धन्य है तथा नेवला,
चाष और सरट—इनका आगे में आना अशुभ है॥४१॥
भरद्वाजः पक्षिविशेषः। लाटेति प्रसिद्धः। अजश्छागः। बर्ही मयूरः। एते सर्वे रुतेन