बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 420, कुल 760 में से
संदर्भ में पढ़ें३९२ बृहत्संहिता
अधुना रुतान् शुभाशुभानाह—
भिन्नभैरवदीनार्तपरुषक्षामजर्जराः ।
स्वना नेष्टाः शुभाः शान्तहृष्टप्रकृतिपूरिताः ॥३६॥
विषम, भयंकर, दीन, जर्जर ( फूटते हुये भाण्ड से उत्पन्न )—ये सभी शब्द शुभ
नहीं होते। अर्काभिमुख होकर, मधुर स्वर से और हर्षपूर्वक किये हुये सभी शब्द शुभ
होते हैं॥३६॥
ये स्वनाः शब्दा भिन्ना विषमाः। भैरवाः क्रूराः। दीना दैन्यमागताः। जर्जरा भिन्नभाण्ड-
समुद्भूतशब्दसदृशाः। ते सर्व एव नेष्टा न शुभाः। ये स्वनाः शान्तेन शान्तदिक्स्थेनार्काभिमुखेन
मधुरस्वरेण च हृष्टप्रकृतिना सहर्षेण पूरिताः कृतास्ते च शुभाः॥३६॥
अथ यातुर्वामभागगता ये शुभा गतास्तेषां नामान्याह—
शिवा श्यामा रला छुच्छुः पिङ्गला गृहगोधिका।
सूकरी परपुष्टा च पुन्नामानश्च वामतः ॥३७॥
सियार, पोतकी, कलहकारिका, छछुन्दर, उलूकचेटिका, पल्ली, सूअर, कोयल,
पुरुषसंज्ञक जन्तु—ये सभी गमन करने वाले के बाँयीं तरफ शुभ होते हैं॥३७॥
शिवा शृगालिका। श्यामा पोतकी। रला कलहकारिका। छुच्छुः छुच्छुन्दरी मूषकजातिः।
पिङ्गला उलूकचेटिका। गृहगोधिका पल्ली। सूकरी प्रसिद्धा। परपुष्टा च 'कोकिला। ये
चान्ये पुन्नामानः पुरुषसंज्ञास्ते यातुर्वामितो वामभागगताः शुभाः। उक्तं च—
छुच्छुन्दरी सूकरिका शिवा च श्यामा रला पिङ्गलिकाऽन्यपुष्टा।
शस्ताः प्रयाणे गृहगोधिका च पुंसंज्ञिता ये च पतत्रिणः स्युः॥ इति॥३७॥
अथ यातुर्दक्षिणभागगता ये शुभास्तेषां नामान्याह—
स्त्रीसंज्ञा भासभषककपिश्रीकर्णधिक्कराः।
शिखिश्रीकण्ठपिप्पीकरुरुश्येनाश्च दक्षिणाः ॥३८॥
भासपक्षी, भषक, वानर, श्रीकर्ण पक्षी, धिक्कर ( मृग जाति ), बाज, स्त्रीसंज्ञक
जन्तु—ये सभी गमन करने वाले के दक्षिण भागगत शुभ होते हैं॥३८॥
ये च स्त्रीसंज्ञाः स्त्रीनामानः। तथा च भगवान् पराशरः—'तेषां शिवागोधाकालका-
राजपूतरीभरद्वाजबलाकापोतकीसूकरिकापिप्पीकास्रुतक्षिपप्रचलापिण्डीकपिङ्गलाद्याः स्त्रीसंज्ञाः
शेषाः पुन्नामानः।'
तथा भासः पक्षी। भषकः करायिका। कपिर्वानरः। श्रीकर्णः पक्षी। धिक्करो मृगजातिः।
श्येनो वाजिकः। एते दक्षिणा यातुर्दक्षिणभागगताः शुभाः। उक्तं च—
श्येनो रुरुः पूर्वकुटः कपिश्च श्रीकर्णधिक्कारकपिप्पिकाजाः।
स्त्रीसंज्ञिता ये च शिखिद्विपौ च याने हिता दक्षिणभागसंस्थाः॥ इति॥३८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA