सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 428, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 428

४०० बृहत्संहिता
तिथिदीप्तः। वायुदीप्तः। अर्कदीप्तः। नक्षत्रदीप्तः। स्थानदीप्तः। चेष्टादीप्तः। एतेषां
लक्षणं प्रागेवोक्तम्। कस्यचिद्विघातं कर्तुमिच्छुः। एवंविधा दीप्ताः। यथाक्रमं धनसैन्य-
बलाङ्गेष्टकर्मणां भयङ्कराः स्युर्भवेयुः। तद्यथा—तिथिदीप्तः शकुनो धनभयं करोति। वायुदीप्तः
सैन्यस्य। अर्कदीप्तो बलस्य। नक्षत्रदीप्तोऽङ्गस्य शरीरावयवस्य। स्थानदीप्त इष्टस्याभिप्रेतस्य
वल्लभस्य वा। चेष्टादीप्तः कर्मणः।।५८।।
अन्यदप्याह—
जीमूतध्वनिदीप्तेषु भयं भवति मारुतात्।
उभयोः सन्ध्ययोर्दीप्ताः शस्त्रोद्भवभयङ्कराः॥५९॥
मेघ की ध्वनि से दीप्त शकुन वायु से भय और दोनों सन्ध्याओं में दीप्त शकुन
शस्त्र से भय उत्पन्न करता है॥५९॥
जीमूतो मेघः। जीमूतध्वनिना मेघशब्देन दीप्तेषु शकुनेषु मारुताद्वायोर्भयं भवति।
उभयोर्द्वयोः सन्ध्ययोः सूर्योदयास्तमययोर्दीप्ताः शकुनाः शस्त्रोद्भवं शस्त्रसमुत्थं भयं कुर्वन्ति।
अथान्यदप्याह—
चितिकेशकपालेषु मृत्युबन्धवधप्रदाः।
कण्टकीकाष्ठभस्मस्थाः कलहायासदुःखदाः॥६०॥
अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताः।
कुर्वन्ति शकुना दीप्ताः शान्ता याप्यफलास्तु ते॥६१॥
यदि शकुन चिता, केश और कपाल पर बैठे हों तो क्रम से मृत्यु, बन्धन और वध
को करने वाले होते हैं तथा काँटेदार वृक्ष, काष्ठ और भस्म पर बैठे हों तो क्रम से कलह,
उपद्रव और दुःख देने वाले होते हैं। यदि शकुन निस्सार वस्तु पर बैठे हों तो कार्य की
असिद्धि और पत्थर पर बैठे हों तो भय करते हैं। ये सब दीप्त शकुनों के फल हैं। शान्त
शकुन बहुत कम अशुभ फल देने वाले होते हैं॥६०-६१॥
चितिकेशकपालेष्विति। चितौ शवदाहाग्निसमीपे मृत्युं मरणं ददाति। केशेषु
मूर्धजेषु स्थितो बन्धं ददाति। कपालेऽस्थिशकले स्थितो वधं मरणं तथा कण्टकीवृक्षे
स्थितः शकुनः कलहं ददाति। काष्ठे स्थितः आयासमुपद्रवं ददाति। भस्मनि स्थितो दुःखम्।
तथा निःसाराश्मव्यवस्थिताः अप्रसिद्धिं भयं वापि कुर्वन्ति। निःसारेऽन्तःसुषिरे स्थितः
कार्याणामप्रसिद्धिं करोति। अश्मनि पाषाणे स्थितो भयं करोति। कुर्वन्ति शकुना दीप्ता
इति। यदेतत् प्रागुक्तं चितिकेशकपालेषु, तद्दीप्ताः शकुनाः कुर्वन्ति, शान्तास्तु ते पुनर्याप्य-
फला भवन्ति। याप्यमीषत् फलं भवति॥६१॥
अन्यदप्याह—
असिद्धिसिद्धी ज्ञेयौ निर्हाराहारकारिणौ।
स्थानाद्भवन् व्रजेद्यात्रां शंसते त्वन्यथागमम्॥६२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA