सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

शकुनाध्यायः ३८७
गौः प्रसिद्धा। शशः प्राणिविशेषः। क्रौञ्चः पक्षी। लोमाशः प्राणी। हंसः। उत्क्रोशाख्याः
कुरवः। कपिञ्जलाख्यः। सर्व एव पक्षिविशेषाः। विडालो मार्जारः। उत्सवो विवाहादिकः।
वादित्राणि वीणामुरुजमर्दलकरटाभेरीपणवगोमुखपटहादयः। गीतं प्रसिद्धम्। हास उपहासः।
एते वारुणाः पश्चिमायां बलिनः॥२२॥
अथोत्तरस्यामाह—
शतपत्रकुरङ्गाखुमृगैकशफकोकिलाः ।
चाषशल्यकपुण्याहघण्टाशङ्खरवा उदक् ॥२३॥
दार्व्वाघाट पक्षी, हरिण, चूहा, मृग, घोड़ा, गदहा, कोयल, चाष, बिल में रहने वाले
जीव, पुण्याहवाचन का शब्द, घण्टा, शंख—ये सभी उत्तर दिशा में बली होते हैं॥२३॥
शतपत्रः पक्षी, दार्व्वाघाट इति प्रसिद्धः। कुरङ्गो हरिणः। आखुर्मूषकः। मृगः प्रसिद्धो
हरिणः। एकशफावश्वगर्दभौ। कोकिलः परभृतः। चाषः पक्षी। शल्यको विलेशयः प्राणी।
पुण्याहरव आशीःसंयुक्तः शब्दः। घण्टाशङ्खौ प्रसिद्धौ। एषां सर्वेषां रवाः शब्दा उदगुत्तरस्यां
दिशि बलिनः॥२३॥
अधुना तेषां प्रतिभागमाह—
न ग्राम्योऽरण्यगो ग्राह्यो नारण्यो ग्राम्यसंस्थितः ।
दिवाचरो न शर्वर्यां न च नक्तञ्चरो दिवा ॥२४॥
वन में गाँव के शकुन, गाँव में वन के शकुन, रात्रि में दिन के शकुन और दिन में
रात्रि के शकुन का ग्रहण नहीं करना चाहिये॥२४॥
ग्राम्यशब्दः शकुनोऽरण्यगोऽरण्यस्थितः शुभोऽशुभो वा न ग्राह्यः। एवमारण्योऽपि
ग्रामसंस्थितो न ग्राह्यः। दिवाचरो दिवसचरः शर्वर्यां रात्रौ न ग्राह्यः। नक्तञ्चरो रात्रिञ्चरो दिवसे
न ग्राह्यः॥२४॥
पुनरतिप्रतिषेधार्थमाह—
द्वन्द्वरोगार्दितत्रस्ताः कलहामिषकाङ्क्षिणः ।
आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्वचित् ॥२५॥
द्वन्द्व ( सारसभिन्न नर-मेदिन का जोड़ा ), रोग से पीड़ित, भीत, कलह करने की
इच्छा वाले, मांसाभिलाषी, नदी के दूसरे किनारे पर स्थित और ऋतुकाल के कारण
सदर्प शकुनों का ग्रहण नहीं करना चाहिये॥२५॥
द्वन्द्वं युग्मं तच्च सारयुग्मं विना यतस्तदिष्टफलं वक्ष्यति च—'सारसकूजितमिष्टफलं
तद्युगपद्विरुतं मिथुनस्य' इति। रोगार्दितो गदपीडितः। त्रस्तो भीतः। कलहकाङ्क्षी कलहेच्छुः।
आमिषकाङ्क्षी मांसाभिलाषी। आपगान्तरिता नद्यन्तरिताः। मत्ता ऋतुकालवशेन सदर्पाः।
एवंविधाः शकुनाः सदसत्फलेषु न क्वचिदपि ग्राह्याः। उक्तं च—
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

३८८ बृहत्संहिता
द्वन्द्वादिरोगार्दितभीतमत्तवैरान्तयुद्धामिषकाङ्क्षिणश्च ।
सीमान्तनद्यन्तरिताश्च सर्वे न चिन्तनीयाः सदसत्फलेषु ।। इति ।। २५ ।।
अधुना चैतेषामृतुकालज्ञानं निष्फलत्वं चाह—
रोहिताश्वाजवालेयाः कुरङ्गोष्ट्रमृगाः शशः ।
निष्फलाः शिशिरे ज्ञेया वसन्ते काककोकिलौ ।। २६ ।।
शिशिर काल में रोहित मृग, घोड़ा, बकरा, गदहा, कुरङ्ग, ऊँट, मृग और खरहा
तथा वसन्त काल में कौवा और कोयल निष्फल होते हैं ।। २६ ।।
रोहितो मृगजातिः । अश्वस्तुरगः । अजश्छागः । वालेयो गर्दभः । कुरङ्गो मृगजातिः ।
उष्ट्रः करभः । मृगो हरिणः । शशः प्राणी । एते सर्वे शिशिरे माघफाल्गुनयोः सदसत्त्वान्निष्फला
ज्ञेया ज्ञातव्याः । वसन्ते चैत्रवैशाखयोः काको वायसः, कोकिलः परभृतः । एतौ सदसत्त्वा-
त्रिष्फलावेव ।। २६ ।।
अन्येष्वाह—
न तु भाद्रपदे ग्राह्याः सूकरश्ववृकादयः ।
शारद्याब्जादगोक्रौञ्चाः श्रावणे हस्तिचातकौ ।। २७ ।।
भाद्रपद मास में सूअर, कुत्ता, भेड़िया आदि ( बिल में रहने वाले जन्तु ) का,
शरत्काल में पानी से उत्पन्न होने वाले पक्षी बगुला आदि, गाय और क्रौञ्च पक्षी का तथा
श्रावण मास में हाथी और चातक का ग्रहण नहीं करना चाहिये ।। २७ ।।
भाद्रपदे मासि सूकरो वराहः । श्वा सारमेयः । वृकः प्राणी । आदिग्रहणाद् मृगादयो
बिलेशयाः । एते न ग्राह्याः । सदसत्त्वाद्वा निष्फलाः । शारद्याश्विनकार्तिकयोः । अब्जादा हंसादयः ।
अप्सु जायत इत्यब्जजम्। तददन्ति भक्षयन्ति इति अब्जादाः । गौः प्रसिद्धा । क्रौञ्चः पक्षि-
विशेषः । एते सदसत्त्वान्निष्फलाश्च ग्राह्याः । श्रावणे मासि हस्तिचातकौ न ग्राह्यौ । हस्ती
गजः । चातकः पक्षिविशेषः ।। २७ ।।
अथान्येष्वप्याह—
व्याघ्रर्क्षवानरद्वीपिमहिषाः सबिलेशयाः ।
हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानुषाः ।। २८ ।।
हेमन्त में बाघ, भालू, बन्दर, चीता, भैंसा, साँप और मनुष्य को छोड़कर समस्त शिशु
निष्फल होते हैं ।। २८ ।।
व्याघ्रः प्रसिद्धः प्राणी नखी। ऋक्षः प्राणी। वानरः कपिः । द्वीपी चित्रकः । महिषः
प्रसिद्धः । एते सबिलेशयाः, बिलेशयैः प्राणिभिः सहिताः । बिले शेते बिलेशयः, श्वाविन्न-
कुलादयः । विमानुषा मानुषवर्जिताः सर्वे प्राणिनः । बालाः शिशवः । हेमन्ते मार्गशीर्ष-
पौषयोर्निष्फला ज्ञेया ज्ञातव्याः । मानुषा बालाः पुनः सफला एव। एतेषां यच्छुभाशुभचेष्टितं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनाध्यायः ३८९
तत्सफलमेव। अत्र ऋतुकाललक्षणं भगवत्पराशरकृतं विस्तृतं लिख्यते—
'अथ शकुनेषु कोकिलमयूरजीवजीवकप्रियपुत्रराजपुत्रीगोदापुत्रशतपत्रदात्यूहमदनसारिका-
वर्षाभूकोयष्टिमहामुक्तकमषकदण्डिमाणवकवायसकुक्कुटवकोत्क्रोशशार्ङ्गप्लवकचित्रक-
पोतपुष्परथोष्ट्ररथादीनां वसन्तो मदकालः। शतपत्रोत्क्रोशभृङ्गराजमयूरकोकिलवकवलाहकाप्ल-
ववाकधन्वनचातकसारङ्गाणां वर्षाः। चकोरकादम्बमदनशारिकाकीरपुष्करचातकहंसचक्रवाक-
सारसकुररक्रौञ्चकारण्डवभ्रमराणां शरत्। श्येनकुररक्रौञ्चसारसादीनां हेमन्ते शिशिरे एवमादयः
शकुनानां मदकालश्च। मृगाणां पुनः पुरुषाणां च शिवाशशजम्बूकसूमरचमरवानरमार्जारनकुल-
गजगवयसिंहव्याघ्रकूर्मवराहादीनां प्रायः सर्वेषां मदकालश्च विशेषतश्च सारससूमरसिंहव्याघ्रादीनां
ग्रीष्मे। हरिणगजवृषभादीनां प्रावृट्। वृषभरुरुमहिषगवयसृमरचमराणां शरत्, गोगवयवृषादीनां
हेमन्तः शिशिरः' इति।।२८।।
अधुना द्वात्रिंशद्भेदभिन्नस्य दिक्‍चक्रस्य प्रविभागप्रदर्शनार्थमाह—
ऐन्द्रानलदिशोर्मध्ये त्रिभागेषु व्यवस्थिताः।
कोशाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम् ।।२९।।
पूर्व और अग्निकोण के अन्तर्गत प्रदेश के त्रिभाग में प्रदक्षिण क्रम से कोशाध्यक्ष,
अग्निजीवी और तपस्वी—ये तीन स्थित होते हैं।।२९।।
ऐन्द्री पूर्वा दिक्, अनला आग्नेयी। अनयोर्मध्येऽन्तरे त्रयस्त्रिभागास्तेषु व्यवस्थिताः
क्रमेण कोशे गञ्जेऽध्यक्षः स चैकस्मिन् भागे। द्वितीये अनलाजीवी अग्न्युपजीवकः सुवर्ण-
कारादिकः। तृतीये तपोयुक्तस्तापसः। एत एव प्रदक्षिणं प्रादक्षिण्येनेति।।२९।।
अन्येष्वप्याह—
शिल्पी भिक्षुर्विवस्त्रा स्त्री याम्यनलदिगन्तरे।
परतश्चापि मातङ्गगोपधर्मसमाश्रयाः।।३०।।
दक्षिण और अग्निकोण के अन्तर्गत प्रदेश के त्रिभाग में क्रम से कारीगर, भिक्षुक
और नङ्गी स्त्री—ये तीन स्थित होते हैं। दक्षिण और नैर्ऋत्य कोण के अन्तर्गत प्रदेश के
त्रिभाग में क्रम से हाथी, गोप और धार्मिक लोग स्थित लोग हैं।।३०।।
याम्या दक्षिणा, अनला आग्नेयी। अनयोरन्तरे मध्ये ये त्रयो भागास्तेषु क्रमेण व्यव-
स्थिताः। शिल्पी चित्रकरलेखकवर्धकिप्रायाः प्रथमे त्रिभागे। भिक्षुर्यतिर्द्वितीये। विवस्त्रा स्त्री
नग्ना स्त्री तृतीये। परतो दक्षिणनैर्ऋत्योर्मध्ये ये त्रयस्त्रिभागास्तेषु प्रथमे मातङ्गो हस्ती तत्समा-
श्रितः पुमान्। द्वितीये गोपालकस्तत्समाश्रितः पुमान्। तृतीये धर्मसमाश्रयो धर्मानुरतः।।३०।।
अन्येष्वप्याह—
नैर्ऋतीवारुणीमध्ये प्रमदासूतितस्कराः।
शौण्डिकः शाकुनी हिंस्रो वायव्यापश्चिमान्तरे ।।३१।।
पश्चिम और नैर्ऋत्य कोण के अन्तर्गत प्रदेश के त्रिभाग में क्रम से स्त्री, प्रसूता स्त्री

३९० बृहत्संहिता
और चोर स्थित रहते हैं। वायव्य और पश्चिम दिशा के अन्तर्गत प्रदेश के त्रिभाग में
कलाल, पक्षी को मारने वाले और हिंसा करने वाले स्थित रहते हैं।।३१।।
नैर्ऋती दक्षिणपश्चिमा, वारुणी पश्चिमा, अनयोर्मध्ये ये त्रयस्त्रिभागा मध्ये स्थितास्तेषु
प्रथमे प्रमदा स्त्री। द्वितीये सूतिः प्रसवः। तृतीये तस्कराश्चौराः। वायव्यापश्चिमन्तरे ये त्रय-
स्त्रिभागा मध्ये स्थितास्तेषु प्रथमे शौण्डिको मधुपानसक्तः। कल्पपाल इति केचित्। द्वितीये
शाकुनी धीवरः। तृतीये हिंस्रः क्रूरः।।३१।।
अन्येष्व्याह—
विषघातकगोस्वामिकुहकज्ञास्ततः परम्।
धनवानीक्षणीकश्च मालाकारः परं ततः॥३२॥
वायव्य और उत्तर दिशा के अन्तर्गत प्रदेश के त्रिभाग में क्रम से विष को नाश
करने वाले, गोस्वामी (गोमान्) और इन्द्रजाल विद्या जानने वाले स्थित रहते हैं। उत्तर
और ईशान कोण के अन्तर्गत प्रदेश के त्रिभाग में धनी, दैवज्ञ और माली—ये तीन
स्थित रहते हैं।।३२।।
ततः परमनन्तरम्। वायव्योत्तरयोरन्तरे ये त्रयस्त्रिभागाः। तत्र प्रथमे विषघातकः।
विषं घातयति मारयति। द्वितीये गोस्वामी गोमान्। तृतीये कुहकज्ञ इन्द्रजालवित्। ततः
परमुत्तरैशान्योरन्तरे ये त्रयो भागास्तेषु प्रथमे धनवान्। द्वितीये ईक्षणीको दैवज्ञः। तृतीये
मालाकारः पुष्पप्रचायकः।।३२।।
अन्येष्वप्याह—
वैष्णवश्चरकश्चैव वाजिनां रक्षणे रतः।
द्वात्रिंशदेवं भेदाः स्युः पूर्वदिग्भिः सहोदिताः॥३३॥
ईशान कोण और पूर्व दिशा के अन्तर्गत प्रदेश के त्रिभाग में क्रम से वैष्णव, चरक
एवं सहीस—ये तीन स्थित रहते हैं। इस प्रकार पूर्व आदि आठ दिशाओं के बत्तीस भेद
होते हैं।।३३।।
ऐशानीपूर्वयोरन्तरे त्रयस्त्रिभागास्तेषु प्रथमे वैष्णवो विष्णुभक्तः। द्वितीये चरकश्चरः।
तृतीये वाजिनामश्वानां रक्षणे पालने रतः सक्तः। एवमनेनैव प्रकारेण द्वात्रिंशद्भेदाः पूर्वदिग्भिः
प्रागुक्ताभिरष्टाभिर्दिग्भिः सह साकमुदिताः कथिताः स्युर्भवेयुः।।३३।।
अधुनाष्टासु दिक्ष्वधिपतीनाह—
राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः।
राजाध्यक्षश्च पूर्वाद्याः क्षत्रियाद्याश्चतुर्दिशम्॥३४॥
पूर्व आदि आठ दिशाओं के प्रदक्षिणक्रम से राजा, कुमार, सेनापति, दूत, सेठ,
गुप्तचर, ब्राह्मण और गजाध्यक्ष—ये आठ तथा पूर्व आदि चार दिशाओं के क्षत्रिय
आदि (क्षत्रिय, वैश्य, शूद्र, ब्राह्मण) चार अधिपति होते हैं।।३४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

राजा नृपः पूर्वस्यां दिशि। कुमारो राजपुत्र आग्नेय्याम्। नेता सेनापतिर्दक्षिणस्याम्।
दूतो गमागमिको नैर्ऋत्याम्। श्रेष्ठी पश्चिमायाम्। चरो गूढपुरुषो वायव्याम्। द्विजो ब्राह्मण
उत्तरस्याम्। गजाध्यक्षो हस्तिशालाध्यक्ष ऐशान्याम्। एते पूर्वाद्या ज्ञेया। क्षत्रियाद्याश्चतुर्दिशम्।
पूर्वाद्यासु चतसृषु दिक्षु क्षत्रियाद्या वर्णाः। तद्यथा—पूर्वस्यां क्षत्रियाः। दक्षिणस्यां वैश्याः।
पश्चिमायां शूद्राः। उत्तरस्यां ब्राह्मणाः।।३४।।
अथ चक्रस्य प्रविभागमाह—
गच्छतस्तिष्ठतो वापि दिशि यस्यां व्यवस्थितः।
विरौति शकुनो वाच्यस्तद्दिग्जेन समागमः ।।३५।।
यात्रा में गमन करते हुये या एक स्थान पर स्थित पुरुष के जिस दिशा में स्थित
होकर शकुन शब्द करे, उस दिशा में स्थित प्राणी के साथ समागम कहना चाहिये। जैसे
पूर्व और आग्नेय कोण के प्रथम त्रिभाग में शकुन हो तो कोषाध्यक्ष, द्वितीय में हो तो
अग्निजीवी, तृतीय त्रिभाग में तापस इत्यादि के साथ समागम कहना चाहिये।।३५।।
पुंसो गच्छतो यात्रायां व्रजतः। तिष्ठत एकदेशस्थस्य निश्चलस्य वाऽपि यस्यां
दिशि व्यवस्थितः समवस्थितः। शकुनः प्राणी पक्षी वा विरौति शब्दं करोति, तद्दिग्जेन
यस्यां दिशि यो जातस्तेन कथितेन सह तस्मिन् दिने तस्य समागमः संयोगो वाच्यो
वक्तव्यः। यथेन्द्रानलदिशोर्मध्ये प्रथमत्रिभागस्थे शकुने कोषाध्यक्षेण सह संयोगः। द्वितीये-
ऽनलाजीविना। तृतीये तापसेनेत्यादि सर्वत्रोदाहार्यम्।।३५।।
अत्र शिष्यजनभ्रान्तिनिरासाय चक्रविन्यासः प्रदर्श्यते—

                            [कुहकज्ञ इन्द्रजालवित्]
                 [गोस्वामी]            [उत्तरा]
             [विषवाहकः]                   [धनवान्]
          [वायवी]                             [ईक्षणिको दैवज्ञः]
        [क्रूरः]                                  [मालाकारः]
     [शाकुनी धीवरः]                                 [ऐशानी]
    [शौण्डिकः]                                        [वैष्णवः]
   [पश्चिमा]                                          [चरकः]
   [तस्करः]                                           [अश्वरक्षकः]
    [सूतिः]                                          [पूर्वा]
     [प्रमदा स्त्री]                                   [कोषाध्यक्षः]
        [नैर्ऋती]                                    [अग्निजीवी]
          [धर्मरतः]                               [तापसः]
             [गोपालकः]                         [आग्नेयी]
                 [मातङ्गः]                [शिल्पी]
                            [दक्षिणा] [नग्ना स्त्री] [भिक्षुः]

३९२ बृहत्संहिता
अधुना रुतान् शुभाशुभानाह—
भिन्नभैरवदीनार्तपरुषक्षामजर्जराः ।
स्वना नेष्टाः शुभाः शान्तहृष्टप्रकृतिपूरिताः ॥३६॥
विषम, भयंकर, दीन, जर्जर ( फूटते हुये भाण्ड से उत्पन्न )—ये सभी शब्द शुभ
नहीं होते। अर्काभिमुख होकर, मधुर स्वर से और हर्षपूर्वक किये हुये सभी शब्द शुभ
होते हैं॥३६॥
ये स्वनाः शब्दा भिन्ना विषमाः। भैरवाः क्रूराः। दीना दैन्यमागताः। जर्जरा भिन्नभाण्ड-
समुद्भूतशब्दसदृशाः। ते सर्व एव नेष्टा न शुभाः। ये स्वनाः शान्तेन शान्तदिक्स्थेनार्काभिमुखेन
मधुरस्वरेण च हृष्टप्रकृतिना सहर्षेण पूरिताः कृतास्ते च शुभाः॥३६॥
अथ यातुर्वामभागगता ये शुभा गतास्तेषां नामान्याह—
शिवा श्यामा रला छुच्छुः पिङ्गला गृहगोधिका।
सूकरी परपुष्टा च पुन्नामानश्च वामतः ॥३७॥
सियार, पोतकी, कलहकारिका, छछुन्दर, उलूकचेटिका, पल्ली, सूअर, कोयल,
पुरुषसंज्ञक जन्तु—ये सभी गमन करने वाले के बाँयीं तरफ शुभ होते हैं॥३७॥
शिवा शृगालिका। श्यामा पोतकी। रला कलहकारिका। छुच्छुः छुच्छुन्दरी मूषकजातिः।
पिङ्गला उलूकचेटिका। गृहगोधिका पल्ली। सूकरी प्रसिद्धा। परपुष्टा च 'कोकिला। ये
चान्ये पुन्नामानः पुरुषसंज्ञास्ते यातुर्वामितो वामभागगताः शुभाः। उक्तं च—
छुच्छुन्दरी सूकरिका शिवा च श्यामा रला पिङ्गलिकाऽन्यपुष्टा।
शस्ताः प्रयाणे गृहगोधिका च पुंसंज्ञिता ये च पतत्रिणः स्युः॥ इति॥३७॥
अथ यातुर्दक्षिणभागगता ये शुभास्तेषां नामान्याह—
स्त्रीसंज्ञा भासभषककपिश्रीकर्णधिक्कराः।
शिखिश्रीकण्ठपिप्पीकरुरुश्येनाश्च दक्षिणाः ॥३८॥
भासपक्षी, भषक, वानर, श्रीकर्ण पक्षी, धिक्कर ( मृग जाति ), बाज, स्त्रीसंज्ञक
जन्तु—ये सभी गमन करने वाले के दक्षिण भागगत शुभ होते हैं॥३८॥
ये च स्त्रीसंज्ञाः स्त्रीनामानः। तथा च भगवान् पराशरः—'तेषां शिवागोधाकालका-
राजपूतरीभरद्वाजबलाकापोतकीसूकरिकापिप्पीकास्रुतक्षिपप्रचलापिण्डीकपिङ्गलाद्याः स्त्रीसंज्ञाः
शेषाः पुन्नामानः।'
तथा भासः पक्षी। भषकः करायिका। कपिर्वानरः। श्रीकर्णः पक्षी। धिक्करो मृगजातिः।
श्येनो वाजिकः। एते दक्षिणा यातुर्दक्षिणभागगताः शुभाः। उक्तं च—
श्येनो रुरुः पूर्वकुटः कपिश्च श्रीकर्णधिक्कारकपिप्पिकाजाः।
स्त्रीसंज्ञिता ये च शिखिद्विपौ च याने हिता दक्षिणभागसंस्थाः॥ इति॥३८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनाध्यायः ३९३
अथान्येषामपि वामदक्षिणभागानां शुभाशुभफलमतिदिशन्नाह—
क्ष्वेडास्फोटितपुण्याहगीतशङ्खाम्बुनिःस्वनाः ।
सतूर्याध्ययनाः पुंवत् स्त्रीवदन्या गिरः शुभाः ॥३९॥
क्ष्वेड ( मुख का शब्द ), आस्फोट ( हाथों का शब्द ), पुण्याह शब्द, शंख का
शब्द, जल का शब्द, तुरही का शब्द और वेदध्वनि—ये सभी पुरुष की तरह ( वाम-
भागस्थित ) शुभ होते हैं तथा अन्य मांगलिक शब्द स्त्रीवत् ( दक्षिण भागस्थित ) शुभ
होते हैं॥३९॥
क्ष्वेडो मुखशब्दः, शोडनिकेति प्रसिद्धा। आस्फोटितं करशब्दः। करास्फोटः, वक्षः-
स्थस्य बाहोर्द्वितीयहस्तेन ताडनम्। पुण्याहशब्दः प्रशस्तवादः। शङ्खः प्रसिद्ध एव। अम्बु
जलम्। एषां सर्वेषां निःस्वनाः शब्दाः सतूर्याध्ययनाः, तूर्येण च सहिताः। अध्ययनशब्दा
वेदनिर्घोषाः। एते सर्व एव पुंवच्छुभाः। वामभागस्था इत्यर्थः। स्त्रीवदन्या गिरः शुभाः।
अन्याः सर्वा गिरो वाचः स्त्रीवच्छुभाः। माङ्गलिकवाचा दक्षिणभागस्थाः शुभा इत्यर्थः।
उक्तं च—
आक्ष्वेडितस्फोटितशङ्खतूर्यपुण्याहगीतध्वनिगीतशब्दाः ।
वामाः प्रशस्ताः शुभदा नराणामाक्रन्दितो दक्षिणतः परेषाम्॥ इति॥३९॥
अधुना ग्रामस्वराणां शुभाशुभत्वमाह—
ग्रामौ मध्यमषड्जौ तु गान्धारश्चेति शोभनाः।
षड्जमध्यमगान्धारा ऋषभश्च स्वरा हिताः ॥४०॥
यात्रा में मध्यम, षड्ज, गान्धार—ये तीनों स्वर शुभ और षड्ज, मध्यम, गान्धार,
ऋषभ—ये चार स्वर हितकारी होते हैं॥४०॥
याने यात्रायां ग्रामौ मध्यमषड्जौ तु शस्तौ शोभनौ। गान्धारश्चेति शोभन एव। इति-
शब्दः प्रकारार्थः। स च गान्धारो देवेषु गीयते। मानुषेषु तथा षड्जमध्यमगान्धारा ऋषभश्चेति
स्वराः शस्ताः। उक्तं च—
गान्धारषड्जऋषभः खलु मध्यमश्च याने स्वराः शुभकरा न तु येऽवशेषाः।
ग्रामौ शुभावपि हि मध्यमषड्जसंज्ञौ गान्धारगीतमपि भद्रमुशन्ति देवाः॥४०॥
अथान्यच्छुभाशुभशकुनमाह—
रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः ।
धन्या नकुलचाषौ च सरटः पापदोऽग्रतः ॥४१॥
भारद्वाज, बकरा, मयूर—इनका शब्द, नामकीर्तन और देखना धन्य है तथा नेवला,
चाष और सरट—इनका आगे में आना अशुभ है॥४१॥
भरद्वाजः पक्षिविशेषः। लाटेति प्रसिद्धः। अजश्छागः। बर्ही मयूरः। एते सर्वे रुतेन

३९४ बृहत्संहिता
शब्देन कीर्तनेन नामसङ्कीर्तनेन दृष्टेन दर्शनेन च धन्याः शुभाः। नकुलचाषौ, नकुलः प्राणी,
चाषः पक्षिविशेषः। एतावपि च शब्दौ धन्यावेव रुतकीर्तनदृष्टेष्विति। सरटः प्राणी पक्षिभेदः।
कृकलास इति केचित्। स चाग्रतः पुरतः पापदोऽनिष्टफलः।।४१।।
अथान्यदप्याह—
जाहकाहिशशक्रोडगोधानां कीर्तनं शुभम्।
रुतं सन्दर्शनं नेष्टं प्रतीपं वानरर्क्षयोः ॥४२॥
यात्रा के समय में जाहक, सर्प, खरगोश, सूअर और गोह का नाम लेना शुभकारी
है। इससे उलटा वानर तथा भालू का फल होता है। अर्थात् यात्रा-समय में वानर तथा
भालू का नाम लेना अशुभ तथा शब्द और दर्शन शुभ है।।४२।।
जाहकः प्राणी। अहिः सर्पः। शशः प्राणी। क्रोडः सूकरः। गोधा प्राणिविशेषः। एतेषां
कीर्तनं नामग्रहणं शुभम्। एतेषामेव रुतं शब्दः सन्दर्शनमवलोकनं नेष्टं शुभम्। प्रतीपं
वानरर्क्षयोः, वानरः कपिः, ऋक्षः प्राणी। एतयोः प्रतीपमेतद्विपरीतम्। एतयो रुतं सन्दर्शन-
मिष्टम्, न कीर्तनमित्यर्थः। उक्तञ्च—
भारद्वाज्यज्वन्तिचाषनकुलाः सङ्कीर्तनाद् दर्शनात्
क्रोशन्तश्च शुभप्रदा न सरटो दृष्टः शिवाय क्वचित्।
गोधासूकरजाहकाहिशशकाः पापा रुतालोकने
धन्यं कीर्तनमृक्षवानरकलं तद्व्यत्ययाच्छोभनम्।। इति।।४२।।
अन्यदप्याह—
ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः।
चाषः सनकुलो वामो भृगुराहापराह्णतः ॥४३॥
विषमसंख्यक (१, ३, ५, ७ आदि) मृग, नकुल और अण्डज प्राणी वाम पार्श्व
से आगे आकर दक्षिण पार्श्व में आ जायँ तथा नकुल के साथ चाप पक्षी दक्षिण पार्श्व से
आकर वाम पार्श्व में आ जायँ तो शुभ होते हैं। भृगु का मत है कि ये सभी अपराह्न में
शुभकारी होते हैं, पूर्वाह्न में नहीं।।४३।।
मृगा हरिणाः। सनकुलाण्डजा नकुलाः प्राणिनः। अण्डजाः पक्षिणः। ते चोजा विषम-
सङ्ख्याः। एकस्त्रयः पञ्च सप्त नव इत्यादि। प्रादक्षिण्येन शस्ता शुभाः। यातुर्वामपार्श्वादग्रत
आगत्य प्रदक्षिणेन पार्श्वेन क्रामति यत् तत् प्रदक्षिणं सव्यं च। एतद्विपरीतं दक्षिण-
पार्श्वाद्वमपार्श्वगमनं यत् तदपसव्यम्। एतत्सर्वं शाकुने विज्ञेयम्। यस्मादाचार्य एव
ज्ञापकः—
ऐन्द्रानलदिशोर्मध्ये त्रिभागेषु व्यवस्थिताः।
कोषाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम्।। इति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनाध्यायः ३९५
चाषः सनकुलो वाम इति। चाषः सनकुलो नकुलेन सहितो वामो वामभागगतो
धन्यः। भृगुराहापराह्नतः, भृगुर्नाम मुनिरेवमाहोक्तवान्। यथाऽपराह्नतोऽपराह्नात् परतो वामगौ
धन्यौ, न पूर्वाह्ने। तथा भृगुः—
वामगौ चाषनकुलावपराह्ने शुभप्रदौ।
श्वशृगालयोरिदं व्यत्यासेन फलं प्रशस्यते। चाषौ नकुलश्च वामगो दिवसाधार्त् परतः
शुभप्रदः।।४३।।
अथान्येषामप्याह—
छिक्करः कूटपूरी च पिरिली चाह्नि दक्षिणाः ।
अपसव्याः सदा शस्ता दंष्ट्रिणः सबिलेशयाः ॥४४॥
दिन में सियार, करायिका और पिरली पक्षी दक्षिण भाग में शुभ होते हैं तथा दंष्ट्री
( सूअर आदि ) और बिल में रहने वाले प्राणी वाम भाग में शुभ होते हैं।।४४।।
छिक्करः शृगालः, कूटपूरी करायिका, पिरिली पक्षिविशेषः, तेऽह्नि दिवसे दक्षिणाः
शस्ताः। दंष्ट्रिणो वराहादयः। बिले शेते ते बिलेशयाः श्वाविन्नकुलादयः। दंष्ट्रिणो बिलेशयैः
सह अपसव्या वामभागगताः शस्ताः शोभनाः।।४४।।
अधुना दिग्वशेन शाकुनानां शुभाशुभमाह—
श्रेष्ठे ह्यसिते प्राच्यां शवमांसे च दक्षिणे ।
कन्यकादधिनौ पश्चादुदग्गोविप्रसाधवः ॥४५॥
पूर्व में घोड़ा और सफेद वस्तु, दक्षिण में शव और मांस, पश्चिम में कन्या और दही
तथा उत्तर में गाय, ब्राह्मण और सज्जन पुरुष श्रेष्ठ होते हैं।।४५।।
हयोऽश्वः। सितः श्वेतवर्णो यः कश्चिद्वस्तुरूपः। एते प्राच्यां पूर्वदिशि यातुः श्रेष्ठे
शोभने। शवो मृतपुरुषः। मांसमामिषम्। एते दक्षिणे दक्षिणस्यां दिशि शुभे। कन्यका
कुमारी। दधि क्षीरविकारः। एते पश्चिमे पश्चिमायां दिशि शोभने। गौः प्रसिद्धा। विप्रो
ब्राह्मणः। साधुः सज्जनः। एत उदग् उत्तरस्यां दिशि शोभनाः। उक्तं च—
द्रव्याणि श्वेतानि तुरङ्गमश्च पूर्वेण याम्येन शवं समांसम्।
पश्चात् कुमारी दधि चातिशस्तं सौम्येन गोब्राह्मणसाधवश्च।। इति।।४५।।
अथाशुभानाह—
जालश्वचरणौ नेष्टौ प्राग्याम्यौ शस्त्रघातकौ ।
पश्चादासवरषण्ढौ च खलासनहलान्युदक् ॥४६॥
पूर्व में जाल के साथ चलने वाले और कुत्ते के साथ चलने वाले, दक्षिण में शस्त्र
और वधिक, पश्चिम में आसव ( मद्य आदि ) और नपुंसक तथा उत्तर में आसन और
हल अशुभ होते हैं।।४६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३९६ बृहत्संहिता
जालः प्रसिद्धः। सूत्रतन्तुविरचितो जालः पक्षिणो यत्र बध्यन्ते। जालेन चरति शुना
चरतीति जालश्वचरणौ। एतौ प्राक् पूर्वस्यां दिशि नेष्टावशुभौ। शस्त्रमायुधवर्जितमन्यद्यत्
किञ्चित्। घातको बाधकः। एतौ याम्यायां दक्षिणस्यां दिशि न शुभौ। आसवः पानविशेषः।
षण्ढः क्लीबः। एतौ पश्चात् पश्चिमायां दिशि न शुभौ। खलो दुर्जनः। आसनं प्रसिद्धम्।
पर्यङ्कादि। हलं लाङ्गलम्। एतान्युदगुत्तरस्यां दिशि न शोभनानि। उक्तं च—
जालकरश्वकरौ न शुभौ प्राग् घातकशस्त्रकरौ यमदिक्स्थौ।
षण्ढकमद्यकरावपि पश्चादासनशीरखलैः सह चोदक्।। इति।।४६।।
अधुना कर्मादौ शकुनानां विशेषमाह—
कर्मसङ्गमयुद्धेषु प्रवेशे नष्टमार्गणे।
यानव्यस्तगता ग्राह्या विशेषश्चात्र वक्ष्यते ॥४७॥
कर्मर ( जो करते हैं ), संगम ( किसी वृद्ध आदि के साथ संयोग ) युद्ध, प्रवेश
( गृहप्रवेश आदि ) और नष्ट द्रव्य के अन्वेषण में यात्रा में कथित प्रदेश से विरुद्ध
प्रदेश में स्थित शकुन शुभ होता है। जैसे यात्रा में जो दक्षिण में शुभ हैं वे यहाँ पर वाम
में, यात्रा में जो वाम में शुभ हैं वे यहाँ पर दक्षिण में, यात्रा में जो आगे में शुभ हैं वे
यहाँ पर पीछे में, यात्रा में जो पीछे में शुभ हैं वे यहाँ पर आगे में, यात्रा में जो पूर्व दिशा
में शुभ हैं वे यहाँ पर पश्चिम में, यात्रा में जो पश्चिम में शुभ हैं वे यहाँ पर पूर्व में, यात्रा
में जो दक्षिण में शुभ हैं वे यहाँ पर उत्तर में और यात्रा में जो उत्तर में शुभ हैं वे यहाँ पर
दक्षिण में शुभ होते हैं।।४७।।
कर्म यत् किञ्चित् क्रियते। सङ्गमः केनचिद्वृद्धादिना सह संयोगः। युद्धः संग्रामम्।
एतेषु। तथा प्रवेशे गृहप्रवेशादौ। नष्टमार्गणे नष्टस्यापहृतस्य वस्तुनो मार्गणेऽन्वेषणे।
एतेषु सर्वेषु यानव्यस्तगता ग्राह्याः। याने यात्रायां येन प्रकारेणोक्तास्तद्व्यत्ययेनैतेषु ग्राह्याः।
एतदुक्तं भवति—यात्रायां ये दक्षिणे शस्तास्तेऽत्र वामतः। यात्रायां वामतस्तेऽत्र दक्षिणतः।
यात्रायां ये च पुरस्तात् तेऽत्र पृष्ठतः। यात्रायां ये च पृष्ठतस्तेऽत्राग्रत इति। दिक्ष्वप्येवमेव
विपर्यया विज्ञातव्याः। तेन यात्रायां ये पूर्वस्यां दिशि तेऽत्र पश्चिमायाम्। ये च पश्चिमायां
ते च पूर्वस्याम्। ये च दक्षिणस्यां त उत्तरस्याम्। य उत्तरस्यां ते दक्षिणस्यामिति। अत्रा-
स्मिन्नर्थे कर्मसङ्गमादिके यो विशेषः स वक्ष्यते कथयिष्यते। उक्तं च—
नष्टावलोकनसमागमयुद्धकर्मवेश्मप्रवेशमनुजेश्वरदर्शनेषु।
......................................................यानप्रतीपविधिना शुभदा भवन्ति।। इति।।४७।।
अथात्रैव विशेषमाह—
दिवा प्रस्थानवद्ग्राह्याः कुरङ्गरुरुवानराः।
अहश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः ॥४८॥
पश्चिमे शर्वरीभागे नप्तृकोलूकपिङ्गलाः।
सर्व एव विपर्यस्ता ग्राह्याः सार्थेषु योषिताम् ॥४९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनाध्यायः ३९७
दिन में पूर्वोक्त कर्म आदि करना हो तो वहाँ पर कुरङ्ग, रुरु (मृगजाति) और
वानर को; पूर्वाह्न में चाष, वञ्जुल और मुर्गा को तथा रात्रि के अन्त भाग में नप्तृक, उल्लू
और पिङ्गला को यात्रा की तरह ग्रहण करना चाहिये; किन्तु स्त्रियों के लिये उपर्युक्त
समस्त शकुन विपरीतक्रम से ग्रहण करना चाहिये॥४८-४९॥
दिवा प्रस्थानवदिति। कर्मादिषु दिवा दिवसे। कुरङ्गरुरुवानराः, कुरङ्गो हरिणः,
रुरुर्मृगजातिः, वानरः कपिः, एते प्रस्थानवद् ग्राह्याः। यथा प्रस्थाने यात्रायां गृह्यते तथात्रापि।
अह्नो दिवसस्य प्रथमे भागे चाषवञ्जुलकुक्कुटाः सर्व एते पक्षिणः प्रस्थानवद् ग्राह्याः।
शर्वरी रात्रिः, तस्याः पश्चिमेऽन्त्ये भागे। नप्तृका उलूका पिङ्गला एते सर्व एव
पक्षिणः। पिङ्गलोलूकचेटिका, एते प्रस्थानवद् ग्राह्याः। योषितां स्त्रीणां केवलानां सार्थेषु
सर्व एव विपर्यस्ता विपरीतगता ग्राह्याः। यात्रायां कर्मसङ्गमादिष्वपि सर्वत्र विपरीता
ग्राह्या इति॥४८-४९॥
अन्यदप्याह—
नृपसन्दर्शने ग्राह्यः प्रवेशेऽपि प्रयाणवत्।
गिर्यरण्यप्रवेशेषु नदीनां चावगाहने॥५०॥
वामदक्षिणगौ शस्तौ यौ तु तावग्रपृष्ठगौ।
यात्रा में जो वाम और दक्षिणगत शकुन शुभ हैं, वे राजा के दर्शन, गृहप्रवेश आदि,
पर्वतप्रवेश, वनप्रवेश और नदी के पार होने में क्रम से आगे और पीछे में शुभ होते हैं।
जैसे—यात्रा में जो वाम में शुभ हैं, वे यहाँ पर आगे में और यात्रा में जो दक्षिण में शुभ
हैं, वे यहाँ पर पीछे में शुभ होते हैं॥५०-१/२॥
नृपो राजा तस्य सन्दर्शनेऽवलोकने। यद्यपि प्रवेशो राजगृहे भवति, तथापि प्रयाणवद्
ग्राह्यः। एवं यद्यपि प्रवेशस्तथापि तस्मिन् प्रयाणवद् ग्राह्यः। उक्तं च—
केचिज्जगुर्गमनवन्नृपदर्शनेषु -------------------------। इति।
गिरिप्रवेशे पर्वतप्रवेशे। अरण्यप्रवेशे अटव्याम्। नदीनां सरितामेवावगाहने उत्तरणे।
यौ शकुनौ यात्रायां वामदक्षिणगौ शस्तौ तावग्रपृष्ठगाविति प्रवेशादिशि शस्तौ।
यात्रायां ये वामतः शस्तास्तेऽत्राग्रतः पुरतः। यात्रायां ये दक्षिणतस्तेऽत्र पृष्ठत इति॥५०॥
अथान्येष्व्वाह—
क्रियादीप्तौ विनाशाय यातुः परिघसंज्ञितौ॥५१॥
तावेव तु यथाभागं प्रशान्तरुतचेष्टितौ।
शकुनौ शकुनद्वारसंज्ञितावर्थसिद्धये॥५२॥
क्रियादीप्ति में गमन करने वाले के दोनों पार्श्व में शकुन दिखाई दे तो 'परिघ'संज्ञक
शकुन होता है। परिघसंज्ञक शकुन होने पर गमन करने वाले का नाश होता है; किन्तु वे
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३९८ बृहत्संहिता
दोनों शकुन यथाभाग ( दक्षिण भाग वाले दक्षिण भाग में और वाम भाग वाले वाम
भाग में ) स्थित होकर शान्तिपूर्वक शब्द करें तो 'शकुनद्वार' संज्ञक होते हैं। इनमें गमन
करने वाले के अभीष्ट अर्थ की सिद्धि होती है।।५१-५२।।
क्रियादीप्तस्य लक्षणं प्रागुक्तम्—'क्रियादीप्तो गतस्थानभावस्वरविचेष्टितैः' इति।
क्रियादीप्तौ शकुनौ यातुर्जिगमिषोर्यदि परिघसंस्थितौ उभयपार्श्वस्थितौ भवतस्तदा विनाशाय
यातुरेव भवतस्तावेव शकुनौ परिघसंज्ञितौ।
यथाभागं यथास्थितौ भवतः। यः शकुनो दक्षिणस्थितः स च तत्रैव शुभः, यश्च वाम-
भागस्थः स च वामभाग एव शुभः। तौ च प्रशान्तरुतचेष्टितौ, प्रशान्तं रुतं शब्दश्चेष्टितं
च ययोस्तौ तथाभूतौ शकुनौ शकुनानां शुभानामर्थानां द्वारसंज्ञितौ मार्गभूतावर्थानां च
सिद्धये भवतः।।५१-५२।।
अधुना मतान्तरेण शकुनद्वारमाह—
केचित्तु शकुनद्वारमिच्छन्त्युभयतः स्थितैः।
शकुनैरेकजातीयैः शान्तचेष्टाविराविभिः ॥५३॥
किसी का मत है कि एक जाति वाले, शान्त चेष्टा से शब्द करने वाले, दोनों पार्श्व
में स्थित शकुनों से शकुनद्वार संज्ञक शकुन बनता है।।५३।।
चेष्टालक्षणं वक्ष्यति—'तिथिवार्व्वर्कभस्थानचेष्टादीप्ता यथाक्रमम्।' एवं शान्तचेष्टा
विरावः शब्दश्च येषां तैः शकुनैरेकजातीयैरेकयोन्युद्भवैरुभयतः स्थितैः पार्श्वद्वयगतैः केचित्
शकुनद्वारमिच्छन्ति कथयन्ति। तथा च नन्दिः—
एकयोन्युद्भवैः शान्तैः शान्तचेष्टैर्व्यवस्थितैः।
यथाभागगतैस्तैश्च शकुनद्वारमिष्यते।। इति।।५३।।
अन्यदप्याह—
विसर्जयति यद्येक एकश्च प्रतिषेधति।
स विरोधोऽशुभो यातुर्ग्राह्यो यो बलवत्तरः ॥५४॥
यदि यात्रा के समय एक शकुन यात्रा करने की आज्ञा दे और दूसरा निषेध करे तो
वह 'विरोध' संज्ञक शकुन अशुभ फल देने वाला होता है अथवा उन दोनों में जो बली
हो, उसका ग्रहण करना चाहिये।।५४।।
एकः शकुनो यदि विसर्जयति यश्चात्र सिद्धिमाचष्टे। एकश्चान्यः प्रतिषेधति विरोधमाचष्टे
स च यातुर्गच्छतो विरोधसंज्ञः, अशुभश्च, अथवा तयोर्द्वयोर्बलवत्तरोऽतिशयेन बली स
ग्राह्यः। बलं च प्रागेवोक्तम्—'जवजातिबलस्थानम्' इति।।५४।।
अन्यदप्याह—
पूर्वं प्रावेशिको भूत्वा पुनः प्रास्थानिको भवेत्।
सुखेन सिद्धिमाचष्टे प्रवेशे तद्विपर्ययात् ॥५५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनाध्यायः ३९९
यदि यात्राकाल में पहले प्रवेशकालिक शकुन होकर बाद में यात्राकालिक शकुन
हो तो सुखपूर्वक कार्य की सिद्धि होती है तथा गृहप्रवेश आदि काल में इसके विपरीत
( पहले यात्राकालिक शकुन होकर बाद में प्रवेशकालिक शकुन ) हो तो सुखपूर्वक
कार्य की सिद्धि होती है।।५५।।
पूर्वं प्रथमं शकुनः प्रावेशिको भूत्वा पुनः पश्चात् प्रास्थानिकः प्रायाणिको यदि भवति,
प्रयाणे यद्धितं तत् करोति। प्रवेशे नष्टमार्गणे यानव्यस्तगतो ग्राह्य इति। एवमादौ प्रावेशिकः।
तदा स शकुनः सुखेनाक्लेशेन यातुः सिद्धिमाचष्टे कथयति। प्रवेशे तद्विपर्ययात्। प्रवेशो
यात्रायां निर्वर्त्य स्वगृहे याता प्रविशति, तस्मिन् प्रवेशे तद्विपर्ययादुक्तविपर्ययाद् ग्राह्यः।
पूर्वं प्रायाणिकः पश्चात् प्रावेशिको यदि भवति, तदा सुखेन सिद्धिमाचष्ट इति।।५५।।
अथान्यदप्याह—
विसर्ज्य शकुनः पूर्वं स एव निरुणद्धि चेत्।
प्राह यातुररेर्मृत्युं डमरं रोगमेव वा ॥५६॥
जो शकुन पहले शुभ चेष्टा करके बाद में यात्रा का निषेध करे तो वह शत्रु द्वारा
गमन करने वाले की मृत्यु, शस्त्रकलह या रोग को सूचित करता है।।५६।।
शकुनः प्रथमं पूर्वं विसर्ज्य यात्रायां शुभचेष्टितं कृत्वा स एव पुनर्यदि निरुणद्धि
यात्रां प्रतिषेधयति, तदा यातुर्गच्छतः, अरेः शत्रोः सकाशान्मृत्युं मरणं प्राह कथयति।
अथवा डमरं शस्त्रकलहं रोगमेव वा कथयति।।५६।।
अथान्यदप्याह—
अपसव्यास्तु शकुना दीप्ता भयनिवेदिनः।
आरम्भे शकुनो दीप्तो वर्षान्तस्तद्भयङ्करः ॥५७॥
दीप्त दिशा में स्थित होकर बाईं तरफ शकुन हो तो भय को सूचित करता है तथा
कार्य के प्रारम्भ में ही दीप्त शकुन दिखाई दे तो एक वर्ष तक उस कार्य में भय को
अभिव्यक्त करता है।।५७।।
अपसव्या अप्रदक्षिणाः शकुनास्ते च दीप्तदिक्स्थाः सूर्याभिमुखं भयवेदिनो भयं
निवेदयन्ति कथयन्ति। आरम्भे कार्यप्रारम्भे शकुनो दीप्तो वर्षान्तर्वर्षमध्ये तद्भयङ्करः।
तस्मिन्नेव कार्ये तद्भयं करोति।।५७।।
अधुना चेष्टादीप्तस्य लक्षणं तत्फलं चाह—
तिथिवारर्क्ष भस्थानचेष्टादीप्ता यथाक्रमम्।
धनसैन्यबलाङ्गेष्टकर्मणां स्युर्भयङ्कराः ॥५८॥
तिथि, वायु, नक्षत्र, सूर्य, स्थान और चेष्टा दीप्त हों तो क्रम से धन, सैन्य, बल,
अंग, इष्ट और कर्म के लिये भयकारी होते हैं।।५८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४०० बृहत्संहिता
तिथिदीप्तः। वायुदीप्तः। अर्कदीप्तः। नक्षत्रदीप्तः। स्थानदीप्तः। चेष्टादीप्तः। एतेषां
लक्षणं प्रागेवोक्तम्। कस्यचिद्विघातं कर्तुमिच्छुः। एवंविधा दीप्ताः। यथाक्रमं धनसैन्य-
बलाङ्गेष्टकर्मणां भयङ्कराः स्युर्भवेयुः। तद्यथा—तिथिदीप्तः शकुनो धनभयं करोति। वायुदीप्तः
सैन्यस्य। अर्कदीप्तो बलस्य। नक्षत्रदीप्तोऽङ्गस्य शरीरावयवस्य। स्थानदीप्त इष्टस्याभिप्रेतस्य
वल्लभस्य वा। चेष्टादीप्तः कर्मणः।।५८।।
अन्यदप्याह—
जीमूतध्वनिदीप्तेषु भयं भवति मारुतात्।
उभयोः सन्ध्ययोर्दीप्ताः शस्त्रोद्भवभयङ्कराः॥५९॥
मेघ की ध्वनि से दीप्त शकुन वायु से भय और दोनों सन्ध्याओं में दीप्त शकुन
शस्त्र से भय उत्पन्न करता है॥५९॥
जीमूतो मेघः। जीमूतध्वनिना मेघशब्देन दीप्तेषु शकुनेषु मारुताद्वायोर्भयं भवति।
उभयोर्द्वयोः सन्ध्ययोः सूर्योदयास्तमययोर्दीप्ताः शकुनाः शस्त्रोद्भवं शस्त्रसमुत्थं भयं कुर्वन्ति।
अथान्यदप्याह—
चितिकेशकपालेषु मृत्युबन्धवधप्रदाः।
कण्टकीकाष्ठभस्मस्थाः कलहायासदुःखदाः॥६०॥
अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताः।
कुर्वन्ति शकुना दीप्ताः शान्ता याप्यफलास्तु ते॥६१॥
यदि शकुन चिता, केश और कपाल पर बैठे हों तो क्रम से मृत्यु, बन्धन और वध
को करने वाले होते हैं तथा काँटेदार वृक्ष, काष्ठ और भस्म पर बैठे हों तो क्रम से कलह,
उपद्रव और दुःख देने वाले होते हैं। यदि शकुन निस्सार वस्तु पर बैठे हों तो कार्य की
असिद्धि और पत्थर पर बैठे हों तो भय करते हैं। ये सब दीप्त शकुनों के फल हैं। शान्त
शकुन बहुत कम अशुभ फल देने वाले होते हैं॥६०-६१॥
चितिकेशकपालेष्विति। चितौ शवदाहाग्निसमीपे मृत्युं मरणं ददाति। केशेषु
मूर्धजेषु स्थितो बन्धं ददाति। कपालेऽस्थिशकले स्थितो वधं मरणं तथा कण्टकीवृक्षे
स्थितः शकुनः कलहं ददाति। काष्ठे स्थितः आयासमुपद्रवं ददाति। भस्मनि स्थितो दुःखम्।
तथा निःसाराश्मव्यवस्थिताः अप्रसिद्धिं भयं वापि कुर्वन्ति। निःसारेऽन्तःसुषिरे स्थितः
कार्याणामप्रसिद्धिं करोति। अश्मनि पाषाणे स्थितो भयं करोति। कुर्वन्ति शकुना दीप्ता
इति। यदेतत् प्रागुक्तं चितिकेशकपालेषु, तद्दीप्ताः शकुनाः कुर्वन्ति, शान्तास्तु ते पुनर्याप्य-
फला भवन्ति। याप्यमीषत् फलं भवति॥६१॥
अन्यदप्याह—
असिद्धिसिद्धी ज्ञेयौ निर्हाराहारकारिणौ।
स्थानाद्भवन् व्रजेद्यात्रां शंसते त्वन्यथागमम्॥६२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनाध्यायः ४०१
मल का त्याग करने वाले और भोजन करने वाले शकुन क्रम से कार्य की असिद्धि
और सिद्धि करने वाले होते हैं। यदि शब्द करते हुये शकुन अपने स्थान से चले जायें
तो गमन और पुनः अपने स्थान पर आकर बैठ जायें तो किसी के आगमन को सूचित
करते हैं।।६२।।
निर्हाराहारकारिणौ शकुनौ यथासङ्ख्यमसिद्धिसिद्धिदौ ज्ञेयौ ज्ञातव्यौ। निर्हारं पुरीषोत्सर्गः।
निर्हारकारी शकुनोऽसिद्धिं कार्याणां करोति। आहारकारी भोजनकृल्लीलासिद्धिकरः। स्थाना-
द्रुवन्निति । यस्मिन् स्थाने स्थितस्तस्माद्रुवन् शब्दं कुर्वन् यदि व्रजेद् गच्छेत्, तदा यात्रां
गमनं शंसते कथयति। अथया विपर्ययं आगमं शंसते कथयति। एतदुक्तं भवति—वाच्य-
मानः स्थानमागत्य उपविशति तदा शकुनः कस्यचिदागमं शंसते।।६२।।
अथान्यदप्याह—
कलहः स्वरदीप्तेषु स्थानदीप्तेषु विग्रहः ।
उच्चमादौ स्वरं कृत्वा नीचं पश्चाच्च दोषकृत् ॥६३॥
स्वरदीप्त शकुन में कलह, स्थानदीप्त में विग्रह और पहले जोर से शब्द करके
बाद में मन्द हो जायें तो दोष करने वाले होते हैं।।६३।।
स्वरो दीप्तो येषां तेषु शकुनेषु कलहो भवति। स्थाने दीप्ता ये स्थितास्तेषु विग्रहो
भवति। आदौ प्रथममुच्चं स्वरं कृत्वा पश्चात्रीचमल्पं करोति, तदा दोषकृद्दोषं करोति।।६३।।
अन्यदप्याह—
एकस्थाने रुवन् दीप्तः सप्ताहाद् ग्रामघातकः ।
पुरदेशनरेन्द्राणामृत्वर्धायनवत्सरात् ॥६४॥
यदि एक स्थान पर स्थित शकुन दीप्त होकर सात दिन तक शब्द करता रहे तो
गाँव के नाश को, दो मास तक शब्द करता रहे तो पुर के घात को, तीन मास तक शब्द
करता रहे तो देश के घात को और एक वर्ष तक शब्द करता रहे तो राजा के घात को
सूचित करता है।।६४।।
दीप्तः शकुन एकस्मिन् स्थाने रुवन् क्रोशन् सकलमेव दिनं तिष्ठति, तदा सप्ताहात्
सप्तभिर्दिनैः पुरतो ग्रामघातको ग्रामविनाशं करोति। न केवलं यावत् पुरदेशनरेन्द्राणामृत्वर्धा-
यनवत्सराद् विनाशं करोति। पुरं नगरं तत्र चैकस्थाने रुवन् ऋतुना मासद्वयेन घातं करोति।
एवमर्धायनेन त्रिभिर्मासैर्देशघातं करोति। नृपस्य राज्ञो वत्सराद् वर्षाद् घातं करोति। एक-
स्थाने रुवन्निति सर्वत्रानुवृत्तिः।।६४।।
अन्यदप्याह—
सर्वे दुर्भिक्षकर्त्तारः स्वजातिपिशिताशिनः ।
सर्पमूषकमार्जरपृथुलोमविवर्जिताः ॥६५॥
बृ० सं० द्वि०-२६
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४०२ बृहत्संहिता
सर्प, चूहा, बिल्ली और मछली के अतिरिक्त कोई भी शकुन यदि अपनी ही जाति
का मांसभक्षण करने लगे तो दुर्भिक्षकारी होता है।।६५।।
सर्वे शकुनाः स्वजातिपिशिताशिनः स्वजातीनां पिशितं मांसमश्नन्ति भक्षयन्ति,
तथाभूता दुर्भिक्षं कुर्वन्ति, किन्तु सर्प उरगः, मूषक आखुः, मार्जारो बिडालः, पृथुलोमा मत्स्यः।
एतान् वर्जयित्वा एषां सर्वेषां पिशिताशित्वं स्वभाव एव अन्येषामुत्पातः। उक्तं च—
विहाय सर्पाखुविडालमत्स्यान् स्वजातिमांसान्युपभुञ्जते वा।
व्रजन्ति वा मैथुनमन्यजात्याम्....................................................।। इति।।६५।।
अन्यदप्याह—
परयोनिषु गच्छन्तो मैथुनं देशनाशनाः ।
अन्यत्र वेसरोत्पत्तेर्नृणां चाजातिमैथुनात् ॥६६॥
खच्चर की उत्पत्ति को (घोड़े के साथ गदहे के मैथुन से खच्चर की उत्पत्ति होती
है, उसको) तथा मनुष्यों के अजाति मैथुन को छोड़कर कोई शकुन अन्य जाति के
साथ मैथुन करे तो देश का नाश होता है।।६६।।
परयोनिष्वन्ययोनिषु मैथुनं व्रजन्तो गच्छन्तो देशनाशं कुर्वन्ति, किन्तु अन्यत्र वेसरो-
त्पत्तेरिति। वेसरोऽश्वतरस्तदुत्पत्तेस्तत्सम्भवादन्यत्र तां वर्जयित्वा तत्राश्वायां गर्दभो याति।
नृणां पुंसां चाजातिमैथुनादन्यत्र। यतो नरा मनुष्या अजातौ वडवादिशु यान्ति। एवमादिकं
वर्जयित्वा यतस्तदुत्पत्तिरूपं न भवति।।६६।।
अन्यदप्याह—
बन्धघातभयानि स्युः पादोरूमस्तकान्तिगैः ।
शष्पापःपिशितान्नादैर्दोषवर्षक्षयग्रहाः ॥६७॥
पाद, ऊरु और शिर के निकट होकर शकुन चला जाय तो क्रम से बन्धन, घात
और भय को सूचित करता है। घास खाता हुआ शकुन दिखाई दे तो दोष उत्पन्न करने
वाला, जल पीता हुआ दिखाई दे तो वर्षा करने वाला, मांस खाता हुआ दिखाई दे तो
अंगक्षत करने वाला और अन्न खाता हुआ शकुन दिखाई दे तो किसी बन्धु का समागम
कराने वाला होता है।।६७।।
पादोरुमस्तकान्तिगैः शकुनैर्यथाक्रमं बन्धघातभयानि स्युर्भवेयुः, यदा शकुनः पादान्तिगः
पादनिकटे याति तदा बन्धं करोति। अथोरुप्रदेशे ऊर्वोर्निकटे याति, तदा घातमभिघातं
करोति। अथ मस्तके याति, तदा भयं करोति। शष्पापःपिशितान्नादैरिति । शष्पा-
पस्तृणाशी शकुनः नृणां नाशेन दोषं करोति। अपोऽदो जलाशी शकुनो वर्षं वृष्टिं
करोति। पिशितादो मांसभक्षी क्षतमङ्गक्षतं करोति। अन्नादोऽन्नभक्षी ग्रहं संयोगं केनचिद्बन्धुना
सह करोति।।६७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

शाकुनाध्यायः ४०३
अधुना शकुनोपदेशेऽनागन्तूनां लक्षणमाह—
क्रूरोग्रदोषदुष्टैश्च प्रधाननृपवृत्तकैः ।
चिरकालेन दीप्ताद्यास्वागमो दिक्षु तन्नृणाम् ॥६८॥
दीप्त दिशा में स्थित शकुन क्रूर के साथ किसी पुरुष का आगमन, धूमित दिशा में
स्थित शकुन दण्ड के साथ किसी पुरुष का आगमन, शान्त दिशा में स्थित शकुन दोष-
युक्त पुरुष के साथ किसी पुरुष का आगमन, इसके बाद दुष्ट पुरुष के साथ, इसके बाद
प्रधान पुरुष के साथ, इसके बाद राजा के साथ, इसके बाद श्रावक के साथ और इसके
बाद अङ्गारित दिशा में स्थित शकुन बहुत देर के बाद किसी पुरुष के आगमन को
सूचित करता है॥६८॥
दीप्ताद्यास्वष्टसु दिक्षु स्थिते शकुने क्रूराद्युपलक्षितानां नॄणां पुरुषाणामागमो भवति।
तन्नॄणां तन्नृशकुनोपलक्षितानाम्। तेन दीप्तायां दिशि स्थितः शकुनः कस्यचित् पुरुषस्य
क्रूरेण हिंस्रेण संयुक्तस्यागमं करोति। धूमितायां दिशि स्थितः शकुनः कस्यचिदुग्रेण दण्डेन
सह नरस्यागमं करोति। तत्परं शान्तायां दिशि स्थितः कस्यचिद्दोषयुक्तेन नरेण सहितस्यागमं
करोति। तत्परं दुष्टेन संयुक्तस्य। तत्परं प्रधानेन युक्तस्य। तत्परं नृपेण राज्ञा संयुक्तस्य।
तत्परं वृत्तकेन श्रावकेण संयुक्तस्य। तत्परमङ्गारितायां दिशि स्थितः शकुनश्चिरकालेन
प्रभूतसमयेन सहितस्य नरस्यागमं करोति। एवं केचिद् व्याचक्षते। अन्ये चतस्रो दिश
इच्छन्ति। दीप्ता दीपिता शान्ताङ्गारिणी चेति। तत्र दीप्तदिक्स्थे शकुने क्रूरेण सहितस्य
नरस्यागमम्। धूमितदिक्स्थे उग्रेण तीव्रतरेण दोषेण दुष्टो यस्तेन सहितस्यागमम्। शान्त-
दिक्स्थे प्रधानस्य नृपस्य नहुषादेर्वृत्तं चरितं यः कथयति, तेन सहितस्य। अङ्गारितास्थे
चिरकालेन सहितस्येति सहयोगे तृतीया। एषैव व्याख्या ज्यायसी॥६८॥
अथ य आगच्छति तस्य सद्रव्यनिद्र्व्यत्वज्ञानमाह—
सद्रव्यो बलवांश्च स्यात् सद्रव्यस्यागमो भवेत् ।
द्युतिमान् विनतप्रेक्षी सौम्यो दारुणवृत्तकृत् ॥६९॥
जिस दिन किसी भक्ष्य द्रव्य के साथ बली शकुन दिखाई दे, उस दिन द्रव्य का
लाभ होता है। यदि दीप्तियुत और अधोमुख दृष्टि वाला शुभ शकुन भी दिखाई दे तो
भयानक वृत्तान्त को सूचित करता है॥६९॥
शकुनः सद्रव्यो येन केनचिद् भक्ष्यद्रव्येण संयुक्तः स च बलवांश्च बलयुक्तः स्याद्
भवेत्। तदा सद्रव्यस्यागमो भवेत् स्यात्। य आगच्छति तद्दिने स द्रव्ययुक्तः, अन्यथा
शून्यहस्तः। अथ शकुनो द्युतिमान् दीप्तियुक्तः स एव यदि विनतप्रेक्षी अधोदृष्टिर्भवति,
तदा सौम्योऽपि शुभोऽपि दारुणं तीव्रं वृत्तं करोति। वृत्तं कथनं यः सूचयति स वृत्तकृद्
दुष्टं फलं करोति। य आगच्छति सद्रव्यः पुमान् स उपद्रवं करोतीत्यर्थः॥६९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४०४ बृहत्संहिता
अन्यदप्याह—
विदिक्स्थः शकुनो दीप्तो वामस्थेनानुवाशितः ।
स्त्रियाः संग्रहणं प्राह तद्दिगाख्यातयोनितः ॥७०॥
यदि विदिशा में स्थित दीप्त शकुन वाम भाग में स्थित अन्य शकुन के द्वारा शब्द
करे तो उस दिशा में उक्त पुरुष के द्वारा किसी स्त्री का संयोग सूचित करता है॥७०॥
शकुनो विदिक्स्थो विदिशि स्थितो दीप्तः सूर्याभिमुखः स च वामस्थेन वामभाग-
समवस्थितेनान्येन शकुनेनानुवाशितो यदि भवति, तदा तद्दिगाख्यातयोनितः तस्यां दिशि
आख्याता उक्ता योनिरुत्पत्तिर्यस्य नरस्य तस्य सकाशात् स्त्रिया योषितः संग्रहणं संयोगं
प्राह कथयति। पुरुषस्तां स्त्रियं ददातीत्यर्थः। अथवा तस्यां विदिशि यस्याः स्त्रिया आख्याता
योनिरतस्याः संयोगमाहेति ॥७०॥
अन्यदप्याह—
शान्तः पञ्चमदीप्तेन विरुतो विजयावहः ।
दिग्नरागमकारी वा दोषकृत् तद्विपर्यये ॥७१॥
शान्त शकुन अपने से पाँचवीं दीप्त दिशा में स्थित दीप्त शकुन द्वारा शब्दायमान
हो तो उस दिशा में स्थित पुरुष का आगमन कहता है। उससे विपरीत ( दीप्त शकुन
अपने से पाँचवीं शान्त दिशा में स्थित शान्त शकुन द्वारा शब्दायमान ) हो तो दोष करने
वाला होता है॥७१॥
शान्तः शकुनः पञ्चमदीप्तेनान्येन विरुतः। तस्माच्छकुनाद्यः पञ्चम्यां दिशि दीप्तायां
स्थिता दीप्तः स एवार्काभिमुखस्तेन। विरुतः कृतशब्दो विजयावहो भवति विजयमावहति।
दिग्नरागमकारी वा। तस्यां दिशि यो नरः पुरुषस्तस्य वाऽऽगमं करोति। तत आगच्छतीत्यर्थः।
दोषकृत् तद्विपर्यये। यस्तस्मात् पूर्वोक्ताद् विपर्यये विपरीते स दोषकृत्। दीप्तः पञ्चमशान्तेन
विरुतस्तदा दोषकृद्भवति, दोषमशुभं करोतीत्यर्थः॥७१॥
अन्यदप्याह—
वामसव्यगतो मध्यः प्राह स्वपरयोर्भयम् ।
मरणं कथयन्त्येते सर्वे समविराविणः ॥७२॥
मध्य स्थित शकुन वाम पार्श्वगत शकुन के द्वारा शब्दायमान हो तो आत्मीय जनों
से और दक्षिण पार्श्वगत शकुन के द्वारा शब्दायमान हो तो शत्रुओं से भय को सूचित
करता है तथा ये सभी एक ही समय में यदि बराबर शब्द करें तो होने वाले मरण को
सूचित करते हैं॥७२॥
मध्यो मध्यमभागस्थः शकुनो वामसव्यगतो यथाक्रमं स्वपरयोर्भयं प्राह कथयति।
मध्यस्थः शकुनो वामभागस्थेन शकुनेन विरुतः स्वभयं स्वीयेभ्य आत्मीयेभ्यो भयं प्राह।
स एव मध्यमः सव्येन दक्षिणभागस्थेन विरुतः पराच्छत्रोर्भयं प्राह। अर्थादेवं द्वाभ्यां
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

शाकुनाध्यायः ४०५
विरुतो मध्यस्थः स्वपरयोरेव भयं प्राह। सर्व एते त्रयः समविराविणो युगपदुद्भवन्तो मरणं
कथयन्ति प्रवदन्ति।।७२।।
अन्यदप्याह—
वृक्षाग्रमध्यमूलेषु गजाश्वरथिकागमः।
दीर्घाब्जमुषिताग्रेषु नरनौशिबिकागमः ॥७३॥
यदि वृक्ष के अग्रभाग पर शकुन बैठा हो तो गजारूढ़ मनुष्य का, वृक्ष के मध्य में
शकुन बैठा हो तो अश्वारूढ़ मनुष्य का और वृक्ष के मूल में शकुन बैठा हो तो रथारूढ़
मनुष्य का आगमन सूचित करता है। यदि लम्बी वस्तु पर शकुन बैठा हो तो नरारूढ़
मनुष्य का, कमलपुष्प पर बैठा हो तो नाव का और छिन्नाग्र भाग वाले वस्तु पर बैठा हो
तो पालकी का आगमन सूचित करता है।।७३।।
वृक्षाग्रे स्थितः शकुनो गजारूढस्य नरस्यागमं करोति। वृक्षमध्ये स्थितोऽश्वारूढस्य।
वृक्षमूले रथिकस्य रथारूढस्य। दीर्घे आयामिनि वस्तुनि स्थितः शकुनो नरारूढस्य नर-
स्यागमं करोति। अब्जे पद्मादौ स्थितो नाव आगमनं करोति। मुषिताग्रे छिन्नाग्रे स्थितः
शिबिकागमनं युग्यस्यागमनं करोति। युग्यस्थस्येत्यर्थः।।७३।।
अथान्यदप्याह—
शकटेनोन्नतस्थे वा छायास्थे छत्रसंयुते।
एकत्रिपञ्चसप्ताहात् पूर्वाद्यास्वन्तरासु च ॥७४॥
किसी उच्च प्रदेश ( पर्वत आदि ) पर शकुन बैठा हो तो शकटारूढ़ मनुष्य का
और छाया में शकुन बैठा हो तो छत्रसंयुक्त पुरुष का आगमन सूचित करता है। पूर्व आदि
दिशा और आग्नेय आदि विदिशा में पूर्वोक्त शकुन बैठे हों तो क्रम से एक, तीन, पाँच
और सात दिन में शुभाशुभ फल प्रदान करते हैं। जैसे पूर्व दिशा में शकुन बैठे हों तो
एक दिन में तथा उत्तर दिशा में बैठे हों तो सात दिन में शुभाशुभ फल देते हैं। आग्नेय
कोण में शकुन बैठे हों तो एक दिन में, नैर्ऋत्य कोण में बैठे हों तो तीन दिन में, वायव्य
कोण में बैठे हों तो पाँच दिन में और ईशान कोण में शकुन बैठे हों तो सात दिन में
शुभाशुभ फल प्रदान करते हैं।।७४।।
शकटेनोन्नतस्थे। उच्चभागसमवस्थिते पर्वतादौ व्यवस्थिते। शकटेन गन्त्या कश्चिदा-
गच्छति। छायास्थे शकुने छत्रसंयुत आतपत्रेण संयुक्त आगच्छति। तद्यथा—शकुने शुभमशुभं
चोक्तं गन्त्याद्यागमनं वा; तत् कस्मिन् काले भवतीत्याह—एकत्रिपञ्चसप्ताहादिति ।
प्राच्यादिषु दिक्ष्वन्तरासु च विदिक्ष्वेकत्रिपञ्चसप्ताहाद् भवति। पूर्वस्यां दिशि स्थितेन
शकुनेन यत् सूचितं शुभाशुभफलं कस्यचिद् वाऽऽगमनं केनचिद् वा संयोगस्तदेकाहादेकेनैव
दिवसेन भवति। एवं दक्षिणस्यां त्र्यहात्। पश्चिमायां पञ्चाहात्। उत्तरस्यां सप्ताहात्। अन्तरासु
च विदिक्षु, चशब्दादेवमेव। तेनाग्नेय्यामेकाहात्। नैर्ऋत्यां त्र्यहात्। वायव्यां पञ्चाहात्।
ऐशान्यां सप्ताहादिति।।७४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४०६ बृहत्संहिता
अधुनाऽत्रैव विशेषज्ञानार्थमाह—
सुरपतिहुतवहयमनिरृतिवरुणपवनेन्दुशङ्कराः क्रमशः।
प्राच्याद्यानां पतयो दिशः पुमांसोऽङ्गना विदिशः ॥७५॥
इन्द्र, अग्नि, यम, राक्षस, वरुण, वायु, चन्द्रमा, शिव—ये क्रम से पूर्व आदि आठ
दिशाओं के स्वामी होते हैं। उनमें पूर्व आदि दिशा पुरुषसंज्ञक और आग्नेय आदि
विदिशा स्त्रीसंज्ञक हैं।।७५।।
सुरपतिप्रभृतयो देवाः प्राच्याद्यानां दिशां पतयः स्वामिनः। सुरपतिरिन्द्रः, स पूर्वस्यां
दिश्यधिपतिः। हुतवहोऽग्निराग्नेय्यामधिपतिः। यमः पितृपतिर्दक्षिणस्याम्। निर्ऋती राक्षसा-
नामधिपतिर्नैर्ऋत्याम्। वरुणोऽपाम्पतिः पश्चिमायाम्। पवनो वायुर्वायव्याम्। इन्दुश्चन्द्रमा
उत्तरस्याम्। शङ्करो रुद्र ऐशान्याम्। प्रयोजनम्—आगतस्य नरस्य येन वा तद्दिने संयोगस्त-
स्येन्द्रादिपर्यायो नाम तस्य देवस्य भक्तिर्वा हतनष्टादौ चौरद्रव्यस्थानां वा शुभाशुभे शकुने
लाभालाभे स्थानं वा प्रश्ने चिन्तायां तत्र मनसा स्थितिर्वा आतुरे तत्सुरपूजनाच्छान्तिर्वेत्यादि।
दिशः पुमांसोऽङ्गना विदिश इति। दिशः पूर्वाद्याश्चतस्रः पुमांसो मनुष्याः। विदिशश्चत-
स्रोऽङ्गनाः स्त्रियः। तथा च पराशरः—
वर्णानां ब्राह्मणादीनामुत्तरादिदिशः स्मृताः।
ऐशान्याद्याश्च विदिशस्ताः स्त्रीणां परिकीर्तिताः ।।
प्रयोजनम्—दिक्षु स्थिते शकुने प्रष्टरि वा पुरुषकृता चिन्ता तज्जन्म वा। एवं विदिक्षु
स्त्रीजन्मनश्चिन्ता वा हतनष्टादौ चौरज्ञानं च। एषामागमः संयोगो भवति।।७५।।
अथ लेखज्ञानमाह—
तरुतालीविदलाम्बरसलिलजशरचर्मपट्टलेखाः स्युः।
द्वात्रिंशत्प्रविभक्ते दिक्चक्रे तेषु कार्याणि ॥७६॥
अग्रिम अध्याय के 'नैर्ऋत्यां स्त्रीलाभस्तुरगालङ्कारपूतलेखाप्तिः' इत्यादि आठवें
श्लोक में लेख की प्राप्ति कही गई है। वहाँ उस लेख की प्राप्ति किस तरह के पत्र पर
होती है, उसको यहाँ पर स्पष्ट कर रहे हैं। पूर्व दिशा में शकुन हो तो वृक्ष के त्वचा या
पत्ते पर, आग्नेय कोण में शकुन हो तो ताल वृक्ष के पत्ते पर, दक्षिण कोण में शकुन हो
तो खण्डित पत्ते पर, नैर्ऋत्य कोण में शकुन हो तो वस्त्र पर, पश्चिम में शकुन हो तो
कमल के पत्ते पर, वायव्य कोण में शकुन हो तो काण्ड पर, उत्तर कोण में शकुन हो तो
चमड़े पर और ईशान कोण में शकुन हो तो पट्ट पर लेख की प्राप्ति होती है। बत्तीस
भाग किये हुये दिक् चक्र में जो शकुन कहे गये हैं और जो आगे कहे जायेंगे, वे सभी
अपने-अपने लोक में होते हैं।।७६।।
पूर्वमैवेन्द्रानलदिशोर्मध्ये